स्पश (spaza)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishYates
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
EnglishApte
Englishस्पशः [spaśḥ], [स्पश्-अच्]
A spy, a secret emissary or agent
स्पशे शनैर्गतवति तत्र विद्विषाम् 17.2
3.13
see अपस्पश also.
Fight, war, battle.
One who fights with savage animals (for reward), or the fight itself.
Apte 1890
EnglishMonier Williams Cologne
EnglishMonier Williams 1872
EnglishBenfey
EnglishApte Hindi
Hindiस्पशः
- स्पश् + अच्
"भेदिया, गुप्तचर"
स्पशः
- स्पश् + अच्
"लड़ाई, संग्राम, युद्ध"
स्पशः
- स्पश् + अच्
"जंगली जानवरों से लड़ने वाला, या ऐसी लड़ाई"
L R Vaidya
Englishधातुपाठः (Krishnacharya)
Sanskrit स्पश्
स्पश
बाधन-स्पर्शनयोः
चुरादिः
सकर्मकः
सेट्
आत्मनेपदी
स्पाशयते
आकुस्मीयः
स्पश्
स्पश
बाधन-स्पर्शनयोः
भ्वादिः
सकर्मकः
सेट्
उभयपदी
स्पशति-ते
धातुप्रदीपः
Sanskritस्पशँ स्पश बाधन, स्पर्शनयोः
- स्पशति । स्पशते । अपस्पशत् । स्पशः ।। 891 ।।
स्पशँ स्पश ग्रहण, श्लेषणयोः
- स्पाशयते अन्यत्र स्पशति स्पशते 143
अभिधानचिन्तामणिः
Sanskritअनुवृत्तिस्त्वनुरोधो हेरिको गूढपूरुषः ।
प्रणिधिर्यथार्हवर्णोऽवसर्पो मन्त्रविच्चरः ॥ ७३३ ॥
वार्तायनः स्पशश्चार आप्तप्रत्ययितौ समौ ।
अनुवृत्ति (स्त्री), अनुरोध (पुं), हेरिक (पुं), गूढपूरुष (पुं), प्रणिधि (पुं), यथार्हवर्ण (पुं), अवसर्प (पुं), मन्त्रविद् (पुं), चर (पुं), वार्तायन (पुं), स्पश (पुं), चार (पुं), आप्त (पुं), प्रत्ययित (पुं)
अभिधानरत्नमाला
Sanskritअपसर्प
अपसर्प, चार, प्रणिधि, गूढपूरुष, यथार्थवर्ण, मन्त्रज्ञ, स्पश, हेरक
अपसर्पश्चरश्चारः प्रणिधिर्गूढपूरुषः ।
यथार्थवर्णो मन्त्रज्ञः स्पशो हेरक उच्यते ॥ ४२५ ॥
verse 2.1.1.425
page 0049
स्पश
स्पश, रण
संस्तरः प्रस्तरेऽप्युक्तो हनौ कुञ्जो रणे स्पशः ।
verse 5.1.1.818
page 0094
शब्दकल्पद्रुमः
Sanskritस्पश, ञ ग्रन्थवाधयोः । इति कविकल्पद्रुमः ॥
(भ्वा०-उभ०-सक०-सेट् ।) ञ, स्पशति स्पशते ।पस्पाश । ग्रन्थस्थाने स्पर्शनं पठन्ति केचित् ।इति दुर्गादासः ॥
स्पशः, (स्पशतीति । स्पश + पचाद्यच् ।)चरः । (यथा, महाभारते । १ । १४७ । २५ ।“वयन्तु यदि दाहस्य बिभ्यतः पद्रवेमहि ।स्पशैर्नो घातयेत् सर्व्वान् राज्यलुब्धः सुयोधनः ॥
”)अभिसरः । इत्यमरः । ३ । ३ । २१३ ॥
