स्नातक (snAtaka)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
Englishस्नातक (-कः)
1. An initiated householder, a man of the three first
classes, who having completed the term prescribed for his stu-
dies becomes a housekeeper: if at the end of this period, he has
not acquired a knowledge of the Veda, he is called Vrata-snātaka
if he has acquired that knowledge earlier, he is termed Vidyā-
snātaka, and if he finishes his regular studies at the same time
that the period of study expires, he is named Ubhaya-snātaka.
2. A Brāhmana who has performed the ceremony of ablution,
required to be performed on his finishing his first ĀŚHRAMA.
3.
A Brāhman who is a Bhikshu or beggar for any religious object.
कन् added to the last.
Capeller Eng
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
English स्नातक snAtaka graduate
स्नातक snAtaka bachelor
स्नातक snAtaka initiated householder
स्नातक snAtaka Brahmana-householder
स्नातक snAtaka one who has bathed or performed ablutions
Wilson
Englishस्नातक
(-कः) An initiated householder, a man of the three first
classes, who having completed the term prescribed for his studies becomes a
housekeeper: if at the end of this period, he has not acquired a knowledge of
the Veda, he is called Vratasnātaka
if he has acquired that knowledge
earlier, he is termed Vidyāsnātaka
and if he finishes his regular studies
at the same time that the period of study expires, he is named
Ubhayasnātaka.
कन् added to the last.
Apte
Englishस्नातकः [snātakḥ], 1 A Brāhmaṇa who has performed the ceremony of ablution which has to be performed on his finishing his first Āśrama (that of a Brahmachārin)
राजस्नातकयोश्चैव स्नातको नृपमानभाक् 2.139.
A Brāhmaṇa just returned from the house of his preceptor and become an initiated householder (गृहस्थ).
A Brāhmaṇa who is a Bhikṣu (beggar of alms) for any religious object
नवैतान् स्नातकान् विद्याद् ब्राह्मणान् धर्म- भिक्षुकान् 11.2.
Any man of the first three classes who is an initiated householder. -व्रतम् the vows and duties of a स्नातक.
Apte 1890
Englishस्नातकः 1 A Brāhmaṇa who has performed the ceremony of ablution which has to be performed on his finishing his first Āśrama (that of a Brahmacārin).
2 A Brāhmaṇa just returned from the house of his preceptor and become an initiated householder (गृहस्थ).
3 A Brāhmaṇa who is a Bhikṣu (beggar of alms) for any religious object
Ms. 11. 2.
4 Any man of the first three classes who is an initiated householder.
Monier Williams Cologne
Englishस्नातक one who has bathed or performed ablutions (i.e. a Brāhman who, after performing the ceremonial lustrations required on his finishing his studentship as a Brahma-cārin under a religious teacher, returns home and begins the second period of his life as a Gṛha-stha See समावर्तन
three kinds of Snātakas are named, 1. a विद्या-स्न्°, q.v., 2. a व्रत-स्न्° [who has completed the vows, such as fasting, continence , without the Vedas], 3. a विद्या-व्रत-स्न्° or उभय-स्न्° [who has completed both Vedas and vows], the last is the highest
in a wider sense there may be 9 Snātakas See xi, 1),
iii, 4 (IW. 296).
Monier Williams 1872
Englishस्नातक, अस्, m. a Brāhman who has performed
the ceremony of ablution (cf. आ-प्लव) required on
his finishing his first Āśrama or period of studentship
as a Brahma-cārin (and on becoming initiated into
the second Āśrama or order of a Gṛha-stha, q. v.)
a Brāhman just returned from the house of his pre-
ceptor and become a married man or initiated house-
holder, (three kinds of Snātakas are enumerated,
1. the Vidyā-snātaka or Brahma-cārin, who, at the
end of his period of studentship, has completed a
course of study of the Vedas only
2. the Vrata-
snātaka, who has completed the prescribed Vratas or
vowed observances, such as fasting, continence, &c.,
without becoming perfect in the Vedas
3. the Vidyā-
vrata-snātaka or Ubhaya-snātaka, who has com-
pleted both the Vedas and the Vratas
this last is of
course regarded as the highest kind, see Kullūka on
Manu III. 2)
a Brāhman who is a Bhikṣu or
asker of alms for any religious object or legitimate
purpose, (nine kinds are enumerated in Manu XI. 1)
any man of the first three classes who is an initiated
householder.
Macdonell
Englishस्नातक snā́ta-ka, having performed the 🞄purificatory ablutions concluding apprenticeship
🞄entering or having entered the householder 🞄stage
religious student entering 🞄on the householder stage: -vrata, duties 🞄of a Snātaka
performing the duties of a 🞄Snātaka: -lopa, neglect of the duties of 🞄a Snātaka.
Benfey
Englishस्नातक स्नात + क (vb. स्ना), A
Brāhmaṇa just returned from the man-
sion of his preceptor, Man. 2, 138 (cf.
स्ना)
an initiated householder, Lass. 71,
1
a Brāhmaṇa in his second आश्रम
(order of life), Man. 1, 113
Hit.
123, 19.
