स्नानं (snAnaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte 1890
Englishस्नानं [स्ना-भावे ल्युट्] 1 Bathing, washing, ablution, immersion in water
ततः प्रविशति स्नानोत्तीर्णः काश्यपः Ś. 4.
2 Purification by bathing, any religious or ceremonial ablution.
3 The ceremony of bathing or anointing an idol.
4 Anything used in ablution.
Comp.
अगारं a bath-room.
तृणं Kuśa-grass.
द्रोणी a bathing tub.
यात्रा the festival held on the full-moon day in the month of Jyeṣṭha.
वस्त्रं a bathing-garment
सकृत् किं पीडितं स्नानवस्त्रं मुंचेत् द्रुतं पयः H. 2. 106.
विधिः {1} the act of ablution. {2} the proper manner or rules of ablution.
शब्दकल्पद्रुमः
Sanskritस्नानं, (स्ना + ल्युट् ।) मज्जनम् । अव-गाहनम् । तत्पर्य्यायः । आप्लावः २ आप्लवः ३ ।इत्यमरः । २ । ६ । १२१ ॥
अभिषेकः ४ इतिशब्दरत्नावली ॥
उपस्पर्शनम् ५ सवनम् ६ सर्ज-नम् ७ । इति जटाधरः ॥
तदनुकल्पः सप्त-विधः । मान्त्रम् १ भौमम् २ आग्नेयम् ३ वाय-व्यम् ४ दिव्यम् ५ वारुणम् ६ मानसम् ७ ।एतेषां विवरणं पश्चात् स्फुटीभविष्यति ॥
* ॥
अस्य गुणाः ।“स्नानं पवित्रमायुष्यं श्रमस्वेदमलापहम् ।शरीरबलसन्धानं केश्यमोजस्करं परम् ॥
उष्णाम्बुनाधःकायस्य परिषेको बलावहः ।तेनैव तूत्तमाङ्गस्य बलकृत् केशचक्षुषोः ॥
विनिहन्ति शिरः स्नानं तृष्णाताल्वास्यशोष-णम् ।मलोष्णपीडकाकण्डं शिरोरोगांश्च पैत्तिकान् ॥
मधुकामलकैः स्नानं पित्तघ्नं तिमिरापहम् ।स्नानं वचाघनैरिष्टं श्लेष्मघ्नं तिमिरापहम् ॥
स्नानं कृष्णतिलैश्चापि चक्षुष्यमनिलापहम् ।अस्नातस्य शरीरस्य उष्मा सर्व्वाङ्गगोचरः ॥
स्नानेनैकत्वमायाति तेन दीप्यति पावकः ।स्नानमर्द्दि तनेत्रास्यकर्णरोगातिसारिषु ॥
आध्मानपीनसाजीर्णभुक्तवत्सु च गर्हितम् ।दौर्गर्न्ध्यं गौरवं कण्डूं कच्छुं मलमरोचकम् ।स्वेदं वीभत्सतां हन्ति शरीरपरिमार्ज्जनम् ॥
”इति राजवल्लभः ॥
* ॥
अथ स्नानविधिः । दक्षः ।“चतुर्थे च तथा भागे स्नानार्थं मृदमाहरेत् ।तिलपुष्पकुशादीनि स्नानञ्चाकृत्रिमे जले ॥
”कुर्य्यादिति शेषः । तथा च ।“अस्नात्वा चाप्यहुत्वा च भुङ्क्तेऽदत्त्वा चयो नरः ।देवादीनामृणी भूत्वा नरकं प्रतिपद्यते ॥
” * ॥
अथ स्नानम् । दक्षः ।“अस्नात्वा नाचरेत् कर्म्म जपहोमादि किञ्चन ।लालास्वे दसमाकीर्णः शयनादुत्थितः पुमान् ॥
अत्यन्तमलिनः कायो नवच्छिद्रसमन्वितः ।स्रवत्येव दिवारात्रौ प्रातःस्नानं विशोधनम् ॥
प्रातःस्नानं प्रशंसन्ति दृष्टादृष्टफलं हि तत् ।सर्व्वमर्हति पूतात्मा प्रातःस्नायी जपादिकम् ॥
अज्ञानात् यदि वा मोहात् रात्रौ दुश्चरितंकृतम् ।प्रातःस्नानेन तत् सर्व्वं शोधयन्ति द्विजातयः ॥
”दृष्टं मलापकर्षादि अदृष्टं प्रत्यवायपरीहारादि ॥
प्रातः सूर्य्योदयात् प्राक्कालः । प्रातःस्नाय्यरुण-किरणग्रस्तां प्राचीमवलोक्य स्नायात् । इतिविष्णूक्तेः ॥
* ॥
प्रातःस्नाने मध्याह्नस्नान-धर्म्मातिदेशमाह कात्यायनः ।“यथाहनि तथा प्रातर्नित्यं स्नायादनातुरः ।दन्तान् प्रक्षल्य नद्यादौ गेहे चेत्तदमन्त्रवत् ॥