चरोगूढपुरुषः । अभिसरो युद्धम् । प्राणनिरपेक्षोयो द्रव्यार्थं व्याडं हस्तिनं वा योधयति सोऽभि-सरः । इत्येके । इमौ द्वौ स्पशौ । इति भरतः ॥
वाचस्पत्यम्
Sanskritक्षीरतरङ्गिणी
Sanskritस्पशँ स्पश बाधन, स्पर्शनयोः
- (अर्थविवरणम्) स्पाशनं ग्रन्थनम्
स्पशते, स्पशति सेयमुभयतः स्पाशा रज्जुः स्पशश्चरः पस्पश उपोद्घातः चुरादौ स्पश बाधने (तु0 10130) पश बन्धने (10165) स्पाशयते, पाशयति पष इत्येके- पाषः, पाषाणः 858
स्पशँ स्पश ग्रहण, संश्लेषणयोः
- स्पाशयते अत्स्मृदॄत्त्वर (7494) इत्यपस्पशत् वा दान्त (7227) इति स्पष्टः स्पाशितः भ्वादौ स्पश बाधने (तु0 1626) स्पशति स्पशश्चरः 148
धातुवृत्तिः
Sanskritस्पशँ स्पश (अर्थः) बाधन, स्पर्शनयोः
(अर्थविवरणम्) स्पर्शनं ग्रथनमिति
स्वामी ग्रहणश्लेषणयोरयं चुरादौ (स्पशति पस्पश स्पशिता अस्पाशीत् अस्पशीत् पिस्पशिषति पास्पश्यते पास्पष्टि पस्पशा ) यङ्लुगन्तादिच टाप्, "संज्ञापूर्वको विधिरनित्य'' इति नाभ्यासस्य दीर्घ ( स्पाशयति अपस्पशत् ) "अत्स्मृद्दृत्वर'' इत्यादिनाभ्यासस्यात्वम् ( स्पशते पस्पशे इत्यादि ) अत्र स्वामी पष इत्येकइति, तेन ( पाषण्डः, पाषाण, इत्याह) दुर्गशाकटानयोरप्यमेव पक्षः, अनयोः पाठे "प्रतिस्पशो विसृजतूर्णितमं, यतो व्रतानि पसपशे' उपसर्गश्च स्पशः "शब्दविद्येव नो भाति राजनीतिरपस्पस्पशा'इत्यादिप्रयोगोननुगुणः पाषण्डपाषाणप्रयोगस्तु "अनुपसर्गात्'' इति कथादेर्भविष्यति यद्वा पष गन्धन इति युजादेः अस्तिचायं युधादौ, यद्वक्ष्यति चुरादौ मैत्रेयः पष बन्धन इति युजादावेके पठन्तीति अत्र स्वामिकाश्यपादयः पाशादिदशेनात् पशेति पठन्ति पाशादयोपि चौरादिकेन खण्डनार्थनापि सिद्धाः पशुशब्दस्तु पशेर्व्युत्पायिष्यते पसेति दन्त्यान्तस्सौत्रो धातुः तस्य पसतीत्यादि पशेर्यङ्लुकि "जपजभ'' इत्यादिना अभ्यासस्य नुकि ( पंपश्यते पंपश्रतोत्यादि पंपश्यतीति ) कण्ड्वादेः दुखायत इत्यर्थः 872
स्पशँ स्पश (अर्थः) ग्रह, संश्लेषणयोः
(स्पाशयते अपस्पशत) "अत्स्मृद्दृत्त्वर'' इत्यादिनाऽभ्यासस्याकार इत्त्वापवादः स्पशति स्पशतइति स्पश बाधनस्पर्शयोरित्यस्य हि भ्वादेः 146
कृदन्तरूपमाला
Sanskrit1 {@“स्पश बाधनस्पर्शनयोः”@} 2 ‘बाधने स्पर्शने चार्थे हिक्कादौ स्पशते स्पशेत्।।’ 3 इति देवः।
‘-- बाधनस्पाशनयोः’ स्पाशनं--ग्रन्थनम्’ इति स्वामी।
‘--ग्रन्थ- बाधयोः’ इति वोपदेवः।
