| YouTube Channel

स्फ्याश्लिष्टेज्याधिकरण (sphyAzliSTejyAdhikaraNa)

 
वाचस्पत्यम्
Sanskrit
स्फ्याश्लिष्टेज्याधिकरण
न०
अधिकरणभेदे ति० त०“स्फ्याश्लिष्टेज्याधिकरणञ्च स्फ्यस्य खडूगाकारकाष्ठस्यभक्ताश्लेषनिमित्तकेज्यायामिष्टित्वेन प्रकृतिवद्विकृतिरित्य-तिदेशेन दर्शात्मकप्रकृविधर्माणां प्राप्तौ पूर्वदिनप्रातःका-लीनं हवनीयदेवतावाहनमपि प्राप्तं तच्च तदानीं नविधीयते नैमित्तिके निमित्तनिश्चयवतोऽधिकारितया प्र-कृते श्वाभाविभक्त श्लेषरूपनिमित्तसंशयेन प्रधानानधि-कारिणाऽङ्गानधिकारात्तदुत्तरदिने निमित्तनिश्चयेतदधिकारसिद्धावपि नावाहनानुष्ठानम् आवाहनस्य पूर्वदि-नपातःकालनैयत्यादितीज्याया आवाहनं विनैवानुष्ठानम्”