”यथा तथेतिकर्त्तव्यतया । सा च ।“आचरेदुषसि स्नानं तर्पयेत् देवमानुषान् ।”इति जावाल्युक्ता ॥
वैदिके कर्म्मणि वामहस्ते बहुतरकुशान् दक्षि-णेन पवित्रं धारयेत् । मार्कण्डेयः ।“सर्व्वकालं तिलैः स्नानं पुण्यं व्यासोऽब्रबीन्मुनिःश्रीकामः सर्व्वदा स्नानं कुर्व्वीतामलकैर्नरः ।सप्तमीं नवमीञ्चैव पर्व्वकालञ्च वर्ज्जयेत् ॥
” * ॥
विष्णुधर्म्मोत्तरे ।“त्वराक्रोधौ तथा वर्ज्जौ देवकर्म्मणि पण्डितैः ।इक्षुरापः पयश्चैव ताम्बूलं फलमौषघम् ।भक्षयित्वा तु कर्त्तव्याः स्नानदानादिकाःक्रियाः ॥
”भविष्योत्तरे ।“स्नातुस्तु वरुणस्तेजो जुह्वतोऽग्निः श्रियं हरेत्भुञ्जानस्य यमस्त्वायुस्तस्मान्न व्याहरेत्त्रिषु ॥
”स्नातुः स्नानं कुर्व्वतः । न व्याहरेत् न कथयेत् ॥
अशुचेरवगाहनानन्तरं स्नानमाह योगियाज्ञ-वल्क्यः ।“तूष्णीमेवावगाहेत यदा स्यादशुचिर्नरः ।आचम्य तु ततः पश्चात् स्नानं विधिवदाचरेत् ॥
”वामनपुराणम् ।“नाभिमात्रजले गत्वा कृत्वा केशान् द्विधाद्विजः ।निरुध्य कर्णौ नासाञ्च त्रिकृत्वो मज्जनं ततः ॥
”तत्रैव वृद्धयाज्ञवल्क्यः ।“स्रोतसां संमुखो मज्जेत् यत्रापः प्रवहन्ति वै ।स्थावरेषु गृहे चैव सूर्य्यसंमुख आप्लवेत् ॥
”हारीतः । नातुरो न भुक्त्वा न जीर्णवासा नबहुवासा न नम्नो नाश्नन् नावसक्थिको नाल-ङ्कृतो नाजस्रं नाज्ञाते जले नाकुले नाशुचौ नप्रभूतजले न नाभेरप्लजले न चत्वरे नोपद्वारेनो सन्ध्यायां न निशायां स्नायादिति । चत्वरेकाकादिवलिस्थले इति श्रीदत्तः ॥
उपद्वारे द्वार-समोपे । अत्रैकेन मुनिना नग्नबहुबाससोर्निषेध-विधानात् स्नाने द्विवासस एवाधिकारः प्रती-यते ॥
* ॥
एकवस्त्रस्नाने दोषमाह समुद्र-करकृतभाष्ये गोतमः ।“एकवस्त्रेण यत् स्नानं सूच्या विद्धेन चैव हि ।स्नातस्तु न भवेत् शुद्धः श्रिया च परिहीयते ॥
”अतएव ।“स्नानं तर्पणपर्य्यन्तं कुर्य्यादेकेन वाससा ।”इति ॥
यदि समूलं तदा प्रेततर्पणपरमिति । अत्रैक-वस्त्रा ज्ञातय इत्यादिना एकवस्त्रत्वविधानात् ।एकेन एकजातीयेन इति वाचस्पतिमिश्रः ॥
येन वाससा स्नानं कृतं जलस्थस्य तेनैवतर्पणम् । इति कृत्यतत्त्वार्णवः ॥
न च ।“स्नानशाट्यान्तु दातव्या मृदस्तिस्रो विशुद्धये ।जलमध्ये तु यः कश्चित् द्विजातिर्ज्ञानदुर्बलः ।निष्पीडयति तद्वस्त्रं स्नानं तस्य वृथा भवेत् ॥
”स्नानशाठ्यामिति तद्वस्त्रमिति एकवचन-निर्देशेन च स्नानेऽप्येकवस्त्रत्वमिति वाच्यं अत्रविशुद्धये इत्यभिधानेनाधोधृतवस्त्रस्यै व मृत्रयेणप्रक्षालनं न तूत्तरीयस्य एतदर्थमेकवचनम् ।अत एव मृत्त्रयेणाधरीयवस्त्रं प्रक्षाल्य इत्या-ह्निकचिन्तामणिः ॥
वशिष्ठवचनस्यैकवाक्यतयास्नातो नाङ्गानि निर्मज्यात् स्नानशाट्या नपाणिना । इति विष्णुपुराणीयेनाधरीयवस्त्रणैवगात्रमार्जनं निषिध्यते । एतेन निष्पीड्य स्नान-वस्त्रमिति कात्यायनवचने एकत्वमविवक्षित-मिति निरस्तम् । अतएव सर्व्वत्रैकत्वनिर्देशः ।शिष्टानामाचारोऽपि तथेति ॥
* ॥
नाजस्र-मिति पुनः पुनः स्नाननिषेधः रागप्राप्तस्नान-विषयो दृष्टार्थकत्वात् । एवञ्चैकस्मिन् दिनेनानातीर्थादिनिमित्तप्राप्तस्नानावृत्तिर्भवत्येववैधत्वात् । अत्रापि तन्त्रप्रसङ्गयोः सत्त्वे सकृदे-वेति ॥