--
विद्या-, विद्या-व्रत-,
and
व्रत-, a Brāhmaṇa who has
completed his studentship.
Apte Hindi
Hindiस्नातकः
- स्ना + क्त + क
ब्रह्मचर्याश्रम में अध्य्यन समाप्त कर अनुष्ठेय स्नान की विधि पूरा करने वाला ब्राह्मण
स्नातकः
- स्ना + क्त + क
वह ब्राह्मण जो वेदाधय्यन समाप्त कर अभी गुरुकुल से लौटा है और गृहस्थाश्रम में दीक्षित हुआ है
स्नातकः
- स्ना + क्त + क
वह ब्राह्मण जो किसी धार्मिक विधि को पूरा करने के लिए भिक्षु बना हो
स्नातकः
- स्ना + क्त + क
पहले तीन वर्णों का कोई पुरुष जो गृहस्थ धर्म में दीक्षित हो चुका हैं
L R Vaidya
EnglishsnAtaka {% m. %} 1. A Brāhmaṇa who has performed the ceremony of ablution (required to be performed on his finishing his first Āśrama)
2. a Brāhmaṇa just returned from the house of his preceptor and become a married man
3. a Brāhmaṇa who is a bhikshu or beggar for any religious object, M.xi.1
4. any man of the first three classes who is an initiated house-holder.
Lanman
EnglishSanskrit Tibetan
Tibetankhrus mkhan
१) गडुक २) प्रबक ३) स्नातक
अभिधानचिन्तामणिः
Sanskritज्येष्ठाश्रमी गृहमेधी गृहस्थः स्नातको गृही ॥ ८०८ ॥
ज्येष्ठाश्रमिन् (पुं), गृहमेधिन् (पुं), गृहस्थ (पुं), स्नातक (पुं), गृहिन् (पुं)
अभिधानरत्नमाला
Sanskritगृहस्थ
गृहस्थ, स्नातक
ब्रह्मचारी भवेद्वर्णी गृहस्थः स्नातकस्तथा ।
verse 2.1.1.394
page 0046
Vedic Reference
Englishशब्दकल्पद्रुमः
Sanskritस्नातकः, (स्नात एव । स्ना + “यावादिभ्यःकन् ।” ५ । ४ । २९ । इति स्वार्थे कन् ।)आप्लुतव्रती । इत्यमरः । २ । ७ । ४३ ॥
द्वेसमाप्तवेदाध्ययने स्नानशीले स्नातं स्नानं शील-मस्य । स्नातकः विकारसंघेति कः । आप्लुतंस्नानं तत्र व्रती नित्यस्नायी । स्ना प्लुत्यां भावेक्तः आप्लवव्रतीति क्वचित् पाठः । ब्रह्मचर्य्यंत्यक्त्वा यो गृहाश्रमं गतः स स्नातकः । समाप्त-वेदाध्ययनो यः स्नानशीलः आश्रमान्तरं न गतःसौऽपि स्नातकः । स्नातकस्त्रिविधः । ब्रह्मचर्य्या-चरणस्य यः शास्त्रबोधितोऽवधिः । तावद्वेद-मुपास्यासमाप्तवेद एवाश्रमान्तरं गतो यः सव्रतस्नातकः । वेदमधीत्यगुरुसन्निधौ वेदाभ्यासंयः करोति स विद्यास्नातकः । पालितसम्यग्-व्रतः प्राप्तवेदो यो द्वितीयाश्रमं गतः स उभय-स्नातकः । इति टीकान्तरे । इति भरतः ॥
वाचस्पत्यम्
Sanskritस्नातक स्ना--भावे क्त स्नानं वेदाध्ययनानन्तरं समावर्त्तना-ङ्गस्नानं तदस्यास्ति कन्, कर्त्तरि क्त स्वार्थे क वा । वेदा-ध्ययनानन्तरं गार्हस्थ्याय कृतसमावर्त्तनांङ्गस्नाने गृहस्थ-भेदे तच्च व्रतं मिता० आचराध्याये दर्शितं यथा“स्नानादारभ्य ब्राह्मणस्यावश्यं कर्त्तव्यानि विधिप्रति-निषेधकात्मकानि मानससंकल्परूपाणि स्नातकव्रतान्याह“न स्वाध्यायविरोध्यर्थमीह्नेत न यतस्ततः । न विरुद्ध-प्रसङ्गेन सन्तोषी च भवेत् सदा” याज्ञ० । ब्राह्मणस्य प्रति-ग्रहादयोऽर्थप्राप्त्युपाया दर्शिताः । अत्र विशेष उच्यते ।