| YouTube Channel

स्पदि (spadi)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
स्पन्द्
मूलधातुः:
स्पदि
धात्वर्थः:
किञ्चिच्चलने
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
स्पन्दते
धातुप्रदीपः
Sanskrit
स्पदिँ स्पदि किञ्चिच्चलने
- स्पन्दते पस्पन्दे स्पन्दनः ।। 14 ।।
क्षीरतरङ्गिणी
Sanskrit
स्पदिँ स्पदि किञ्चिच्चलने
स्पन्दते, स्पन्दिता स्पन्दितुम्, स्पन्दनः, स्पन्दः 14
धातुवृत्तिः
Sanskrit
स्पदिँ स्पदि (अर्थः) किञ्चिच्चलने
(अर्थविवरणम्) चलनं कम्पनम्
अकर्मकः (स्पन्दते। पस्पन्दे। स्पन्दितेत्यादि पूर्ववत्। स्पन्दयति) "निगरणचलनार्थेभ्यश्च" इति ण्यन्तात्परस्मैपदमेव। निगरणमभ्यवहारः।।14।।
कृदन्तरूपमाला
Sanskrit
1 {@“स्पदि किञ्चिच्चलने”@} 2 सर्वाण्यपि रूपाणि भौवादिककन्दतिवत् 3 ज्ञेयानि।
4 स्पन्दितुम्, स्पन्दिता, 5 स्पन्दनः, स्पन्दः, 6 स्पन्दयन् इति विशेषः।
प्रासङ्गिक्यः
01
=>
(१९४५)
02
=>
(१-भ्वादिः-१४। अक। सेट्। आत्म।)
03
=>
(१६३)
04
=>
[[B। ‘स्वमन्दिरात् स्पन्दितुमेव नाशकत्…।।’ धा। का। १-३।]]
05
=>
[[३। ‘अनुदात्तेतश्च--’ (३-२-१४९) इति युच्प्रत्ययः।]]
06
=>
[[४। ‘निगरणचलनार्थेभ्यः’ (१-३-८७) इति ण्यन्तात् परस्मैपदमेव।]]