* ॥
आतुरं प्रति जावालः ।“अशिरस्कं भवेत् स्नानं स्नानाशक्तौ तुकर्म्मिणाम् ।आर्द्रेण वाससा वापि दैहिकं मार्जनं स्मृतम् ॥
”कर्म्मिणाम् ।“शिरस्नातस्तु कुर्ब्वीत दैवं पैत्रमथापि वा ।”इति मार्कण्डेयपुराणोक्तकर्म्मचिकीर्षूणां मार्जन-मिह प्रोञ्छनम् । योगियाज्ञवल्क्यः ।“असामर्थ्याच्छरीरस्य कालशक्त्याद्यपेक्षया ।मन्त्रस्नानादितः सप्त केचिदिच्छन्ति सूरयः ॥
मान्त्रं भौमं तथाग्नेयं वायव्यं दिव्यमेव च ।वारुणं मानसञ्चैव सुप्तस्नानं प्रकीर्त्तितम् ॥
आपोहिष्ठेति वै मान्त्रं मृदालम्भस्तु पार्थिवम्आग्नेयं भस्मना स्नानं वायव्यं गोरजः स्मृतम् ॥
यत्तु सातपवर्षेण स्नानं तद्दिव्यमुच्यते ।वारुणञ्चावगाह्यञ्च मानसं विष्णुचिन्तनम् ॥
समस्तं स्नानमुद्दिष्टं मन्त्रस्नानक्रमेण तु ।कालदोषादसामर्थ्यात् सर्व्वं तस्य फलं स्मृतम् ॥
”आपोहिष्ठेति आपोहिष्ठादि ऋक्त्रयमत्र विव-क्षितम् । एवञ्च ।कालदोषादसामर्थ्यात् न शक्नोति यदाम्भसि ।तदा ज्ञात्वा तु ऋषिभिर्मन्त्रैर्जुष्टन्तु मार्जनम् ॥
शन्न आपस्तु द्रुपदा आपोहिष्ठाघमर्षणम् ।एभिश्चतुर्भिरृङ्मात्रैर्मन्त्रस्नानमुदाहृतम् ॥
”इति योगियाज्ञवल्क्यीयं यन्मन्त्रस्नानान्तरं तत्प्राधान्यख्यापनाय अतएव पितृदयितायांसन्ध्यातः पूर्व्वं तल्लिखितम् । मृदालम्बस्तुगङ्गादिमृत्तिकातिलकरूपः । भस्मना संस्कृत-भस्मना इति छन्दोगाह्निकः । अवगाह्यंमन्त्राद्यङ्गशून्यावगाहनमात्रं विवक्षितं अतोमुख्यावगाहनरूपस्नानानुकल्पत्वमप्युक्तम् ।कालदोषोऽतिवृष्ट्यादिः । असामर्थ्यं शरीरा-पाटवहेतुः । जलस्य स्वल्पत्वे न सम्पूर्णवारुण-स्नानविधिकालायोग्यत्वं वेति । एतन्मूलकंगेहे चेत्तदमन्त्रवदिति छन्दोगपरिशिष्टीयंपूर्व्वोक्तं अन्यथा मूलभूतश्रुत्यन्तरकल्पनापत्तेः ॥
सामर्थ्ये तूद्धुतजलेनापि ससन्त्रकस्नानमाहपराशरभाष्ये व्यासः ।“शीतास्त्वपो निषेव्योष्णा मन्त्रसम्भारसंस्कृताःगेहेऽपि शस्यते स्नानं तद्धीनमफलं स्मृतम् ॥
”पद्मपुराणम् ।“नैर्मल्यं भावशुद्धिश्च विना स्नानं न जायते ।तस्मान्मनोविशुद्ध्यर्थं स्नानमादौ विधीयते ।अनुद्धृतैरुद्धृतैर्व्वा जलैः स्नानं सदाचरेत् ।तीर्थं प्रकल्पयेद्विद्वान् मूलमन्त्रेण मन्त्रवित् ॥
नमो नारायणायेति मूलमन्त्र उदाहृतः ।दर्भपाणिस्तु विधिना आचान्तः प्रयतः शुचिः ॥
चतुर्हस्तसमायुक्तं चतुरस्रं समन्ततः ।प्रकल्प्यावाहयेद्गङ्गां एभिर्मन्त्रैर्विचक्षणः ॥
विष्णोः पादप्रसूतासि वैष्णवी विष्णुपूजिता ।पाहि नस्त्वे नसस्तस्मादाजन्ममरणान्तिकात् ॥
तिस्नः कोट्योऽर्द्धकोटी च तीर्थानां वायुरब्रवीत्दिवि भुव्यन्तरीक्षे च तानि ते सन्ति जाह्नवि ॥
नन्दिनीत्येव ते नाम देवेषु नलिनीति च ।वृन्दा पृथ्वी च सुभगा विश्वकायांशिवा सिता ॥
विद्याधरी सुप्रसन्ना तथा लोकप्रसादिनी ।क्षमा च जाह्नवी चैव शान्ता शान्तिप्रदायिनी ॥
एतानि पुण्यनामानि स्नानकाले प्रकीर्त्तयेत् ।भवेत् सन्निहिता तत्र गङ्गा त्रिपथगामिनी ॥