स्वाध्यायविरुद्धमर्थमप्रतिषिद्धमपि नेहेत नान्विच्छेत् । नयतस्ततो न यतः कुतश्चिदविदिताचारात्, न विरुद्धप्रसङ्गेनविरुद्धोऽयाज्ययाजनादिप्रसङ्गो नृत्यगीतादि विरुद्धं वातत्र प्रसङ्गश्च विरुद्धप्रसङ्गः तेन नार्थमीहेत इति सम्बध्यते । तत्र आवृत्तिः प्रत्येकं पर्युदासार्था । सर्वत्राप्यस्मिन्स्नातकप्रकरणे नञ्शब्दः पर्युदासार्था एव । किञ्च ।“अर्थालाभेपि सन्तोषी परितृप्तो भवेत् । चकारात् संय-तश्च “सन्तोषं परमास्थाय सुखार्थी संयतो भवेत्” इतिमनुस्नरणात् । कुतस्तर्हि धनमन्विच्छेदित्यत आह” मिता० ।“राजान्तेवासियाज्येभ्यः सीदन्नच्छेद्धनं क्षुघा । दम्भिहैतुकपाषण्डिवकवृत्तींश्च वर्जयेत्” याज्ञ० । “क्षुधा सीदन् पी-ह्यमानः स्नातको राज्ञो विदितवृत्तान्तादन्तेवासिनो वक्ष्य-माणलक्षणाद्याज्याद्याजनार्हाच्च धनमाददीत । क्षुधासीदन्नत्यमेन विभागादिप्राप्तकुटुम्बपोषणपर्य्याप्तधनो नकाणवेमान्वच्छेदिति गम्यते । किञ्च । दम्मिहेतुकादीन्सकलकार्य्येषु लौकिकशास्त्रीयेषु वर्जयेत् । लोकरञ्जनार्थमेवकर्मानुष्ठायी दम्भी युक्षिबलेन सर्वत्र संशयकारीहैतुकः त्रैविद्यवृद्धापरिगृहीताम्रमिणः पाषण्डिनः ।पकटदस्य वर्त्तनमिति वकवृत्तिः । यथाह मढः “अधोदृष्टिर्नैकृतिकः स्वार्थसाधनतत्परः । शठो मिथ्याविनी-तश्च वकवृत्तिरुदाहृतः” इति । प्रतिषिद्धसेविनो विकर्मस्याःविडालमार्जारस्तस्व स्वभावो व्रतं यस्यासौ वैडाल-व्रतिकः “धर्मध्वजी सदा लुब्धश्छाद्मिको लोकदाम्भिकः ।वैडालव्रतिको ज्ञेयो हिंस्रः सर्वाभिसन्धकः” इति मनु-स्मरणात् । चकाराद्विकर्मस्थवैडालब्रतिकशठान् यथाहमनुः “पाषण्डिनो विकर्मस्थान् वैडालव्रतिकान् शठान् ।हैतुकान् वकवृत्तींश्च वाङ्मात्रेणापि नार्चयेत्” इति ।शठः सर्वत्र वक्रः । एतैः संसर्गनिषेधादेव स्वयंएवंविधो न भवेदिति गम्यते” मिता० । किञ्च “शुक्लाम्बरधरोनीचकेशस्मश्रुनखः शुचिः । न भार्य्यादर्शनेऽश्नीया-न्नैकवासा न संस्थितः” याज्ञ० “शुक्ले धौते अम्बरे वाससीधारयतीति शुक्लाम्बरधरः । केशाश्च श्मश्रुणि च नखाश्चकेशश्मश्रुनखन्नीचं कृत्त कशश्मश्रुनखं यस्यासौ तथाक्तःशुचिरन्तर्बहिश्च स्नानानुलेपधूपस्रगादिभिः सुगान्धिश्चभवेत् । यथाह गौतमः “म्नातको नित्य शुचिः सु-गन्धिः स्नानशीलः” इति । सुगन्धवत्त्वविधानादेव निर्गन्ध-माल्यस्य निषेधः । तथा च गोभिलः “नागन्धां स्रज-न्धारयेदन्यत्र हिरण्यरत्नस्रजः” इति । “सदा स्नातकएवम्भूतो भवेत्” एतच्च सति सम्भवे “न जीर्णमलवद्वासाभवेच्च विभवे सतीति” मनुस्मरणात् । न च भार्याया दर्शनेतस्यां पुरतोऽवस्थितायां नाश्नीयादवीर्यवदपत्योत्पात्तम-यात् तथा च श्रुतिः “जायाया अन्ते नाश्नीयादवीर्य्य-वदपत्यं भवति” इत्यतस्तया सह भोजनं दूरादेव निरस्तम् ।न चैकवासाः । नापि संस्थितः उत्थितः अश्नोयादितिसंवध्यते मिता० । “न संशयं प्रपद्येत नाकस्मादप्रियं वदेत् ।नाहितं नानृतञ्चैव न स्तेनः स्यान्न बार्द्धुषी” याज्ञ० ।