स्थावरः (sthAvaraH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte Hindi
Hindiस्थावरः
- स्था + वरच्
पहाड़
Wordnet
Sanskrit पर्वतः, महीध्रः, शिखरी, क्ष्माभृत्, अबार्यः, धरः, अद्रिः, गोत्रः, गिरिः, ग्रावा, अचलः, शैलः, शिलोच्चयः, स्थावरः, सानुमान्, पृथुशेखरः, धरणीकीलकः, कुट्टारः, जीमूतःधातुभृत्, भूधरः, स्थिरः, कुलीरः, कटकी, शृङ्गी, निर्झरी, अगः, नगः, दन्ती, धरणीध्रः, भूभृत्, क्षितिभृत्, अवनीधरः, कुधरः, धराधरः, प्रस्थवान्, वृक्षवान्
भूमेः अत्युन्नतभागः ।
"कृष्णा हिमालयनाम्नः पर्वतस्य शिखरे गता ।"
Tamil
Tamilஸ்தா2வர: : அசைவற்ற, உணர்வற்ற, மலை.
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
शब्दकल्पद्रुमः
Sanskritस्थावरः, त्रि, (तिष्ठतीति । स्था + “स्थेशभास-पिसकसो वरच् ।” ३ । २ । १७५ । इतिवरच् ।) जङ्गमेतरः । अचलवस्तु । इत्यमरः ।३ । १ । ७३ ॥
जङ्गमा गोमक्षिष्यादयः ततो-ऽन्यो वृक्षादिः स्थावरः । इति भरतः ॥
* ॥
स च ब्रह्मणः सप्तमः सर्गः षड्विधश्च । यथा, --“सप्तमो मुख्यसर्गस्तु षड्विधस्तस्थुषाञ्च यः ।वनस्पत्योषधिलता त्वक्सारो वीरुधो द्रुमाः ॥
”तेषां लक्षणं यथा, --“उत्स्रोतसस्तमःप्राया अन्तःस्पर्शा विशेषिणः ॥
”इति श्रीभागवतम् ॥
“ये पुष्पं विना फलन्ति ते वनष्पतयः । ओषधयःफलपाकान्ताः । लता आरोहणापेक्षाः ।त्वक्सारो वेण्वादयः । लता एव काठिन्येनआरोहणानपेक्षा वीरुधः । ये पुष्पैः फलन्ति तेद्रुमाः । ऊर्द्ध्वं स्रोत आहारसञ्चारो येषां ते ।तमःप्रायाः अव्यक्तचैतन्याः । अन्तःस्पर्शाः स्पर्श-मेव जानन्ति नान्यत्तदापि अन्तरेव न बहिः ।विशेषिणः अव्यवस्थितपरिणामाद्यनेकभेदवन्तः”इति तट्टीकायां श्रीधरस्वामी ॥
* ॥
स्थावरधनंसान्निध्ये तरेभ्यो न विक्रे तव्यम् । यथा, --“स्थावरं धनमन्यस्मै स्थिते सान्निध्यवर्त्तिनि ।योग्ये क्रेतरि विक्रेतुं न शक्तः स्थावराधिपः ॥
सान्निध्यवर्त्तिनां ज्ञातिः सवर्णो वा विशिष्यते ।तयोरभावे सुहृदो विक्रेत्रिच्छा गरीयसी ।निर्णीतमूल्ये पण्येन स्थावरस्य क्रयोद्यमे ।तन्मूल्यञ्चेत् समीपस्थो राति क्रेता न चापरः ॥
मूल्यं दातुमशक्तश्चेत् सम्मतो विक्रयेऽपि वा ।सन्निधिस्थस्तदान्यस्मै गृही शक्नोति विक्रये ॥
क्रीतञ्चेत् स्थावरं देवि ! परोक्षे प्रतिवासिनः ।श्रवणादेव तन्मूल्यं दत्त्वासौ प्राप्नुमर्हति ॥