सप्तवाराभिजप्ते न करसंपुटयोजितम् ।मूर्द्ध्नि दद्यात् जलं भूयस्त्रिश्चतुः पञ्च सप्त वा ।स्नानं कुर्य्यान्मृदा तद्वत् आमन्त्र्यच विचक्षणः ॥
अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धरे ।मृत्तिके हर मे पापं यम्मया दुष्कृतं कृतम् ॥
उद्धृतासि वराहेण कृष्णेन शतबाहुना ॥
आरुह्य मम गात्राणि सर्व्वं पापं प्रमोचय ।नमस्ते सर्व्वभूतानां प्रभवारिणि सुव्रते ॥
” * ॥
नमो नारायणाय इत्यष्टाक्षररूपमूलमन्त्रेणचतुरस्रं चतुष्कोणरूपं समन्ततः सर्व्वदिक्षुचतुर्हस्तं जलं प्रतिदिक्षु हस्तमात्रेण व्यवच्छिद्यतीर्थंप्रकल्पयेत् । वितते नद्यादिजले स्नानस्थानंपरिच्छिन्द्यात् । तत्र विष्णोः पाद इत्यादिनाशान्तिप्रदायिनीत्यन्तेन मन्त्रेण गङ्गामावाद्वयेत्सप्तवाराभिजप्तेनेति सप्तवाराभिजप्तेन नमोनारायणायेति मन्त्रेणाभिमन्त्र्येति शेषः । एक-वचननिर्देशात् तस्य मूलमन्त्रतोक्त्या च अत्रापिविनियोगोऽवगम्यते । ततश्च सप्तवारपठितनारा-यणमन्त्रेण जलमभिमन्त्र्य करयुगेन त्रिवारादिमूर्द्ध्निक्षिपेत् । ततश्चाश्वक्रान्त इति मन्त्राभ्यांतद्वदिति जप्ताभ्याम् ।“मृत्तिकाः सप्त न ग्राह्या वल्मीके मूषिकोत्करेअन्तर्जले श्मशाने च वृक्षमूले सुरालये ।परस्नानावशिष्टे च श्रेयस्कामैः सदा नरैः ॥
”इति दक्षप्रतिषिद्धेतरां मृदमामन्त्र्य तया मृदाशिरःप्रभृत्यालभ्यानुद्धृतैर्व्वा जलैः शिरः प्रभृत्यङ्ग-क्षालनमवगाहनरूपप्रधानं वारुणस्नानं समा-चरेदिति पूर्व्वोक्तेनान्वयः । मृद्ग्रलणमन्त्रे प्रभवारिणि इति प्रभवमुत्पत्तिमर्त्तुं प्रापयितुंशीलमस्यास्तत्सम्बोधनमिदम् । अवगाहनन्तुचक्षुःकर्णनासिकामङ्गुलीभिराच्छाद्य कुर्य्यात् ।“अङ्गुलीभिः पिधायैवं श्रोत्रदृङ्नासिकामुखम्निमज्जेत प्रतिस्रोतस्त्रिः पठेदघमर्षणम् ॥
”इति समुद्रकरधृतात् ।अत्रानुद्धृते वारत्रयमेवावगाहनं प्रागुक्तवामन-पुराणात् । एष विधिः पौराणिकत्वात् सर्व्व-शाखिसाधारणः । वेदमन्त्ररहितत्वादनधीत-वेदानामपि सर्व्वथादरणीयः ॥
* ॥
मत्स्यपुरा-णम् ।“नद्यां प्रत्येकशः स्नाने भवेद्गोदानजं जलम् ।गोप्रदानैश्च दशभिस्तासां पुण्यन्तु प्तङ्गमे ॥
”वशिष्ठः ।“योऽनेन विधिना स्नाति यत्र तत्राम्भसि द्विज ।स तीर्थफलमाप्नोति तीर्थे तु द्विगुणं फलम् ॥
”अनेन तीर्थावाहनादिना । अतो गङ्गायामप्या-वाहनं कुर्व्वन्ति शिष्टाः । अत्र च । माघसप्तम्या-दिनिमित्तकतीर्थविशेषनिमित्तकमन्त्रपाठस्तु-मृदालम्भनानन्तरं कार्य्यः । आगन्तुकानामन्तेऽभिनिवेश इति न्यायात् । एवं गङ्गायां विशेष-मन्त्रानन्तरमेव दशहरादिमन्त्राः पाठ्याः । तत्रगङ्गायां विशेषमन्त्रौ विद्याकरधृतौ ।“विष्णुपादार्घ्य सम्भूते गङ्गे त्रिपथगामिनि ।धर्म्मद्रवीति विख्याते पापं मे हर जाह्रवि ॥
श्रद्धया भक्तिसम्पन्ने श्रीमातर्द्देदि जाह्नवि ।अमृतेनाम्बुना देवि भागीरथिपुनीहि माम् ॥
”गोविन्दद्वादश्यां स्नाने गङ्गायां पद्मपुराणीयोमन्त्रः ।“महापातकमंज्ञानि यानि पापानि सन्ति मे ।गोविन्दद्वादशीं प्राप्य तानि मे हर जाह्नवि ॥
”गङ्गासागरसङ्गमे मन्त्रः ।“त्वं देव सरितां नाथ त्वं देवि सरितांवरे ।उभयोः सङ्गमे स्नात्वा मुञ्चामि दुरितानि वै ॥