“कदाचिदपि संशयं प्राणविपत्तिसशयावह कर्म न प्रप-द्येत न कुर्य्यात् । यथा व्याघ्रचौराद्युपहतदेशाक्रम-णादि । अकस्मान्निःकारणं किञ्चिदपि परुषमप्रियम्उद्वेगकारि वाक्यं न वदेत् । न चाहितमनृत वा प्रिय-मपि । चकारादसभ्यं बीभत्सकरञ्चाकस्मन्न वदेदिति संब-ध्यते । एतच्च परिहासादिव्यतिरेवेण “गुरुणापि समंहास्यं कर्त्तव्यं कुटिलं विना” इति स्मरणात् । न चस्तेनः अन्यदीयस्यादत्तस्य ग्रहीता स्यात् न बार्द्धुषीस्यात् प्रतिषिद्धवृद्धूपजीवी वाद्धुंषी न स्यात्” मिता० ।“दाक्षायणी ब्रह्मसूत्री बेणुमान् स्रकरण्डलुः । कुर्य्यात्प्रदक्षिणं देवमृद्गोविप्रवनस्पतीन्” याज्ञ० । दाक्षायणं सुवर्णंतदस्यस्तीति दाक्षायणी । ब्रह्मसृत्रे यज्ञोप्रवीतं यस्या-स्तीति ब्रह्मसूत्री वैणवयष्टिमान् कमण्डलुमान् स्यादितिसर्वत्र सम्बन्धनीयम् । अत्र ब्रह्मचारिप्रकरणोक्तस्यापियज्ञोपवीतस्य पुनर्षचनं द्वितीयप्राप्त्यर्थमृ । यथाहवसिष्ठः “स्नातकानां द्वितीयं स्यादन्तर्वासस्तथोत्तरम् ।यज्ञोपवीते द्वे यष्टिः सोदकश्च कमण्डलुः” इति । उत्रच दाक्षायणीति सामान्यामिधानेऽपि कुण्डलधारण-मेव कार्य्यम् “वैणवीं धारयेद् यष्टिं सोदकञ्च कमण्ड-लुम् । यज्ञोपवीतं वेदञ्च शुभे रौक्मे च कुण्डले” इतिमनुस्मरणात् । देवं देवप्रतिमां मृदमुद्धृताम् । गांब्राह्मणं वनस्पतिं चाश्वत्थादिकं प्रदक्षिणं कुर्य्यात्एतान् दक्षिणतः कृत्वा व्रजेत् । एवञ्चतुष्पथादीनपि“मृदं गां दैवतं विप्रं घृतं मधु चतुष्पथम् । प्रदक्षिणानिकुर्वीत प्रज्ञातांश्च वनस्पतीन्” इति मनुस्मरणात् मिता० ।“न तु मेहेन्नदीच्छायावर्त्मगोष्ठाम्बुभस्मसु । न प्रत्यग्न्य-र्कगोसोमसन्ध्याम्बुस्त्रीद्विजन्मनः” याज्ञ० । “नद्यादिषु नमेहेत् न मूत्रपुरीषोत्सर्गं कुर्य्यात् । एवं श्मशानादा-वपि यथाह शङ्खः “न गोमयकृष्टोप्वशाद्बलचितिश्मशानवर्त्मखलपर्वतपुलिनेषु मेहेत् भूताधारत्वा-दिति” । तथाग्न्यदीन् प्रति अग्न्यादीनामभिमुखं न मे-हेत् । नाप्येतान् पश्यन् यथाह गौतमः “नवाय्वग्निविप्रादित्यापोदेवतागाश्च प्रति पशृन् वा मूत्रपुरीषामेध्यानि कुर्य्यान्न देवताः प्रति पादौ प्रसारयेत्” ।एतद्देशव्यतिरेकेण भूमिमयज्ञियैस्तृणैरन्तर्द्धाय मूत्रपुरीषेकुर्य्यादिति यथाह वशिष्ठः “परिवेष्टितशिरा भूमिम-यज्ञियैस्तृणैरन्तर्द्धाय मूत्रेपुरीषे कुर्यादिति” मिता० । “नेक्षे-तार्कं न नग्नां स्त्रीं न च संसृष्टमैथुनाम् । न च मूत्रंपुरीषञ्च नाशुचीराहुतारकाः” याज्ञ० । “नैवार्कमोक्षेतेतियद्यपिसामान्येनोक्तं तथापि उदयास्तमयराहुग्रह्स्तोदक-प्रतिबिम्बमध्याह्ववर्त्तिन एवादित्यस्यावेक्षणं निषिध्यते नसर्वदा । यथोक्तं मनुना “नेक्षेतोद्यन्तमादित्यं नास्तंयान्तं कदाचन । नोपसृष्टं न वारिस्थं न मध्यं नभसोगतम्” इति । उपभोगादन्यत्र नग्नां स्त्रियं नेक्षेत “ननग्नां स्त्रियमीक्षेतान्यत्र मैथुनात्” इत्याश्वलायनः । संसृष्टमैथुनां कृतोपभोगाम् । उपभोगान्ते अनग्नामपि ने-क्षेत । चकाराद्भोजनादिकर्माचरन्तीम् । तथा चमनुः “नाश्नीयाद् भार्य्यया सार्द्धं नैनामीक्षेत चाश्न-तीम् । क्षुवन्तीं जृम्भमाणाञ्च न चासीनां यथासुखम् ।