| YouTube Channel

स्थूलजीरकः (sthUlajIrakaH)

 
Wordnet
Sanskrit
Synonyms:
कृष्णजीरः, कुञ्चिका, कुञ्जिका, कारवी, जरणः, जरणा, स्थूलकणा, स्थूलजीरकः
noun
एकः क्षुपः यस्य बीजम् गन्धद्रव्यम् इव प्रयुज्यते।
"कृषकः क्षेत्रे कृष्णजीरस्य भूभागे जलं सिञ्चति।"
Synonyms:
कृष्णजीरः, कुञ्चिका, कुञ्जिका, कारवी, जरणः, जरणा, स्थूलकणा, स्थूलजीरकः
noun
व्यञ्जने उपयुज्यमानं कृष्णवर्णीयं गन्धयुक्तं बीजम्।
"मठरी इति पदार्थे कृष्णजीरेण रुचिः वर्धते।"
शब्दकल्पद्रुमः
Sanskrit
स्थूलजीरकः,
पुं,
(स्थूलो जीरकः ।) जीरकभेदः ।कालजिरा इति वङ्गभाषा मगरेला इतिकलौञ्जी इति हिन्दीभाषा तत्पर्य्यायः ।दिव्या उपकुञ्चिका काला पृथ्वी ५स्थूलकणा पृथुः मनोज्ञा जारणी ९जीर्णा १० तरुणः ११ सुषुवी १२ कारवी १३पृथ्वीका १४ अस्य गुणाः कटुत्वम् तिक्त-त्वम् उष्णत्वम् बातगुल्मामदोषश्लेष्माध्मान-जन्तुनाशित्वम् जीर्णत्वम् दीपनत्वञ्च इतिराजनिर्घण्टः
*
त्रिविधजीरकनामगुणाः ।“जीरको जरणोऽजाजी कणा स्याद्दीघजीरकःकृष्णजीरः सुगन्धश्च तथैवाहारशोधनः
कणाजाजी तु सुषवो कालिका चोपकालिकापृध्वीका कारवी पृध्वी पृथुः कृष्णोपकुञ्चिका ।उपकुञ्ची कुञ्ची बृहज्जीरक इत्यपि
जीरकत्रितयं रूक्षं कटुकं दीपनं लघु ।संग्राहि पित्तलं मेध्यं गर्भाशयविशुद्धिकृत्
ज्वरघ्नं पाचनं बल्यं वृष्यं रुच्यं कफापहम् ।चक्षष्यं पवनाध्मानगुल्मच्छर्द्यतिसारहृत्
”इति भावप्रकाशः