”लौहित्यस्नाने तु मन्त्रः ।“ब्रह्मपुत्त्र महाभाग शान्तनोः कुलनन्दन ।अमोघागर्भसंभूत प्राप्तं लौहित्य मे हर ॥
” * ॥
करतोयास्नानमन्त्रः ॥
“करतोये सदानीरे सरित्श्रेष्ठे सुविश्रुते ।पौण्ड्रान् प्लावयसे नित्यं पापं हर करोद्भवे ॥
” * ॥
विष्णुः । स्नातः शिरो नावधुनेत् नाङ्गेभ्यस्तोय-मुद्धरेत् । न तैलं वा संस्पृशेत् नाप्रोक्षितं पूर्व्व-धृतं वासो विभृयात् । स्नात एव सोष्णीषो धौतेवाससी विभृयात् न म्लेच्छान्त्यजपतितैः सहसम्भाषणं कुर्य्यात् इति । नाङ्गेभ्यस्तोयमुद्धरे-दिति स्नानशाटीपाटिभ्यां पूरणीयम् ।“स्नातो नाङ्गानि निर्मृज्यात् स्नानशाढ्या नपाणिना ॥
”इति विष्णुवचनात् ।अत्र वासोऽन्तरधारणात् प्राक्कृततैलस्पर्श-निषेधः प्रतीयते ।“शिरःस्नातस्तु तैलेन नाङ्गं किञ्चिदुपस्पृशेत् ॥
”इति मनुवचनमेतत्परम् ॥
* ॥
याज्ञवल्क्यः ।“ब्रह्मक्षत्त्रविशामेव मन्त्रवत् स्नानमिष्यते ।तूष्णीमेव हि शूद्रस्य सनमस्कारकं मतम् ॥
अगम्यागमनात् स्तेयात् पापिभ्यश्च प्रतिग्रहात्रहस्याचरितात् पापात् मुच्यते स्नानमाचरन् ॥
प्रकर्त्तुमसमर्थश्चेत् जुहोति यजति क्रियाः ।स्नानध्यानजपैर्दानैरात्मानं शोधयेद्बुधः ॥
”ब्रह्मपुराणम् ।“नद्यां प्रत्येकशः स्नाने भवेत् गोदानजं फलम्गोप्रदानैस्तु दशभिस्तासां पुण्यन्तु सङ्गमे ॥
” *मनुः ।“न स्नानमाचरेत् भुक्त्वा नातुरो न महानिशि ।न वासोभिः सहाजस्रं नाविज्ञाते जलाशये ॥
”न स्नानमाचरेद्भुक्त्वेति रागप्राप्तस्नाननिषेधः ।नित्यस्याप्राप्तत्वात् । नैमित्तिकस्य च निषेद्धुम-शक्यत्वात् । आतुरः स्नानसम्बर्द्धकरोगवान् ।“महानिशा तु विज्ञेया मध्यमं प्रहरंद्वयम् ।तस्यां स्नानं न कत्तव्यं काम्यनैमित्तिकादृते ॥
”न वासोभिः सह इत्यनेन बहुवासोनिषेधात्स्नाने द्विवासस्त्वं प्रतीयते । अजस्रं पुनः पुनः ।तेन वारुण्यादिसंक्रान्त्यादि-निमित्तभेद-प्राप्त-मेकदा नानास्नानं निषिध्यते । किन्तु तन्त्रेणप्रसङ्गेन चैकं स्नानम् । तथा च निगमः ।“नावर्त्तयेत् पुनः कर्म्म तर्पणादिकमन्वहम् ।काम्यनैमित्तिके हित्वा एकं ह्येकत्र वासरे ॥
विषुवद्दिशसे प्राप्ते पञ्चतीर्थो विधांनतः ।स्नात्वा सङ्कर्षणं कृष्णं दृष्ट्वा भद्राञ्च भो द्विजाः ।नरः समस्तयज्ञानां फलं प्राप्नोति दुर्लभम् ॥
”इति ब्रह्मपुराणोक्तमार्कण्डेयह्रदे प्रद्युम्नसरोवरेसमुद्ररूपादितीर्थादौ तन्त्रप्रसङ्गयोरभावात् पुनःपुनरेकदिनेऽपि नानास्नानमिति ॥
* ॥
“परकीयनिपानेषु स्नायान्नैव कदाचन ।निपानकर्त्तुः स्नात्वा हि दुष्कृतांशेन लिप्यते ॥
”निपानं जलाधारमात्रम् । तथा च याज्ञवल्क्यः ।“पञ्च पिण्डाननुद्धृत्य न स्नायात् परवारिणि ॥
”योगियाज्ञवल्क्यः ।“अनुद्धृत्य तु यः स्नायात् परकीयजलाशये ।वृथा तस्य भवेत् स्नानं कर्त्तुः पापेन लिप्यते ॥
स्नानं दानं तपो ध्यानं पितृदेवार्च्चनं तथा ।पावनानि मनुष्याणां दुष्कृतस्येह कर्म्मणः ॥
”छन्दोगपरिशिष्टम् ।“यव्यद्वयं श्रावणादि सर्व्वा नद्यो रजस्वलाः ।तासु स्नानं प्रकुर्व्वीत वर्ज्जयित्वा समुद्रगाः ॥
उपाकर्म्मणि चोत्सर्गे प्रेतस्नाने तथैव च ।चन्द्रसूर्य्यग्रहे चैव रजोदोषो न विद्यते ॥