नाञ्जयन्तीं खके नेत्रे न चाभ्यक्तामनावृताम् । न पश्येत्प्रसवन्तीं च श्रेयस्कामो द्विजोत्तमः” इति । मूत्रपुरीषेच न पश्येत् । तथा अशुचिः सन् राहुतारकाश्च नपश्येत् । चकारादुदके स्वप्रतिबिम्बम् । “न चोदकेनिरीक्षेत स्वरूपमिति धारणा” इति वचनात्” मिता० ।“अयं मे वज्र इत्येवं सर्वं मन्त्रमुदीरयन् । वर्षत्यप्रावृतोगच्छेत् स्वपेत् प्रत्यकशिरा न च” याज्ञ० । वर्षति सतिअयं मे वज्रः पाप्मानमपहन्त्विति मन्त्रमुच्चारयन् अप्रा-वृतोऽनाच्छादितो न गच्छेन्न धावेत “न प्रधार्वच्च वर्ष-तीति” प्रति षेधात् । न च प्रत्यक्शिराः स्वप्यात् । चका-रान्नग्नो न शयीत । एकश्च शून्यगृहे । “न च नग्नः शयी-तेति” “नैकः स्वप्यात् शून्यगृहे” इति मनुस्मारणात्” मिता०“ष्ठीवनासृक् शवृन्मूत्ररेतांस्यप्सु न निक्षिपेत । पादौप्रतापयेन्नाग्नौ न चैनमभिलङ्घयेत्” याज्ञ० । ष्ठीवनमुद्गिर-णम् । असृग्रक्तम् । शकृत् पुरीषं शेषं प्रसिद्धम् । एता-न्यासु न निक्षेपेत् । नापः पादेन ताडयेत् । एवन्तुषादी-नपि । यथाह शङ्खः “तुषकेशकरीषभस्मास्थिश्लेष्म-नखलोमान्यप्सु न निक्षेपेत् । न पादेन पाणिना वाजलमभिहन्यादिति” । अग्नौ च पादौ न प्रतापयेत् ।नाप्यग्निं लङ्घयेत् । चकारात् ष्ठीयनानृग्नौ न क्षिपेत् ।मुखोपधमनादि चाग्नेर्न कुर्य्यात् तथा च मनुः“नाग्निं मुखेनोपधमेन्नग्नां नेक्षेत च स्त्रियम् । ना-मेध्यं प्रक्षपेदग्नौ न च पादौ प्रतापयेत् । न चैनंपादतः कुर्य्यान्न प्राणबाधमाचरेत्” इति मिता० । “जलं पि-बेन्नाञ्जलिना न शयानं प्रवोधयेत् । नाक्षैः क्रीडेन्न धर्म-घ्नर्व्याधितैर्वा न संविशेत्” याज्ञ० । “जलमञ्जलिना संहताभ्यांपाणिभ्यां न पिवेत् । जलग्रहणं पेयमात्रोपलक्षणम् ।विद्यादिभिरात्मनोऽधिकं शयानं न प्रवोधयेत् नोत्थाप-येत् “श्रेयांसन्न प्रवोधयेदिति” विशेषात् । अक्षादि-भिर्न्न क्रीडेत । धर्मघ्नैः पशुलङ्घनादिभिः कर्मभिर्न्नक्रीडेत् । व्याधितैर्ज्वराद्यभिभूतैरेकत्र न संविशेत् नशयीत” मिता० । “विरुद्धं वर्जयेत् कर्म प्रेतधूमं नदीतरम् ।केशमस्मतुपाङ्गारकपालेषु च संस्थितिम्” याज्ञ० । “जन-पदकुलाचारग्रामविरुद्धञ्च कर्म वर्जयेत् । प्रेतधूमं वाहुभ्यांनदीतरणञ्च वर्जयेदिति संबध्यते । वेशादिषु संस्थितिंवर्जयेत् । चकारादस्थिकार्पासामेध्येषु च” मिता० । “ना-चक्षीत धयन्तीं गां नाद्वारेण विशेत् क्वचित् । न राज्ञःप्रतिगृह्णीयाल्लुब्धस्योच्छास्त्रवर्त्तिनः” याज्ञ० । “परस्य क्षी-रादि पिबन्तीं गां परस्मै माचक्षोत न च निवर्चयेत् ।अद्वारेण कापथेन क्वचिदपि नगरे ग्रामे मन्दिरे वा नप्रविशेत् । न कृपणस्य शास्त्रातिक्रमकारिणो राज्ञः स-काशात् प्रतिगृह्णीयात्” मिता० । “प्रतिग्रहे सूनिचक्रि-ध्वजिवेश्यानराधिपाः । दुष्टा दशगुणं पूर्वात् पूर्वादेते यथा-क्रमम्” याज्ञ० । प्रतिग्रहेषु साध्येषु सूत्यादयः पञ्च पूर्व-स्मात् पूर्वस्मात् परःपरो दशगुणं दुष्टाः । सूनाप्राणिहिंसासा अस्याऽस्तीति सूनी प्राणिहिंसापरः चक्री तैलिकः ।