क्रेता तत्र गृहारामान् विनिर्म्माति भुनक्ति वामूल्यं दत्त्वापि नाप्नोति स्थावरं सन्निधिस्थितः ॥
इति महानिर्व्वाणतन्त्रे द्वादशोल्लासः ॥
स्थावरे विशेषो यथा, याज्ञवल्क्यः ।“मणिमुक्ताप्रबालानां सर्व्वस्यैव पिता प्रभुः ।स्थावरस्य तु सर्व्वस्य न पिता न पितामहः ॥
”अपि च ।“स्थावरं द्विपदञ्चैव यद्यपि स्वयमर्ज्जितम् ।असम्भूय सूतान् सर्व्वान् न दानं न च विकयः ॥
”किञ्च ।“पितुः प्रसादात् भुज्यन्ते वस्त्राण्याभरणानि चस्थावरन्तु न भुञ्जीत प्रसादे सति पैतृके ॥
”इति मिताक्षराधृतवचनमपि पितामहधन-परम् । पित्रा च स्वोपार्जितं स्थावरं दत्तंभुज्यत एव इति ॥
“स्थावरे विक्रयो नास्ति कुर्य्यादाधिमनुज्ञया ॥
”इति स्थावरस्य केवलविक्रयप्रतिषेधात् विक्रये-ऽपि कर्त्तव्ये सहिरण्यमुदकं दत्त्वा दानरूपेणस्थावरविक्रय इतिविज्ञानेश्वरः । वस्तुतस्तु स्थाव-रविक्रयनिषेधोऽविभक्तस्थावरविषयः ॥
* ॥
पूर्व्व-पुरुषार्जितनष्टोद्धारे विशेषयति मिताक्षरायाम् ।“स्थावरं द्विपदञ्चैव यद्यपि स्वयमर्जितम् ।असम्भूय सुतान् सर्व्वान् न दानं न च विक्रयः ॥
”अस्याप्यपवादमाह ।“एकोऽपि स्थावरे कुर्य्यात् दानाधमनविक्रयम्आपत्काले कुटुम्बार्थे धर्म्मार्थे च विशेषतः ॥
”अनुपभोगे तु सर्व्वस्य क्रीतादेर्हानिर्यथा बृह-स्पतिः ।“संविभागक्रयप्राप्तं पित्र्यं लब्धञ्च राजतः ।स्थावरं सिद्धिमाप्नोति भुक्त्या हानिरुपेक्षया ॥
*सौदायिके सदा स्त्रीणां स्वातन्त्र्यं परिकल्पितम्विक्रये चैव दाने च यथेष्टं स्थावरेष्वपि ॥
”नारदः ।“भर्त्रा प्रीतेन यद्दत्तंस्त्रियै तस्मिन् मृतेऽपि तत्सा यथा काममश्नीयात् दद्याद्वा स्थावरादृते ॥
”यमः ।“अविभक्तं स्थावरं यत् सर्व्वेषामेव तद्भवेत् ।विभक्तं स्थावरं प्राप्तं नान्योदर्य्यैः कदाचन ॥
”सर्व्वेषां सोदरासोदराणाम् । स्थावरातिरिक्तन्तुविभक्ताविभक्तसोदराणामेवेत्यर्थतः सिद्धम् ।तेषां तत्पिण्डदातृत्वेन तन्मातृभोग्यपार्व्वणपि-ण्डदातृत्वेन चाधिकारात् । इति दायतत्त्वम् ॥
*(अथातः स्थावरविषविज्ञानीयमध्यापं व्याख्या-स्यामः ।“स्थावरञ्जङ्गमञ्चैव द्विविधं विषमुच्यते ।दशाधिष्ठानमाद्यन्तु द्वितीयं षोडशाश्रयम् ॥
मूलं पत्रं फलं पुष्पं त्वक् क्षीरं सार एव च ।निर्य्यासो धातवश्चैव कन्दश्च दशमः स्मृतः ॥