”निगमः । न दुष्येत्तीरवासिनाम् । व्याघ्रपादः ।अभावे कूपवापीनामन्येनापि समुद्धृते ।रजोदुष्टेऽपि पयसि ग्रामभोगो न दुष्यति ॥
”अन्येन कुम्भादिना ।“अन्त्यैरपि कृते कूपे सेतौ वाप्यादिके तथा ।तत्र स्नात्वा च पीत्वा च प्रायश्चित्तं समाचरेत् ॥
”तथा ।“प्रभूते विद्यमाने तु उदके सूमनोहरे ।नाल्पोदके द्विजः स्नायात् नदीञ्चोत्सृज्यकृत्रिमे ॥
”इति बहुभिर्धृतम् ॥
ब्रह्मपुराणे ।“नित्यं नैमित्तिकं काम्यं त्रिविधं स्नानमिष्यते ।तर्पणन्तु भवेत्तस्य अङ्गत्वेन व्यवस्थितम् ॥
श्मश्रुकर्म्माश्रुपातञ्च मैथुनं छर्दनं तथा ।अस्पृश्यस्पर्शनं कृत्वा स्नायाद्वर्ज्या जलक्रिया ॥
”यत्र तु रोगादिना स्नानं न कृतं ततापिगात्रमार्जनादिनाशौचमुत्पाद्य पितृयज्ञसिद्धयेतर्पयेत् । तदाह शातातपः ।“तर्पणन्तु शुचिः कुर्य्यात् प्रत्यहं स्नातको द्विजः ।देवेभ्यश्च ऋषिभ्यश्च पिभ्यतृश्च यथाक्रमम् ॥
* ॥
पुष्ये वा जन्मनक्षत्रे व्यतीपाते च वैधृतौ ।अमावास्यां नदीस्नानं दहत्याजन्मदुष्कतम् ॥
”वराहपुराणम् ।“दक्षिणावर्त्तशङ्खे च पात्रेऽप्यौड्म्बरे स्थितम् ।उदकं यः प्रतीच्छेत शिरसा हृष्टमानसः ।तस्य जन्मकृतं पापं तत्क्षणादेव नश्यति ॥
अच्छिन्नपद्म पत्रेण सर्व्वरत्नोदकेन च ।स्रोतसा वै नरः स्नात्वा सर्व्वपापैः प्रमुच्यते ॥
”विष्णु धर्मोत्तरे ।“तथा दर्भोदकैः स्नानं सर्व्वपापप्रणाशनम् ।गोमूत्रेण च यत् स्नानं सर्व्वाघविनिसूदनम् ॥
तथा पुष्पोदकस्नानं भवेदारोम्यकारकम् ।केवलैर्व्वा तिलैः स्नानं अथवा गौरसर्षपैः ।स्नानं प्रियङ्गुणा प्रोक्तं तथा सौभाग्यवर्द्धनम् ॥
आयुष्यञ्च यशस्यञ्च धर्म्मं मेधाविवर्द्धनम् ।स्नानं पवित्रं माङ्गल्यं तथा काञ्चनवारिणा ॥
”शङ्खः ।“स्नातस्य वह्नितोयेन तथा च परवारिणा ।कायशुद्धिं विजानीयात् न तु स्नानफलं लभेत्”स्नानफलं वैधम् । आयुर्वेदीयन्तु भवत्येव यमः“नित्यं नैमित्तिकञ्चैव क्रियाङ्गमलकर्षणम् ।तीर्थाभावे च कर्त्तव्यमुष्णोदकपरोदकैः ॥
”विष्णुपुराणम् ।“स्नानार्द्रां धरणीञ्चैव दूरतः परिवर्जयेत् ।”इत्याह्निकतत्त्वम् ॥
* ॥
तान्त्रिकस्नानविधिर्यथा । तत्र नद्यादौ वैदिक-स्नानं कृत्वा तान्त्रिकस्नानमाचरेत् । तथा चगौतमीये ।“अथ स्नानं तथा कुर्य्यात् यथाशास्त्र-विधानवित् ।मलप्रक्षालनं स्नानं स्वशाखोक्तं समाचरन् ।मन्त्रस्नानं ततः कुर्य्यात् कर्म्मणां सिद्धिहेतवे ॥
”तद्यथा । अद्येत्यादि अमुकदेवताप्रीतये मन्त्र-स्नानमहं करिष्ये इति सङ्कल्पं कुर्य्यात् ।तथा च कुलचूडामणौ ।“ताम्रपात्रं सदूर्व्वञ्च सतिलं सजलं ततः ।गृहीत्वामुकदेवस्य प्रीतये स्नानमाचरेत् ॥
”ततः षडङ्गन्यासप्राणायामौ कृत्वा गङ्गेच इत्यने-नाङ्कुशमुद्रया सूर्य्यमण्डलात्तीर्थमावाह्य वमितिधेनुमुद्रयामृतीकृत्य कवचेनावगुण्ठ्यास्त्रेणसंरक्ष्य मूलेन एकादशधाभिमन्त्र्य सूर्य्याभि-मुखं द्वादशधारा विनिःक्षिप्य तस्मिन्निष्टदेव-ताचरणारविन्दनिःसृतजले निमज्य देवतांध्यायन् मूलमन्त्रं ययाशक्ति जपन् उन्मज्य उद-केन त्रिवारजप्तेन कलसमुद्रया त्रिवारमात्मा-नमभिषिच्य वैदिकसन्ध्यादिकं कृत्वा सूय्यार्घ्यंदत्त्वा तान्त्रिकाघमर्षणादिवारिधारान्तं कर्म्मकुर्य्यात् । इति तन्त्रसारः ॥