ध्वजी सुराविक्रयी । वेश्या पण्यस्त्री । नराधिपःअनन्तरोक्तः” मिता० ।“देवत्विक्स्नातकाचार्य्यराज्ञां छायां परस्त्रियाः ।माक्रमेद्रक्तविण्मुत्रष्ठीवनोद्वर्त्तनादि च” याज्ञ० । “देवानामृत्विक् स्नातकाचार्य्यराज्ञां परस्त्रियाश्च छायां नाक्रा-मेत् नाधितिष्ठेन्न लङ्घयेद् बुद्धिपूर्वम् यथाह मनुः“देवतानां गुरो राज्ञः म्नातकाचार्य्ययोरपि । नाक्रा-मेत् कामतश्छायां वभ्रुणो दीक्षितस्य च” इति । वभ्रुणोनकुलवर्णस्य यस्य कस्य चिद्गारन्यस्य वा सोमादेर्वभ्रुणइति नपुंसकलिङ्गनिर्देशात् । रक्तादीनि च नाधिति-ष्ठेत् । आदिग्रहणात् स्नानोदकादेर्ग्रहणम् “उद्वर्त्तन-मपःस्नानं विण्म्त्रं रक्तमेव च । श्लेष्मनिष्ट्यूतवान्तानिनाधितिष्ठेत कामतः” इति मिता० । “विप्राहिक्षत्रि-यात्मानो नावज्ञेयाः कदाचन । आमृत्योः श्रियमाका-ङ्क्षेन्न कञ्चिन्मर्मणि स्पृशेत्” याज्ञ० । “विप्रो बहुश्रुतोऽहिःसर्पः क्षत्रिया नृपतिः । एते कदाचिदपि नावमन्तव्याआत्मा च स्वयं नावमन्तव्यः । आमृत्योर्यावज्जीवं श्रिय-मिच्छेन्न कञ्चिन्मर्मणि स्पृशेन्न कस्यचिदपि मर्म दुश्चरितंप्रकाशवेत्” मिता० । “दूरादुच्छिष्टविणमुत्रपादाम्भांसि स-सुत्सृजेत् । श्रुतिस्मत्युदितं सम्यक् नित्यमाचारमाचरेत्”याज्ञ० । “भोजनाद्युच्छिष्टं विण्मूत्रे पादप्रक्षालनजलञ्चगृहाद् दूरात् समुत्सृजत् । श्रौतं स्मार्त्तं चाचारं नित्यंसम्यगनुतिष्ठेत्” मिता० । “गोब्राह्मणानलान्नानि नोच्छिष्टोन पदा स्पृशेत् । न निन्दाताडने कुर्य्यात् पुत्रं शिष्यंच ताडयेत्” याज्ञ० । गां ब्राह्मणमग्निमन्नमदनीयं विशेषतःपक्वमशुचिर्न स्मृशेत् । पादेन त्वनुच्छिष्टोऽपि “यदा पुनःप्रमादात् स्पृशति तदाचमनोत्तरकालं मनूक्तं का-र्य्यम् “स्पृष्ट्वैतानशुचिर्नित्यमद्भिः प्राणानुपस्पृशेत् ।गात्राणि चैव सर्वाणि नाभिं पाणितलेन तु” इतिएवं प्राणादीनुपस्पृशेत् । कस्यचिदपि निन्दाताडनेन कुर्य्यात् । एतच्चानपकारिणः “अयुध्यमानस्योत्पाद्यब्राह्मणस्यासृगन्ततः । दुःखं सुमहदाप्नोति प्रेत्याप्राज्ञ-तया नरः” इति । पुत्रशिष्यौ शिक्षार्थमेव ताडयेत् ।चकाराद् दासादीनपि । ताडनञ्च रज्वादिनोत्तमाङ्गव्यतिरेकेण कार्य्यम् “शिष्यशिष्टिरबधेनाशक्तौ रज्जुयेणुदलाभ्यां तनुभ्यामन्येन घ्नत् राज्ञा शास्यः” इतिगोतमवचनात् । “पृष्टतस्तु शरीरस्य नोक्तमाङ्गे कथ-ञ्चन” इति मनुवचनात्” मिता० । “कर्मणा मनसा वाचायत्नाद्धर्मं समाचरेत् । अस्वर्ग्यं लोकविद्विष्टं धर्ममप्या-चरेन्न तु” याज्ञ० । कर्मणा कायेन यथाशक्ति धर्ममनुतिष्ठेत् ।तमेव मनसा ध्यायेत् । वाचा वदेत् । धर्मं विहितमपिलोकविद्विष्टं लोकाभिशस्तिजनकं मधुपर्के योबवादिकंनाचरेत् । यस्मादस्वर्ग्यमग्नोषोमीयवत् स्वर्गसाधनं न भ-वति” मिता० । “मातृपित्रतिथिभ्रातृजामिसम्बन्धिमातुलैः ।वृद्धबालातुराचार्य्य वैद्यसंश्रितबान्धवैः । ऋत्विक्पुरोहि-तापत्यभार्य्यादाससनाभिभिः । विवादं वर्जयित्वा तुसर्वाँल्लोकाञ्जयेद् गृही” याज्ञ० । माता जननी । पिताजनकः । अतिथिरध्वनीनः । भ्रातरो भिन्नोदरा अपि ।