| YouTube Channel

स्फोटनं (sphoTanaM)

 
शब्दकल्पद्रुमः
Sanskrit
स्फोटनं,
क्ली,
(स्फुट + ल्युट् ।) विदारणम् ।इत्यमरटीकायां भरतः
(यथा, --सुश्रुते ४२ ।“शङ्कुस्फोटनवत्तस्य यस्मात्तीव्राश्च वेदनाः ।शूलासक्तस्य लक्ष्यन्ते तस्मात् शूलमिहोच्यते
”)प्रकाशनम् इति स्फुटधात्वर्थदर्शनात्
(शब्दः यथा, साहित्यदर्पणे २३२ ।“भ्रूविभङ्गोष्ठनिर्द्दंशबाहुस्फोटनतर्ज्जनाः
”स्फोटयतीति स्फुट + णिच् + ल्युः भेदके, त्रि
यथा, हरिवंशे २४७ १२ ।“शतपर्व्वमहारौद्रं स्फोटनं सर्व्वतोमुखम् ।प्रगृह्य रुचिरं वज्रं दीप्त रौद्राट्टहासिनम् ।दैत्यानयोधयत् सर्व्वान् महेन्द्रः पाकशासनः
”)