* ॥
अन्यच्च ।“जन्मान्तरसहस्रेण यत् पापं कुरुते नरः ।मुच्यते सर्व्वपापेभ्यः स्नात्वा क्षारार्णवे सकृत् ॥
याम्यं हि यातनादुःखं नित्यस्नायी न पश्यतिस्नानं मध्यं दिने कुर्य्यात् जीर्णेऽन्नेतु निरामयःनद्यामस्तमिते स्नानं न कुर्व्वीत सदा बुधः ।नद्यां स्नात्वा नदीं चान्यां न प्रशंसेत पण्डितः ॥
अप्रशस्तं निशि स्नानं राहोरन्यत्र दर्शनात् ।स्नानं दानं तपः श्राद्धमनन्तं राहुदर्शने ।आसुरी रात्रिरन्यत्र तस्मात्तां परिवर्ज्जयेत् ।नदीदेवनिखातेषु तडागेषु सरःसु च ।स्नानं समाचरेन्नित्यं गत्तप्रस्रवणेषु च ॥
निपातनादुद्धृतं पुण्यं ततः प्रस्रवणादिकम् ।ततोऽपि सारसं पुण्यं ततो नादेयमुच्यते ।तीर्थतोयं ततः पुण्यं गङ्गातोयं ततोऽधिकम् ॥
”इति वह्निपुराणे आह्निकतपोनामाध्यायः ॥
किञ्च ।नित्यं नैमित्तिकं काम्यं क्रियाङ्गं मलकर्षणम्क्रियाम्नानं तथा षष्ठं षोढास्नानं प्रकीर्त्तितम् ॥
अस्नातस्तु पुमान्नार्हो जप्यादिहवनादिषु ।प्रातःस्नानं तदर्थन्तु नित्यस्नानं प्रकीर्त्तितम् ॥
चाण्डालशवविष्ठादेः पृष्ट्वा स्नानं रजस्वलाम् ।स्नानार्हश्च यदा स्नाति स्नानं नैमित्तिकं हितत् ॥
पुष्पस्नानादिकं स्नानं दैवज्ञविधिचोदितम् ।तद्धि काम्यं समुद्दिष्टं नाकामस्तत् प्रयोजयेत्जप्तुकामः पवित्राणि अर्च्चिष्यन् देवतांतिथीन् ।स्नानं समाचरेद्यस्तु क्रियाङ्गं तत् प्रकीर्त्तितम्मलापकर्षणं नाम्ना स्नानमभ्यङ्गपूर्व्वकम् ।मलापकर्षणार्थाय प्रवृत्तिस्तत्र नान्यथा ॥
सर्व्वेषु देवखातेषु तीर्थेषु च नदीषु च ।स्नानमेव क्रिया यस्मात् क्रियास्नानमतः स्मृतम्इति गारुडे १०५ अध्यायः ॥
* ॥
कुशहस्तस्य वैष्णवविशेषस्य स्नानादिनिषेधोमानसस्नानप्रशंसा च यथा, --“सर्व्वकर्म्मफलत्यागी हरेः संकल्पवर्ज्जितः ।नो द्विजः कुशहस्तः स्यात् स्नानपूजाजपादिषु ॥
कदाचिद्दर्भस्तो न त्यक्तकामस्तु वैष्णवः ।स्नानादिषु च कृत्येषु गोविन्दस्यार्च्चनादिषु ॥
मृदासनः कुशकरो वैष्णवो न भवेद्द्विज ।हरेः कुर्य्यात् प्रयत्नेन सर्व्वसेवाजपादिषु ॥
अस्नातो न जपेन्मन्त्रं गोविन्दस्य महात्मनः ।कदाचिदशुचिर्भूत्वाप्यस्नातोऽपि च मानवः ॥
मानसस्नातको लोको मुकुन्दस्यार्च्चनादिषु ।पूतात्मा यदि मन्त्रस्य शुद्धो भवति जापकः ॥
भवेत्तु मानसस्नायी यो बाह्याभ्यन्तरः शुचिः ।जपाधिकारी स भवेत् कृष्णमन्त्रस्य मानवः ॥
ऐन्द्रस्नानाद्वरं काम्यं काम्यादाग्ने यमेव च ।आग्नेयादाशुचं श्रेष्ठं वारुणञ्चाशुचादपि ॥
अवगाहं वारुणात्तु वैदिकञ्चावगाहनात् ।वैदिकादपि नैमित्तं तस्माद्वै मार्ज्जनं वरम् ॥
मार्ज्जनान्मान्त्रिकं श्रेष्ठं भौमं स्यान्मान्त्रिका-धिकम् ।भौमस्नानाद्वरं ब्राह्म्यं ब्राह्म्यतः पौण्यमेव च ॥
पौण्यतो नैर्मलं स्नानं वायव्यञ्च ततोऽधिकम् ।वायव्यान्मानसञ्चेह सर्व्वस्नानात् परं वरम् ॥
मर्त्त्यश्चेत् मानसस्नातः सर्व्वत्र विजयी भवेत् ।गोविन्दसर्व्वसेवासु चार्हतामेति धारणा ॥
स जापको वैष्णवः स्यात् हरेर्भजनतत्त्ववित् ।मानसस्नानवान् यो वा भक्तश्चात्र सदा सुखी ॥