जामयो विद्यमानभर्त्तृकाः स्त्रियः । सम्बन्धिनो वै-ब ह्याः । मातुलो मातुर्भ्राता । वृद्धः सप्तत्युत्तरव-यस्कः । बालः आषोडशाद्वर्षात् । आतुरो रोगी ।आचार्य्य उपनेता । वैद्यो विद्वान् भिषग्वा । संश्रितउपजीवी । बान्धवाः पितृपक्षा मातृपक्षाश्च । मातुलस्यपृथगुपादानम् आदरार्थम् । ऋत्विग्याजकः । पुरोहितःशान्त्यादेः कर्त्ता । अपत्यं पुत्रादि । भार्य्या सहधर्म-चारिणी । दासः कर्मकरः । सनाभयः सोदराः भ्रा-तृभ्यः पृथगुपादनं अजामिभगिनीप्राप्त्यर्थम् । एतै-र्मात्रादिभिः सह वाक्कलहं परित्यज्य सर्वान् प्राजा-पत्यादीन् लोकान् प्राप्नोति” । “पञ्चपिण्डाननुद्धृत्य नस्नायात् परवारिणि । स्नायान्नदीदेवखातह्रदप्रस्रवणेषुच” याज्ञ० । परवारिषु परसम्बन्धिषु सर्वस्वत्वोद्देशेन त्यक्तेषुतडागादिषु पञ्चपिण्डिनिनुद्धृत्य न स्नायात् । अनेनात्मी-योत्सृष्टाभ्यनुज्ञातेषु पिण्डोद्धरमन्तरेणापि स्नानमभ्यनु-ज्ञातम् । नद्यादिषु कथं तर्हीत्याह स्नायान्नदीति ।साक्षात् परम्परया वा समुद्रगाः स्रवन्त्यो नद्यः । देव-खातं देवनिर्मितं पुष्करादि । उदकप्रवाहाभिघातकृत-जलो महानिम्नप्रदेशो ह्रुदः । पर्वताद्युच्चप्रदेशात्प्रस्रुतम् उदकं प्रस्नवणं एतेषु पञ्चपिण्डानुद्धरणेनैवस्नायात् । एतच्च नित्यस्नानविषयम् सति सम्भवे“?न}दीषु देवखातेषु तडागेषु सरःसु च । स्नानं समाचरे-न्नित्यं गर्त्तप्रस्रवणेषु च” इति नारदस्मरणात् । शौचा ।द्यर्थन्तु यथासम्भवं परवारिषु पिण्डानुद्धरणेऽपि सर्वस्यन निषेधः” मिता० । “परशय्यासनोद्यानगृहयानानिवर्जयेत् । अदत्तान्यग्निहीनस्य नान्नमद्यादनापदि” याज्ञ० ।शय्या कशिपुः । आसनं पीठादि । उद्यानमाम्रव-णादि । गृहं प्रसिद्धन् । यानं रथादि परसम्बन्धोन्येतान्यदत्तान्यननुज्ञातानि वर्जयेन्नापभुञ्जीतः अभो-ज्यान्नान्याह । अग्निहीनस्येति । श्रौतस्मार्त्ताग्न्यधिकाररहितस्य शूद्रस्य प्रतिलोमजस्य बाधिकारवतोऽप्यग्नि-रहितस्यान्नमनापदि न भुञ्जीत न प्रतिगृह्णायाच्च ।“तस्मात् प्रशस्तानां स्वकर्मणा शुद्धजातीनां ब्राह्मणोभुञ्जीत गृह्णीयांच्चेति” गौतमवचनात्” मिता० । “कदर्य्यवद्धचौराणां क्लोवरङ्गावतारिणाम् । वैणाभिशस्तबार्द्धुष्यगणिकागणदोक्षिणाम्” याज्ञ० । कदर्य्यो लुब्धः “आत्मानंधर्मकृत्यञ्च पुवदारांश्च पीडयेत् । लोभाद् यः पितरौभृत्यान् स कदव्ये इति स्मृतः” इत्युक्तः । बद्व्हो निगडादिना वाचा सन्निरुद्धश्च । चौरो ब्राह्मणसुवर्णव्य-तिरिक्तपरस्वापहारी । क्लीवो नपुंसकः । रङ्गावतारोनटचारणमल्लादिः । वेणुच्छेदजीवो वैणः । अभिशस्तःपतनीयैः कर्ममिरभियुक्तः । वाद्र्वुष्यो निषिद्धवृद्ध्युप-जीवी । गणिका पण्यस्त्री गणदीक्षी बहुयाजकः । एते-षामन्नं नाश्रीयादित्यनुवर्त्तते” मिता० । “चिकित्सकातुरक्रुद्धपुश्चलीमत्तविद्विषाम् । क्रूरोग्रपतितव्रात्यदाम्भिकोच्छिष्ट-भोजिनाम्” याज्ञ० । “चिकित्सकोभिषग्वृत्त्युपजीवी ।आतुरा महारोगोपसृष्टः । “वातव्याध्यश्मरीकुष्ठमे-होदरभगन्दराः । अर्शांसि ग्रहणोत्यष्टौ महारोगाःपसीर्त्तिताः” इति । क्रुद्धः कुपितः! पुंश्चली व्यभि-चारिणी । मत्तो विद्यादिना गर्वितः । विद्विट् शत्रुः ।