| YouTube Channel

स्थैर्य्यं (sthairyyaM)

 
शब्दकल्पद्रुमः
Sanskrit
स्थैर्य्यं,
क्ली,
(स्थिरस्य भावः स्थिर + ष्यञ् ।)स्थिरत्वम् गर्भस्थस्याङ्गानां स्थैर्य्यं चतुर्थे मासिभवति इति सुखबोधः
(यथा, याज्ञवल्क्यः ।३ ८० ।“स्थैर्य्यं चतुर्थे त्वङ्गानां पञ्चमे शोणितोद्भवः ।षष्ठे बलस्य वर्णस्य नखरोम्नाञ्च सम्भवः
*
दृढता यथा, महाभारते १३ ।“महेन्द्रसदृशः शौर्य्ये स्थैर्य्ये हिमवानिव ।समुद्र इव गाम्भीर्य्ये सहिष्णुत्वे धरासमः
”)