| YouTube Channel

स्फुड (sphuDa)

 
Wilson
English
स्फुड r. 6th cl. (स्फुडति) To clothe, to cover. (इ) स्फुडि
r. 1st and 10th cls. (स्फुण्डति-स्फुण्डयति) To laugh at, to jest, to joke.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
स्फुड्
मूलधातुः:
स्फुड
धात्वर्थः:
संवरणे
गणः:
तुदादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
स्फुडति
अनुबन्धादिविशेषः:
कुटादिः
धातुप्रदीपः
Sanskrit
स्फुडँ स्फुड
मानकरूपान्तरम् - बुडँ
बुड संवरणे
- स्फुडति स्फुडिता वुडति (19) 116, 117
शब्दकल्पद्रुमः
Sanskrit
स्फुड, नर्म्मणि इति कविकल्पद्रुमः
(चरा०-पर०-सक०-सेट् ।) नर्म्म इह परीहासः ।इ क, स्फुण्डयति सखायं लोकः पुष्फुण्डयिषति ।आद्यस्वरीति कातन्त्राद्याः पञ्चमस्वरयुक्तोनर्म्मे इति गोविन्दभट्टः इति दुर्गादासः
स्फुड, फुल्ले इति कविकल्पद्रुमः
(भ्वा०-आत्म०-अक०-सेट् ।) फुल्लं विकसनम् इ, स्फुण्ड्यते ङ, स्फुण्डते कुन्दकोरकः पुस्फुण्डे ।इति दुर्गादासः
स्फुड, शि वृत्याम् इति कविकल्पद्रुमः
(तुदा०-पर०-सक०-सेट् ।) शि, स्फुडति अस्फुडीत् ।पुष्फोड वृत्यां वरणे इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
स्फुड वरणे तु० कु०
पर०
सक०
सेट् स्फुडति अस्फु-डीत् पुस्फोड
स्फुड विकाशे
भ्वा०
आत्म० अक० सेट् इदित् स्फुण्डते अस्फुण्डिष्ट
स्फुड परिहासे
चु०
उ०
सक०
सेट् इदित् स्फुण्डयति तेअपुस्फुण्डत्
धातुवृत्तिः
Sanskrit
स्फुडँ स्फुड
मानकरूपान्तरम् - चुडँ
चुड
मानकरूपान्तरम् - व्रुडँ
व्रुड (अर्थः) संवरणे
मैत्रेयेणैते पठ्यन्ते आत्रेयादयस्तु पठन्ति ( फ्फुडति पुस्फोड ) खयः शेषः ( चुडति चुचोड व्रुडति वुव्रोड ) इत्यादि अत्र क्रुड भृडनिमज्जनइत्येके इत्यात्रेयः मैत्रयस्तु क्रुडं पठित्वा भृड डत्यप्येके इत्याह ( क्रुडति क्रोडः)घञ् (क्रिडा) अश्वानामुरः, टाबन्तोऽयंस्वभावतो विशेषविषयः कल्याणी क्रीडा यस्याः सा ( कल्याणक्रोडा ) बहुव्रीहावुपसर्जनह्रस्वत्वे "न क्रोडादिबह्वचः'' इति स्वाङ्गलक्षणो ङीष् निषिध्यते क्रोडादिषु टाबन्तस्य पाठाद् भुजा तामात्रवचनस्य क्रोडशब्दस्य बहुव्रीहौ स्वाङ्गलक्षणो ङीष्विकल्प एव भवति (कल्याणक्रोडी, कल्याणक्रोडा ) मयूरीति (भृडति) इत्यादि व्रश्चादय उदात्ता उदात्तेतः 109-110- 111
कृदन्तरूपमाला
Sanskrit
1 {@“स्फुड संवरणे”@} 2 कुटादिः।
‘मैत्रेयेण पठ्यते।
आत्रेयादयस्तु पठन्ति’ इति माधवः।
पा।
धा।
समीक्षायाम् तु ‘स्फुड संवरणे, मैत्रेयसायणचन्द्रादयः पठन्ति’ इत्युक्तम्।
अनयोः परस्परविरोधो दृश्यते।
तरङ्गिण्यां धातुरयं दृश्यते।
अपि तु ‘स्थुड’ इति दृश्यते।
सर्वाण्यपि रूपाणि तौदादिककुटतिवत् 3 ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(१९६१)
02
=>
(६-तुदादिः-१३९१। सक। सेट्। पर।)
03
=>
(२४०)