| YouTube Channel

स्पृश (spRza)

 
Wilson
English
स्पृश r. 6th cl. (स्पृशति) To touch, to take with the hand.
With उप,
1 To tread upon.
2 To bathe, to sip water, &c.
Apte
English
स्पृशः [spṛśḥ], Touch, contact.
Monier Williams Cologne
English
स्पृश
mfn.
touching, reaching to (in सर्वद्वार-स्प्°),
MBh.
स्पृश
m.
touch, contact (in दुः-स्प्°, q.v.)
Macdonell
English
स्पृश spṛś-a,
a.
(—°) touching, reaching to
🞄-ya, fp. to be touched
tangible
to be appropriated.
Benfey
English
स्पृश स्पृश् + अ, erroneous reading,
Man. 8, 116 (see स्पश).
--
Comp.
दुस्-,
adj.
of disagreeable touch, Hariv. 3654.
नभस्-,
adj.
touching the heavens,
Bhag. 11, 24 (may belong also to
नभः-स्पृश्).
L R Vaidya
English
spfSa {% a. (generally at the end of a compound) %} 1. Who or, what touches, प्रेमार्द्राः प्रणयस्पृशः परिचयादुद्गाढरागोदयाः M.M.v.
2. touching, relating to.
Bopp
Latin
स्पृश (r. स्पृश् s. अ) id., in fine comp. BH. 11. 24.: नभः-
स्पृश.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
स्पृश्
मूलधातुः:
स्पृश
धात्वर्थः:
स्पर्शने
गणः:
तुदादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
परस्मैपदी
रूपम्:
स्पृशति
धातुप्रदीपः
Sanskrit
स्पृशँ स्पृश संस्पर्शे
- स्पृशति पस्पर्श स्प्रष्टा स्पर्ष्टा स्प्रक्ष्यति स्पर्क्ष्यति अस्प्रक्षीत् अस्पार्क्षीत् अस्पृक्षत् अस्प्राष्टाम् अस्पार्ष्टाम् अस्पृक्षताम् पिस्पृक्षति परीस्पृश्यते स्पृष्ट्वा स्पृष्टः स्पर्शः मन्त्रस्पृक् उदकस्पर्शः 148
शब्दकल्पद्रुमः
Sanskrit
स्पृश, स्पृशि इति कविकल्पद्रुमः
(तुदा०-पर०-सक०-अनिट् ।) श, स्पृशति औ, अस्पार्क्षीत् अस्पृक्षत् हस्तेन पस्पर्श तदङ्ग-मिन्द्रः इति कुमारः इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
स्पृश स्पर्श तु०
पर०
सक०
अनिद् स्पृशति अस्प्राक्षीत्अस्पार्क्षीत् अस्पृक्षत् पस्पर्श
क्षीरतरङ्गिणी
Sanskrit
स्पृशँ स्पृश संस्पर्शे
- स्पृशति, स्प्रष्टा, स्पर्ष्टा-अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् (6159) अमागमः स्पृशमृशकृषतृपदृपः सिज् वा (3144वा0)-अस्पृक्षत्, अस्प्राक्षीत्, अस्पार्क्षीत् पदरुज (3316) इति कर्तरि घञ्-स्पर्श उपतप्ता स्पृशोऽनुदके क्विन् (3258), क्विन्प्रत्ययस्य कुः (8262) इति कुत्वम्, अन्याथा व्रश्चादि (8236) सूत्रेण, छशां इति षत्वं स्यात्, ततश्चान्तर्यात् षस्य खः, खस्य वावसाने (8456) इति चर्त्त्वेन कः, पक्षे जश्त्वेन गः, इति ग्रन्थोऽयुक्तः-पादस्पृक् उदकस्पर्शः श्पृशेः श्वण्शुनौ पृ (उ0 527) पार्श्वम्, पर्शुः तिथपृष्ठ (उ0 212) इति पृष्ठम् 141
