| YouTube Channel

स्फीतः (sphItaH)

 
शब्दकल्पद्रुमः
Sanskrit
स्फीतः, त्रि, (स्फाय + क्तः “स्फायः स्फी निष्ठा-याम् ।” २२ इति धातोः स्फी ।)वर्द्धितः यथा, --“स्फीतान् जनपदांस्तत्र पुरग्रामव्रजाकरान् ।खेटखर्व्वटवाटीश्च वनान्युपवनानि
”इति श्रीभागवते ११
“स्फीतान् समृद्धान् देशान् तत्र तस्यां दिशि ।पुरग्रामव्रजाकरान् तत्र पुराणि राजधान्यः ।ग्रामा भृगुप्रोक्ताः ।‘विप्राश्च विप्रभृत्याश्च यत्र चैव वसन्ति ते ।स तु ग्राम इति प्रोक्तः शूद्राणां वास एव चेति
’व्रजा गोकुलानि आकरा रत्नाद्युत्पत्ति-स्थानानि तान् खेटाः कर्षकग्रामाः ।खर्व्वठाः गिरितटग्रामाः भृगुप्रोक्ता वा ।‘एकतो यत्र तु ग्रामो नगरं चैकतः स्थितम् ।मिश्रन्तु खर्व्वटं नाम नदीगिरिसमाश्रयमिति
’वाट्यः पूगपुष्पवाढ्यस्ताः वनानि स्वतः सिद्ध-वृक्षाणां समूहाः उपवनानि रोपितवृक्षाणांसमूहाः तानि ।” इति तट्टीकायां श्रीधर-स्वामी