क्रूरो दृढाभ्यन्तरकोपः । वाक्कायव्यापारेणोद्वेजकःउग्रः । पतितो ब्रह्महादिः । व्रात्यः पतितसावि-त्रीकः । दाम्भिको वञ्चकः । उच्छिष्टभोजी परभुक्तोज्झि-ताशो । एतेषाञ्चिकित्सकादीनामन्नं नाश्नीयात्” मिता० ।“अवीरास्त्रीस्वर्णकारस्त्रीजितग्रामयाजिनाम् । शस्त्रविक्रयकर्मारतन्तुवायश्ववृत्तिनाम्” याज्ञ० । “अवीरास्त्रो स्व-तन्त्रा व्यभिचारमन्तरेणापि । पतिपुत्ररहितेत्यन्ये ।स्वर्णकारः सुवर्णस्य विकारान्तरकृत् । स्त्रीजितः सर्वत्रस्त्रीवशवर्द्धी । ग्रामयाजी ग्रामस्य शान्त्यादिकर्त्ता वहूना-मुपनेता च । शस्त्रविक्रयी शस्त्रविक्रयोपजीवी । कर्मारोलोहकारः तक्षादिश्च । तन्तुवायः सूचीशिल्पोपजीवी ।श्वभिर्वृत्तं जीवनमस्यास्तीति श्ववृत्ती । एतेषामन्नं ना-श्नीयात्” मिता० । “नृशंसराजरजककृतघ्नवधजोविनाम् ।चैलधावसुराजोवसहापपतिवेश्मताम् । पिशुनानृतिनो-श्चैव तथा चाक्रिकवन्दिनाम् । एषामन्नं न भोक्तव्यंसोमविक्रयिणस्तथा” याज्ञ० । “नृशंसो निर्दयः । राजाभूपतिः । तत्साहचर्य्यात्पुरोहितश्च । यथाह शङ्खः“भीतावगीतरुदिताक्रन्दितावघुष्टक्षुधितपरिभुक्तविस्मितो-न्मत्तावधूतराजपुराहितान्नानि वर्जयेत्” । रजको वस्त्रा-दीनां नीलादिरागकारकः । कृतध्न उपकृतस्य हन्ता ।बधजीवी प्राणिनां बधेन वर्त्तकः । सुराजीवी मद्यवि-क्रयजीवी । उपपतिर्जारः सहोपपतिना वेश्म यस्यासौसहोपपतिवेश्मा । पिशुनः परदोषस्य ख्यापकः । अ-नृती मिथ्यावादी । चाक्रिकस्तैलिकः । शाकटिकश्चेत्येके“अभिशस्तपतितचाक्रिकतैलिकः” इति भेदेनाभिधानात् ।वन्दिनः स्तावकाः सामविक्रयी सोमलताया विक्रेता ।एतेषामन्नं न भोक्तव्यम् । सर्वे चैते कदर्व्यादयो द्विजाएव कदर्य्यत्वादिदोषदुष्टा अभोज्यान्ना इतरेषां प्राप्त्य-भावात् प्राप्तिपूर्वकत्वाच्च प्रतिषेधस्य । अग्निहीनस्य नान्न-मद्यादनापदींत्यत्र शूद्रस्याभोज्यान्नत्वमुक्तम् । तत्र प्रति-प्रसवमाह” मिता० । “शूद्रेषु दासगोपालकुलमित्राद्धेसी-रिणः । भोज्यान्ना नापितश्चैव यश्चात्मानं निवेदयेत्” याज्ञ० ।“दासागर्भदासादयः गोपालो गवां पालकः गवां पाल-नेन यो जीवति । कुलमित्रं पितृपितामहादिक्रमागतः ।अर्द्धसीरी हलपर्य्याय सीरापलक्षितकृषिफलभागग्राही ।नापितः गृहव्यापारकारयिता नापितश्च । यश्च वाङ्-मनःकायकर्ममिरात्मानं निवेदयति तवाहमिति । एतेदासादयः शूद्राणां मध्ये भोज्यान्नाः । चकारात् कुम्भ-कारश्च । “गोपनापितकुम्भकारकुलमित्रार्द्धिकनिवेदिता-त्मानो भोज्यान्ना” इति वचनात् ।स्नातकश्च त्रिविधः व्रतस्नानतकः विद्यास्नातकः उभय-स्नातकश्चेतिभेदात् । तत्र विहितकालपर्य्यन्तं व्रह्मचर्य्यंकृत्वा वेदमसमाप्यैव व्रतकालोत्तरं कृतसमावर्त्तन आद्यः ।विहितकालमध्येऽपि वेदविद्यां लब्ध्वा स्नातो द्वितीयः ।विहितकालपर्थ्यन्तं ब्रह्मचर्य्यं कृत्वा वेदमक्षब्ध्वा तंलब्ध्वैव तत्कालोत्तरं कृतस्नानस्तृतीयः ।
Burnouf
FrenchNo entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