धातुवृत्तिः
Sanskrit
स्पृशँ स्पृश (अर्थः) संस्पर्शने
(स्पृशति पस्पर्श पस्पृशतुः पस्पर्शिथ पस्पृशिव) खयः शेषः ( स्पर्ष्टा स्पृशतु अस्पृशत् स्वृशेत् स्पृश्यात् अस्पार्क्षीत् अस्पार्ष्टाम् अस्पार्क्षुः अस्प्राक्षीत् अस्प्राष्टम् अस्प्राक्षुः "स्पृशमृश'' इति पक्षे सिचि पूर्ववदम्विकल्पः अन्यदा क्सः ( अस्पृक्षत् ) इत्यादि ( पिस्पृक्षति ) उरदत्वे "सन्यत'' इतीत्वम् ( परिस्पृश्यते परीस्प्रष्टि ) रुग्रिकोरप्युदाहार्यम् (अपरिस्पर्क्) इत्यत्र "क्विन्प्रत्ययस्य कुः''इति पदान्ते कुत्वं, "रात्सस्य'' इति नियमान्न संयोगान्तलोपः इह क्विनि दृष्टो धातुः क्विन्प्रत्ययउच्यते अस्त्येवास्य क्विनो विधानं "स्पृशोऽनुदके क्विन्'' इति मन्त्रेण स्पृशतीति ( मन्त्रस्पृक् ) स्पृशोऽनुदके सुबन्तमात्रे उपपदे क्विन् उदकं स्पृशतीत्यत्र कर्मण्यण् ( उदकस्पर्शः ) इति हृदिस्पृक् दिविस्पृक् ) इत्यत्र "हृद्युभ्यां ङेरुपसंख्यानम् ) इत्यलुक् ( स्पर्शो रोगः ) "पदरुजविशस्पृशो घञ्'' इति घञ् तत्र वार्तिकं [ स्पृश उपताप ] इति, स्पर्शवान् आद्यविस्पर्श उच्यते 138
कृदन्तरूपमाला
Sanskrit
1 {@“स्पृश संस्पर्शने”@} 2 सर्वाण्यपि रूपाणि तौदादिकमृशतिवत् 3 ज्ञेयानि।
4 व्योमस्पृक्, जलस्पृक्, दिविस्पृक्-हृदिस्पृक्, मन्त्रस्पृक्, 5 स्पर्शः, 6 7 शीतस्पर्शः, 8 पृष्ठम्, 9 पार्श्वम् इति विशेषः।
प्रासङ्गिक्यः
01
=>
(१९५०)
02
=>
(६-तुदादिः-१४२२। सक। अनि। पर।)
03
=>
(२५४)
04
=>
[[३। ‘स्पृशोऽनुदके क्विन्’ (३-२-५८) इति सुबन्त उपपदे क्विन्प्रत्यये रूपमेवम्। घृतं स्पृशति घृतस्पृक्, मन्त्रेण स्पृशति मन्त्रस्पृक्, जलेन स्पृशति जलस्पृक्। दिविस्पृक् हृदिस्पृक् इत्यत्र ‘हृद्द्युभ्यां उपसंख्यानम्’ (वा। ६-३-९) इति वचनात् सप्तम्या अलुक्।]]
05
=>
[[४। ‘पदरुजविशस्पृशो घञ्’ (३-३-१६) इति कर्तरि घञ्। ‘स्पृश उपताप इति वक्तव्यम्’ (वा। ३-३-१६) इति वचनात् स्पृशतीति स्पर्शः उपतापः। ततोऽन्यत्र पचाद्यच्--स्पर्शः। ‘अनुदके’ इत्युक्तत्वात् उदके उपपदे कर्तरि ‘कर्मण्यण्’ (३-२-१) इत्यणि उदकस्पर्शः इति भवति।]]
06
=>
[पृष्ठम्१३९३+ २४]
07
=>
[[आ। ‘काकुत्स्थपादपच्छायां शीतस्पर्शामुपागमत्।।’ भ। का। ७-३२।]]
08
=>
[[१। औणादिके (द। उ। ६-३७) थक्प्रत्यये निपातनात् सकारलोपः। ‘व्रश्च--’ (८-२-३६) इत्यादिना शकारस्य षत्वम्। ष्टुत्वम्। पृष्ठम् = शरी रैकदेशः।]]
09
=>
[[२। औणादिके (द। उ। १०-१३) श्वण्प्रत्यये सकारलोपे रूपमेवम्।]]
Burnouf
French
स्पृश स्पृश a. [en compos.] qui touche.