| YouTube Channel

स्फुरणं (sphuraNaM)

 
Apte 1890
English
स्फुरणं [स्फुर्-ल्युट्] 1 Throbbing, quivering, trembling (in general).
2 Throbbing or quivering of certain parts of the body (indicating good or bad luck).
3 Breaking forth, arising, starting into view.
4 Gleaming, flashing, glittering, shining, twinkling.
5 Flashing on the mind, crossing the memory.
शब्दकल्पद्रुमः
Sanskrit
स्फुरणं,
क्ली,
(स्फुर + ल्युट् ।) किञ्चिच्चलनम् ।इति भरतः
तत्पर्य्यायः स्फरणम् इत्य-मरः
स्फुलनम् स्फोरणम् ४स्फुरः स्फुरणा स्फारणम् इति तट्टीका
स्फूर्त्तिः इति शब्दरत्नावली
*
अङ्ग-स्फुरणस्य शुभाशुभफलं यथा, --“ब्रूमौऽधुनाङ्गस्फुरितस्य सम्यक्प्रत्येकमव्यक्तफलप्रभावम् ।सर्व्वत्र यत्रावनते स्वदेहा-दुत्पद्यते कर्म्मविपाकसंवित्
मूर्द्ध्नि स्फुरत्याशु पृथिव्यवाप्तिःस्थानप्रवृद्धिश्च ललाटदेशे ।भ्रूघ्राणमध्ये प्रियसङ्गमः स्यात्नासाक्षिमध्ये सहायलाभः
दृगन्तमध्यस्फुरणेऽर्थलाभोत्-कण्ठौ क्रमाद्विस्फुरिते दृगादौ ।जयो दृशाधः स्फुरणे रणः स्यात्प्रियश्रुतिः स्यात् स्फुरिते कर्णे
योषित्समृद्धिः स्फुरिते गण्डेघ्राणे तु सौमुख्यमुदौ भवेताम् ।भोज्येष्टसङ्गावधरोर्द्ध्वयोश्चस्कन्धे गले भोगविवृद्धिलाभौ
स्पन्दो भुजस्येष्टसमागमायस्पन्दः करस्य द्रविणाप्तहेतुः ।स्पन्दश्च पृष्ठस्य पराजयायस्पन्दो जयायोरसि मानवानाम्
पार्श्वप्रकम्पे विषयस्य लाभःकटिप्रकम्पे तु बलप्रमोदौ ।नाभिप्रकम्पे निजदेशलाभःधनर्द्धिबन्धुश्च भ्रुवि प्रकम्पे
दुःखं धनान्तं हृदयस्य कम्पेस्फिक्पायुकम्पेऽपि वाहनाप्तिः ।वराङ्गकम्पे वरयोषिदाप्ति-र्मष्के सकम्पे तनयस्य जन्म
वस्तौ सकम्पे युवतिप्रवृत्तिःदोषश्च कम्पे पुनरूरुपृष्ठे ।उरः पुनः स्यात् सुसहायलाभःस्याज्जानुकम्पे त्वचिरेण सिद्धिः
जङ्घाप्रकम्पे निजदेशनाशःस्थानाप्तिरुष्ट्रश्चरणस्य कम्पे ।यात्रा सलाभाङ्घ्रितलप्रकम्पेपुंसां सदा दक्षिणदेहभागे
स्त्रीणाञ्च वामावयवे प्रजातःस्पन्दः फलानि प्रदिशत्यवश्यम्
”इति वसन्तराजशाकुने नरेङ्गितेऽङ्गस्फुरण-प्रकरणं चतुर्थम्