| YouTube Channel

स्फायी (sphAyI)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
स्फाय्
मूलधातुः:
स्फायी
धात्वर्थः:
वृद्धौ
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
स्फायते
धातुप्रदीपः
Sanskrit
स्फायीँ स्फायी
मानकरूपान्तरम् - ओँप्यायीँ
ओप्यायी वृद्धौ
- स्फायते पस्फाये स्फायितञ्चि (उण्, 2/13) इत्यादिना रक्-स्फारः स्फारयतिः स्फीतः, स्फीतवान् स्फातिशब्दादर्शाद्यजन्तात् (द्र0 51127) स्फातास्तण्डुलाः आप्यायते आपिप्ये आप्यायि आप्यायिष्ट पीना यवाः ।आपीनोऽन्धूः आपीनमूधः आपेपीयते ।। 486, 487 ।।
क्षीरतरङ्गिणी
Sanskrit
स्फायीँ स्फायी
मानकरूपान्तरम् - ओँप्यायीँ
ओप्यायी वृद्धौ
- स्फायते स्फायो वः (7341) इति णौ वत्वम्-स्फावयति निष्ठायां स्फायः स्फी (6122) स्फीतः ईदित्वं स्फायेरादेशानित्यत्वे लिङ्गम्-स्फातः उणादौ फेनः, स्फिरो बहुः स्पायी (उ0 213) इति रक्-स्फारम् प्यायते दी पजनबुध (3161) इति कर्तरि वा चिण्-आप्यायि, आप्यायिष्ट पीनः, प्यायः पी (6128) स्वाङ्गे, ओदितश्च (8245) इति निष्ठानत्वम् आन्धूधसोराङीति वक्तव्यात् (3128) वा0) आपीनोऽन्धुः आपीनमूधः नेह-आप्यानश्चन्द्रमाः लिड्यङोश्च (6129) इति पी- आपिप्ये, आपेपीयते कृत्यच (8429) इति प्राप्ते भाभूपूकमिगमि (8434) इति णत्वं नास्ति प्रप्यानः 475, 476
धातुवृत्तिः
Sanskrit
स्फायीँ स्फायी
मानकरूपान्तरम् - ओँप्यायीँ
ओप्यायी (अर्थः) वृद्धौ
(स्फायते पस्फाये ) अभ्यासे "शर्पूर्वाः खयः'' इति खयः शेषः ( स्फायितेत्यादि ) क्ष्मायिवत् णौ "स्फायो वः'' इति यकारस्य वाकारे ( स्फायति अपिस्फवदिति भवति, स्फीतवान् ) "स्फायः स्फी निष्ठायाम्' इति स्फीभावः वत्वस्फीभावौ प्रकृतिग्रहणन्यायेन यङ्लुक्यपि भवति इति ( पास्फावयति स्फीतः स्फीतवानि भवति स्फायतइति स्फाः ) क्किपि वलिलोपः अयं वरेपूक्तलोपात्पूर्वं भवतीति व्यतौ प्रतिपादितम् स्फाश्च तदण्डं ( स्फाण्डस् एवं स्फाण्त्रम् ) वृद्धाण्डमुच्यते ( स्फारः ) "6sPAyiwaFcIH'' इत्यादिना रक् ( प्यायते पिप्ये पिप्यिषे पिप्याथे पिप्यिघ्वे पिप्यिवहे ) परत्वात् "लिड्यङोश्च'' इति प्यायः पीभावः पुनः प्रसङ्गुविज्ञानात् पीशब्दस्य द्विर्वचनम् "एरनेकाच'' इत्यजादौ यण् ( प्यायितेत्यादि ) पूर्ववत् लुङि "दीपजनबुधपूरितायिप्याभ्योन्यतरस्याम्'' इति कर्त्तरि तशब्दे वा चिणि ( अप्यायि अप्यायिष्टेति ) भवति यङि लिङ्वत्पीभावे ( आपीनोन्धुः, आपीनमूधः ) इति "ओदितश्च'' इति निष्ठानत्वम् ईदित्त्वं पीभावाभावे निष्ठाया इण्निवृत्त्यर्थम् ईदितोनन्तराया निष्ठाया नत्वार्थमिदमोदित्त्वम् कृते पीभावे स्वरान्तत्वादन्टिस्वरान्तइत्य_टित्वे सावकाश इति पीभाव इणिनवृत्तेर्न ज्ञापकः स्फायसस्त्वीदित्त्वे स्फीभावस्य नित्यत्वात् स्वरान्तत्वादनिटत्वे सिद्धे अनुदात्तेत्वमात्रं फलम् सत्यपीटि सवर्णदार्घत्वेनेदमेव रूपमिति मन्तव्यम् परत्वादियङ्प्रसङ्गात् 484
कृदन्तरूपमाला
Sanskrit
1 {@“स्फायी वृद्धौ”@} 2 स्फायकः-यिका, 3 स्फावकः-विका, पिस्फायिषकः-षिका, पास्फायकः-यिका
4 5 स्फीतम्- 6 तः, स्फातः, स्फातिः, 7 स्फिरम् 8 स्फारम् इत्यादिकानि रूपाणि सर्वाण्यपि क्मरतिवत् 9 ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(१९५४)
02
=>
(१-भ्वादिः-४८७। अक। सेट्। आत्म।)
03
=>
[[६। ‘स्फायो वः’ (७-३-४१) इति णौ परतः यकारस्य वकारे रूपमेवम्।]]
04
=>
[पृष्ठम्१३९४+ २९]
05
=>
[[१। ‘स्फायः स्फी--’ (६-१-२२) इति निष्ठायां स्फीभावः। ‘ईदित्त्वं स्फायेरादे- शानित्यत्वे लिङ्गम्--स्फातः’ इति क्षीरस्वामी। अयं भावः--“यदि निष्ठायां नित्यं ‘स्फी’ भावः स्यात्तर्हि ईदित्त्वमनर्थकं स्यात्। ईदित्त्वस्य तु ‘श्वीदितो निष्ठायाम्’ (७-२-१४) इति निष्ठायामिट्प्रतिषेध एव फलम्, नान्यत्। तस्माद् व्यर्थं सत् ज्ञापयति ‘स्फी’ भावोऽनित्यः इति। तथा सति ‘स्फातीभवति’ इति प्रयोगोऽप्युपपद्यते। एवं सति ‘स्फातीभवति इत्येतदपि क्तिन्नन्तस्यैव रूपं निष्ठान्तस्य’ इति काशिकावचनं (६-१-२२) क्लिष्टकल्पनामात्रम्। धातुवृत्तिकारस्तु अनुदात्तेत्त्वार्थमीदित्करणमाह--तदप्यसत्, अनुदात्तेत्त्वार्थं तु अन्यत्रेवेहाप्यकारस्यानुबद्धुं शक्यत्वात्” इति युधिष्ठिरमीमांसकः क्षीरतर- ङ्गिणीटिप्पणेऽवोचत्। अत एव ‘स्फीभावो वेति केचित्-स्फातः’ इति प्रक्रियाकौमुद्युक्तमपि संगच्छते।]]
06
=>
[[आ। ‘प्रक्नोपयन्तं मुरलीं महीभरक्ष्मायं बलस्फीतसुपीनदोर्युगम्।’ धा। का। १-६३।]]
07
=>
[[२। औणादिके (द। उ। ८-२७) किरच्प्रत्यये, टिलोपे रूपमेवम्।]]
08
=>
[[३। ‘स्फायि--’ (द। उ। ८-३१) इत्यादिना रक्प्रत्यये रूपम्।]]
09
=>
(२५८)