तत्र क्लीतकाश्वमारगुञ्जासुबन्धगर्गरककरघाट-विद्युच्छिखाविजयानीत्यष्टौ मूलविषाणि । विष-पत्रिका-लम्बावरदारुककरम्भ-महाकरम्भाणिपञ्च पत्रविषाणि । कुमुद्वतीवेणुकाकरम्भकहा-करम्भकर्क्कोटकरेणुकखद्योतकचर्म्मरीभगन्धा-सर्पधातिनन्दनसारपाकानीति द्वादश फल-विषाणि । वेत्रकादम्बवल्लीजकरम्भमहाकर-म्भाणि पञ्च पुष्पविषाणि । अन्त्रपाचककर्त्तरीय-सौरीयककरघाटकरम्भनन्दनवराटकानि सप्त-त्वक्सारनिर्य्यासविषाणि कुमुदघ्नोस्नु हीजाल-क्षीर्य्याणि त्रीणि क्षीरविषाणि । फेणाश्मभस्म-हरितालञ्च द्वै धातुविषे । कालकूटवत्सनाभ-सर्षपकपालककर्द्द्रमकवैराटकमुस्तकशृङ्गीविष-प्रपौण्डरिकमूलकहलाहलमहाविषकर्कटका-नीति त्रयोदश कन्दविषाणि । इत्येवं पञ्च-पञ्चाशत् स्थावरविषाणि भवन्ति ॥
चत्वारि वत्सनाभानि मुस्तके द्वे प्रकीर्त्तिते ।षट् चैव सर्षपाण्याहुः शेषाण्येकैकमेव तु ॥
उद्वेष्टनं मूलविषैः प्रलापो मोह एव च ।जृम्भाङ्गोद्वेष्टनश्वासा ज्ञेयाः पत्रविषेण तु ॥
मुष्कशोफः फलविषैर्द्दाहोऽन्नद्वेष एव च ।भवेत् पुष्पविषैश्छर्द्दिराध्मानं मोह एव च ॥
त्वक्सारनिर्य्यासविषैरुपयुक्तैर्भवन्ति हि ।आस्यदीर्गन्ध्यपारुष्यशिरोरुक्कफसंस्रवाः ॥
फेणागमः क्षीरविषे विड्भेदो जिम्भजिह्वता ।हृत्पीडनं धातुविषैर्म्मूर्च्छा दाहश्च तालुनि ॥
प्रायेण कालघातीनि विषाण्ये तानि निर्द्दिशेत्कन्दजानि तु तीक्ष्णानि तेषां वक्ष्यामि विस्तरम्स्पर्शाज्ञानं कालकूटे वेपथुः स्तम्भ एव च ।ग्रीवास्तम्भो वत्सनाभे पीतविण्मूवनेत्रता ॥
सर्षपे वातवैगुण्यमानाहो ग्रन्थिजन्म च ।ग्रीवा दौर्व्वल्यवाक्सङ्गौ पलकेऽनुमताविह ॥
प्रसेकः कर्द्द्वमाख्ये तु विड्भेदो नेत्रपीतता ।वैराटकेनाङ्गदुःखं शिरोरोगश्च जायते ॥
गात्रस्तम्भो वेपथुश्च जायते मुस्तकेन तु ।शृङ्गीविषेणाङ्गसाददाहोदरविवृद्धयः ॥
पुण्डरीकेण रक्तत्वमक्ष्णोर्वृद्धिस्तथोदरे ।वैवर्ण्यं मूलकैश्चर्द्दिहिक्काशोफप्रमूढताः ॥
चिरेणोच्छसिति श्यावो नरो हालाहलेन वै ।महाविषेण हृदये ग्रन्थिशूलोद्गमौ भृशम् ॥
कर्क्कटैर्नोत्पतत्यूर्द्ध्वं हसन् दन्तान् दशत्यपि ।कन्द जान्यूग्रवीर्य्याणि प्रयुक्तानि त्रयोदश ॥
सर्व्वाणि कुशलैर्ज्ञेयान्येतानि दशभिर्गुणैः ।रूक्षमुष्णं तथा तीक्ष्णं सूक्ष्ममाशु व्यवायि च ॥
विकाशि विशदञ्चैव लब्धपाकि च तत स्मृतम्तद्रौक्ष्यात् कोपयेद्वायुमौष्ण्यात् पित्तं सशोणि-तम् ॥
मानसं मोहयेत्तैक्ष्ण्यादङ्गबन्धान् छिनत्त्यपि ।शरीरावयवान् सौक्ष्म्यात् प्रविशेद्विकरोति च ॥
