| YouTube Channel

स्पृष्टास्पृष्टं (spRSTAspRSTaM)

 
शब्दकल्पद्रुमः
Sanskrit
स्पृष्टास्पृष्टं,
क्ली,
(स्पृष्टेन सम्यक् स्पृष्टम् ।)परस्परस्पर्शनम् यथा, --“अथ जातिगुणान् वक्ष्ये स्पृष्टास्पृष्टं महेश्वरि ! ।अधमैः शिष्टसंस्पर्शे प्रायश्चित्तं यथाविधि
ब्राह्मणरय शवाङ्गञ्च क्षत्त्रियाद्यैः कदाचन ।स्पृष्ट्वाचम्य हरिं स्मृत्वा उपवासेन क्षत्त्रियः
व्रतस्थशूद्रस्पर्शेऽपि हरिसंस्मरणे शुचिः ।सेवयोपस्पृशेद् यस्तु प्रायश्चित्तं विद्यते
ब्राह्मणो यस्तु शूद्रस्य सेवयोपस्पृशेत् क्वचित् ।स्नात्वाचम्य हरिं स्मृत्वा प्राणायामेन शुध्यति
शूद्रस्तु त्रिविधो ज्ञेयो व्रतस्थश्चोत्तमः स्मृतः ।कायस्थः पावको मध्यो भिन्नाचारोऽधमो मतः
उत्तमैर्ब्राह्मणः स्पृष्ट उपस्पृश्य द्विजः शुचिः ।अधमः सूर्य्यगामग्निं स्पृष्टः शुध्यति ब्राह्मणः
”इति मत्स्यसूक्ते ३९ पटलः