”इति पाद्मोत्तरखण्डे १०८ अध्यायः ॥
* ॥
अन्यच्च ।“मानसं वैदिकं चैव मान्त्रिकं मार्ज्जनं तथा ।अवगाहनञ्च नैमित्तमाशुचं पुण्यमेव च ॥
नैर्म्मलं वारुणं ब्राह्म्यं मैत्रं काम्यञ्च नारद ।वायव्यं भौममाग्नेयं षोडशस्नानमीरितम् ॥
गोविन्दमन्त्रग्रहणं दीक्षया तु गुरोर्नृणाम् ।यदाभिषिक्तं चित्तं स्यात्तत्स्नानं मानसं शुभम्मर्त्त्यस्य नामग्रहणं यदा कार्ष्णाध्वरे गुरोः ।स्नानदेहेन्द्रियमनस्तत् स्नानं मानसं भवेत् ॥
नामसंकीर्त्तनं विष्णोर्नरः कुर्य्यादकैतवात् ।सदैव चेन्महास्नानं शरीरसुखकारणम् ॥
कया कस्त्वा स्वस्ति नश्चेत् यदि वेदैश्च वैदिकम्दर्भशान्त्युदकैः स्नानं यज्ञान्ते अभिषेचनम् ॥
सहस्रशीर्षा तद्विष्णोरिति मन्त्रादिभिर्द्विज ।चेत् पयोऽभ्युक्षणं स्नानं मान्त्रिकं समुदाहृतम्ओँ शन्न आपोहिष्ठेति ऋतञ्चेत्यादिभिर्यदि ।पाठे कुर्य्यात् कुशस्नानं मार्ज्जनं द्विज ईरितम्जलेषु मज्जतां नॄणां मज्जनन्तु यदा शिरः ।तदा सर्व्ववपुश्च स्यादवगाहनमुच्यते ।गोविन्दद्वादशीमाघीवारुण्यर्द्धोदयादिषु ।स्नानं यत्तच्च नैमित्तं ग्रहणे चन्द्रसूर्य्ययोः ॥
मैथुने वमने रेतःस्खलने मृतके तथा ।विण्मूत्रादिशवस्पर्शे शवानुगमनेऽपि च ॥
निद्रान्ते जातकेनृणामस्पृश्यस्पर्शनादिषु ।रजस्वलाचतुर्थाहे यत् स्नानं स्यात्तदाशुचम् ॥
गङ्गादिसर्व्वतीर्थेषु विष्णुपादोदकैस्तथा ।यत् स्नानमभिषेकञ्च पुण्यं तत् परिकीर्त्तितम्हेलया श्रद्धया नॄणां भक्त्या यत्नेन नारद ।गङ्गाम्भोयष्टिवत्स्नानं महापापादिनाशनम् ॥
गङ्गास्नानं मनुष्याणां सर्व्वकल्मषनाशनम् ।स्तम्बवच्चापि काष्ठस्य भवेन्मूषलवत् यदि ॥
स्नानं स्यात् सर्व्वतीर्थेषु नानायज्ञफलप्रदम् ।शालग्रामशिलावारि योऽभिषेकं समाचरेत् ॥
अकालमृत्युहरणं सर्व्वव्याधिविनाशनम् ।विष्णोः पादोदकं पीत्वा शिरसा धारयेद्यदियदि सर्व्वमनुष्याणां बाह्यान्तर्मलशोधनम् ।तदेव नैर्मलस्नानं शरीराणां भवेत् ध्रुवम् ॥
स्वेदाश्रुमज्जाविण्मूत्रचिकुराः क्षतजा वसा ।दूषिका कर्णविट् श्लेष्मा नॄणां बाह्यमलाः स्मृताःमलैस्तु मलिनो देहो नवच्छिद्रैश्च छिद्रितः ।स्रवत्यविरतं पूर्णो दिवारात्रौ मलानतः ॥
अद्भिश्च गोमयैश्चापि मलानामपमार्जनम् ।सर्व्वत्र क्षालनं कृत्वा सर्व्वात्मप्रयतो मुनिः ॥
अष्टाङ्गयोगाभ्यासैश्च देहप्रक्षालनं ततः ।नरोऽम्बुमज्जनं कुर्व्वन् स्नानं भवति नैर्म्मलम् ॥
”इति पाद्मे उत्तरखण्डै ११३ अध्यायः ॥
* ॥
किञ्च ।“तुलामकरमेषेषु प्रातःस्नानं विधीयते ।हविष्यं ब्रह्मचर्य्यञ्च महापातकनाशनम् ॥
अमास्नानं गयाश्राद्धं दक्षिणामुखभोजनम् ।न जीवत्पितृकः कुर्य्यात् कृते च पितृहाभवेत्करेण मार्ज्ज येद्गात्रं स्नानवस्त्रेण वा यदि ।शुनास्पृष्टं भवेद्गात्रं पुनः स्नानेन शुध्यति ॥
अप्रक्षाल्य तु पादौ यः स्नात्वा गच्छति मन्दिरम्संवत्सरकृतं पुण्यं तत्क्षणादेव नश्यति ॥
स्नानं रजकतीर्थेषु भोजनं गणिकालये ।शयनं पूर्व्वपादे च ब्रह्महत्या दिने दिने ॥
”इति कर्म्मलोचनः ॥
अन्यत् मत्स्यसूक्ततन्त्रे ३९ पटले द्रष्टव्यम् ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
