| YouTube Channel

स्फटिकः (sphaTikaH)

 
Apte
English
स्फटिकः [sphaṭikḥ], 1 A crystal, quartz
अपगतमले हि मनसि स्फटिकमणाविव रजनिकरगभस्तयः सुखं प्रविशन्त्युपदेशगुणाः K.
का Sulphate of alumina or alum.
Camphor.Comp. -अचलः the mount Meru. -अद्रिः the mount Kailāsa. ˚भिद्
m.
camphor. -अभ्रः camphor. -अश्मन्, -आत्मन, -मणि
m.
, -शिला a crystal stone. -कुड्यम्, भित्तिः crystal wall. -प्रभ
a.
crystalline, transparent.-स्कम्भः a crystal column.
Apte 1890
English
स्फटिकः A crystal, quartz
अपगतनले हि मनसि स्फटिकप्तणाविच रजनिकरगभस्तयः सुखं प्रविशंत्युपदेशगुणाः K.
का Sulphate of alumina or alum.
Comp.
अचलः the mount Meru.
अद्रिः the mount Kailāsa. °भिद् m. camphor.
अभ्रः camphor.
अश्मन्,
आत्मन्,
मणि m.,
शिला a crystal stone.
प्रभ a. crystalline, transparent.
स्कंभः a crystal column.
Apte Hindi
Hindi
स्फटिकः
पुं*
- स्फटि + कै +
"बिलौर, काचमणि"
Wordnet
Sanskrit
Synonyms:
अच्छः, स्फटिकः, कैलासः, स्फटः
noun
उपलप्रकारः पारदर्शकः श्वेतः उपलः।
"मम पित्रे एकेन ब्राह्मणेन अच्छः प्रदत्तः।"
वैजयन्तीकोषः
Sanskrit
Word: स्फटिकः
Root: स्फटिक
Gender: पुं
Number: all
अर्थः
Meaning(s):
Crystal
Shloka(s):
3|2|37|1 स्फटिकोऽर्को रविग्रावा सूर्यकान्तोऽनलोपलः। (भूमिकाण्डः/शैलाध्यायः)
3|2|37|2 चन्द्रकान्तश्चन्द्रमणिः सुसामोऽथ त्वयोमणिः॥ (भूमिकाण्डः/शैलाध्यायः)
Synonym(s):
3|2|37|1 स्फटिकः (स्फटिक) (पुं) Crystal
3|2|37|1 अर्कः (अर्क) (पुं) Crystal
3|2|37|1 रविग्रावा (रविग्रावन्) (पुं) Crystal
3|2|37|1 सूर्यकान्तः (सूर्यकान्त) (पुं) Crystal
3|2|37|1 अनलोपलः (अनलोपल) (पुं) Crystal
3|2|37|2 चन्द्रकान्तः (चन्द्रकान्त) (पुं) Crystal
3|2|37|2 चन्द्रमणिः (चन्द्रमणि) (पुं) Crystal
3|2|37|2 सुसामः (सुसाम) (पुं) Crystal
Related word(s):
शब्दकल्पद्रुमः
Sanskrit
स्फटिकः,
पुं,
(स्फट शीर्णौ + बाहुलकात् इकन् ।)सूर्य्यकान्तमणिः इति हलायुधः
स्वनाम-ख्यातमणिः फटिक् इति भाषा तत्पर्य्यायः ।स्फाटिकम् स्फाटकम् इति शब्दरत्ना-वली
भासुरः स्फाटिकोपलः शालि-पिष्टम् धौतशिलम् इति त्रिकाण्डशेषः
सितोपलः विमलमणिः निर्म्मलोपलः १०स्वच्छः ११ स्वच्छमणिः १२ अमररत्नम् १३निस्तुषरत्नम् १४ शिवप्रियः १५ अस्य गुणादियथा, --“स्फटिकः समवीर्य्यश्च पित्तदाहार्त्तिदोषनुत् ।तस्याक्षमालां जपता दत्ते कोटिगुणं फलम्
”तत्परीक्षा यथा, --“यद्गङ्गातोयविन्दुच्छविविमलतमं निस्तुषं नेत्र-हृद्यंस्निग्धं शुद्धान्तरालं मधुरमतिहिमं पित्त-दाहास्रहारि ।पाषाणे यन्निघृष्टं स्फुटितमपि निजां स्वच्छतांनैव जह्याततज्जात्यं जातु लभ्यं शुभमुपचिनुते शैवरत्नञ्चरत्नम्
”बिन्दुस्थाने विद्युदिति पाठः इति राज-निर्घण्टः
अपि ।“मुक्ताविद्रुमवज्रेन्द्रवैदूर्य्यस्फटिकादिकम् ।मणिरत्नं सरं शीतं कषायं स्वादुलेखनम् ।चक्षुष्यं धारणात्तच्च पापालक्ष्मीविनाशनम्
”इति राजवल्लभः
*
तस्य उत्पत्तिपरीक्षे यथा, --“कावेरबिन्ध्ययवनचीननेपालभूमिषु ।लाङ्गली व्यकिरन्मेदो दानवस्य प्रयत्नतः
आकाशशुद्धं तैलाख्यमुत्पन्नं स्फटिकं ततः ।मृणालशङ्खधवलं किञ्चिद्वर्णान्तरान्वितम्
तत्तुल्यं हि रत्नानामथवा पापनाशनम् ।संस्कृतं शिल्पिना सद्यो मूल्यं किञ्चिल्लभेत्ततः
”इति गारुडे पूर्व्वविभागे ७९ --
*
तथा ।“हिमालये सिंहले बिन्ध्याटवितटे तथा ।स्फटिकं जायते चैव नानारूपं समप्रभम्
हिमाद्रौ चन्द्रसङ्काशं स्फटिकं तत् द्विधा भवेत् ।सूर्य्यकान्तञ्च तत्रैकं चन्द्रकान्तं तथा परम्
सूर्य्यांशुस्पर्शमात्रेण वह्निं वमति यत् क्षणात् ।सूर्य्यकान्तं तदाख्यातं स्फटिकं रत्नवेदिभिः
पूर्णेन्दुकरसंस्पर्शादमृतं स्रवति क्षणात् ।चन्द्रकान्तं तदाख्यातं दुर्ल्लभं तत् कली युगे
अशोकपल्लवच्छायं दाडिमीतीजसन्निभम् ।बिन्ध्याटवितटे देशे जायते मन्दकान्तिकम्
सिंहले जायते कृष्णमाकरे गन्धनीलके ।पद्मरागभवे स्थाने विविधं स्फटिकं भवेत्
अत्यन्तनिर्म्मलं स्वच्छं स्रवतीव जलं शुचि ।ज्योतिर्ज्ज्वलनमाश्लिष्टं मुक्ताज्योतीरसं द्विज
तदेव लोहिताकारं राजावर्त्तमुदाहृतम् ।आनीलं तत्तु पाषाणं प्रोक्तं राजमयं शुभम्
ब्रह्मसूत्रमयं यत्तु प्रोक्तं ब्रह्ममयं द्विज
”इति स्फटिकपरीक्षा इति भोजराजकृतयुक्ति-कल्पतरुः