“‘--बाधनस्पशनयोः’ पशेत्येके।
पषेत्यन्ये।
हिंसार्थं दोषसूचनं स्पश 4नम्” इति धा।
का।
व्याख्या 5।
“अत्र स्वामी ‘पष इत्येके इति, तेन पाषण्डः पाषाणः 6” इत्याह।
दुर्गशाकटायनयोरप्ययमेव पक्षः।
अनयोः पाठे ‘प्रतिम्पशो विसृजस्तूर्णितमः’ 7 ‘यतो व्रतानि पस्पशे’ 8 ‘अपसर्पश्चरः स्पशः’ 9 ‘शब्दविद्येव नो भाति राज- नीतिरपस्पशा’ 10, इत्यादिप्रयोगोऽनुगुणः।
पाषण्डपाषाण- प्रयोगस्तु ‘11 अनुपसर्गात्’ 12 इति कथादेर्भविष्यति।
यद्वा--‘पष बन्धने’ इति युजादेः।
अस्ति चायं युजादौ।
यद्वक्ष्यति चुरादौ ‘पश बन्धने’ इत्यत्र मैत्रेयः-- ‘पष बन्धने इति युजादावेके पठन्ति’ इति।
अत्र स्वामिकाश्यपादयः--पाशादि 13 दर्शनात् पशेति पठन्ति।
पाशादयोऽपि चौरादिकेन बन्धनार्थेनापि सिद्धाः।
पशुशब्दस्तु पशेर्व्युत्पादयिष्यते।
पसेति दन्त्यान्तस्सौत्रो धातुः” इति माधवेनोक्तम् अत्र अनुसन्धेयम्।
सर्वाण्यपि रूपाणि भौवादिककाशतिवत् 14 ज्ञेयानि।
15 16 पस्पशा, पस्पशः = उपोद्घातः।
‘सेयमुभयतःस्पाशा रज्जुः’ 17 18 स्पष्टः 19 -स्पाशितः, इति विशेषरूपाणि।
01 (१९४७)
02 (१-भ्वादिः-८८७। सक। सेट्। उभ।)
03 (श्लो। १६६)
04 [र्श]
05 (२-२७)
06 (इति सिद्धौ)
07 (ऋक् ४-४-३)
08 (ऋक्। ३-२२-१९)
09 (नामलिङ्गानुशासने क्षत्रवर्गे)
10 (शिशुपालवधे २-११२)
11 (पष)
12 (ग। सू। चुरादिः)
13 (४-२-४९)
14 (१७८)
15 [पृष्ठम्१३९२+ २७]
16 [[१। यङ्लुगन्तादचि टाप्। ‘संज्ञापूर्वको विधिरनित्यः’ (परि-९४) इति नाभ्यासस्य दीर्घः।]]
17 (भाष्ये ६-१-६८)
18 [[२। ‘वा दान्तशान्तपूर्णदस्तस्पष्ट--’ (७-२-२७) इति निष्ठायां ण्यन्तात् इडभावो निपातितः विकल्पेन। तेन रूपद्वयम्।]]
19 [[आ। ‘स्पष्टं बहिः स्थितवतेऽपि निवेदयन्तः…।’ शि। व। ५-६७]]
1 {@“स्पश ग्रहणसंश्लेषणयोः”@} 2 आकुस्मीयः।
‘स्पृश--’ इति जैन-शाकटायन-हेमचन्द्रादयः।
‘ग्रहणे श्लेषणे चार्थे चुरादौ स्पाशयेत णौ’ 3 देवः।
सर्वाण्यपि रूपाणि चौरादिकग्रामयतिवत् 4 ऊह्यानि।
निष्ठायाम्, ‘वा दान्तशान्तपूर्णदस्तस्पष्ट--’ 5 इति निपातनात् स्पष्टः-स्पाशितः इति रूपद्वयम्।
ल्यपि -- 6 प्रस्पाश्य।
01 (१९४८)
02 (१०-चुरादिः-१६८१। सक। सेट्। आत्म।)
03 (श्लो। १६७)
04 (४४२)
05 (७-२-२७)
06 [[B। ‘प्रस्पाश्य मुष्टिमभितर्जयते प्रभर्त्स्यो मल्लो बिबस्तयिषुरेनमगन्धनीयम्।’ धा। का। ३-३४।]]
Burnouf
FrenchNo entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