आशुत्वादाशु तद्धन्ति व्यवायात् प्रकृतिं भजेत् ।क्षपयेच्च विकाशित्वाद्दोषान् धातुमलानपि ॥
वैशद्यादतिरिच्येत दुश्चिकित्स्यञ्च लाघवात् ।दुर्ज्ज रञ्चाविपाकित्वात्तस्मात् क्लेशयते चिरम् ॥
स्थावरं जङ्गमं यच्च कृत्रिमं चापि यद्धितम् ।सद्यो व्यापादयेत्तत्तु ज्ञेयं दशगुणान्वितम् ॥
यत् स्थावरं जङ्गमकृत्रिमं वादेहादशेषं यदनिर्गतं तत् ।जीर्णं विषघ्नौषधिभिर्हतं वादावाग्निवातातपशोषितं वा ॥
स्वभावतो वा गुणविप्रहीनंविषं हि दूषीविषतामुपैति ।वीर्य्याल्पभावान्न निपातयेत्तत्कफावृतं वर्षगणानुबन्धि ॥
तेनार्द्दितो भिन्नपुराषवर्णोविगन्धवैरस्यमुखः पिपासी ।मूर्च्छन् वमन् गद्गदवाग्विषण्णोभवेच्च दूष्योदरलिङ्गजुष्टः ॥
आमाशयस्थे कफवातरोगीपित्ताशयस्थेऽनिलपित्तरोगी ।भवेन्नरो ध्वस्तशिरोरुहाङ्गोविलूनपक्षस्तु यथा विहङ्गः ॥
स्थितं रसादिष्वथ वा यथोक्तान्करोति धातुप्रभवान् विकारान् ।कोपञ्च शीतानीलदुर्द्दिनेषुयात्याशु पूर्व्वं शृणु तत्र रूपम् ॥
निद्रा गुरुत्वञ्च विजृम्भणञ्चविश्लेषहर्षावथवाङ्गमर्द्दः ।ततः करोत्यन्नमदाविपाका-वरोचकं मण्डलकोठमोहान् ॥
धातुक्षयं पादकरास्यशोफंदकोदरं छर्द्दिमथातिसारम् ।ववर्ण्यमूर्च्छाविषमज्वरान् वाकुर्य्यात् प्रवृद्धां प्रबलां तृषां वा ।उन्मादमन्यज्जनयेत्तथाऽन्य-दानाहमन्यत् क्षपयेच्च शुक्रम् ।गाद्गद्यमन्यज्जनयेच्च कुष्ठंतांस्तान् विकारांश्च बहुप्रकारान् ॥
दूषितं देशकालान्नदिवास्वप्नै रभिक्ष्णशः ।यस्माद्दूषयते धातून् तस्माद्दूषीविषं स्मृतम् ॥
स्थावरस्योपयुक्तस्य वेगे तु प्रथमें नृणाम् ।श्यावा जिह्वा भवेत् स्तब्धा मूर्च्छाश्वासश्च जायद्वितीये वेपथुः स्वेदो दाहः कण्डूरुजस्तथा ।विषमामाशयप्राप्तं कूरुते हृदि वेदनान् ॥
तालुशोषं तृतीये तु शूलं चामाशये भृशम् ।दुर्व्वर्णे हरिते शूने जायेते चास्य लोचने ॥
पक्वाशयगते तोदो हिक्काकासोऽन्त्रकूजनम् ।चतुर्थे जायते वेगे शिरसश्चातिगौरवम् ॥
कफप्रसेको वैवर्ण्यं पर्व्वभेदश्च पञ्चमे ।सर्व्वदोषप्रकोपश्च पक्वाधाने च वेदना ॥
षष्ठे प्रज्ञाप्रणाशश्च भृशं वाप्यतिसार्य्यते ।स्कन्धपृष्ठकटीभङ्गः सन्निरोधश्च सप्तमे ॥
प्रथमे विषवेगे तु वान्तं शीताम्बुसेवितम् ।अगदं मधुसर्पिर्भ्यां पाययेत समायुतम् ॥
द्वितीये पूर्व्ववद्वान्तं पाययेत्तु विरेचनम् ।तृतीयेऽगदपानन्तु हितं नस्ये तथाञ्जनम् ॥
चतुर्थे स्नेहसंमिश्रं पाययेतागदं भिषक् ।पञ्चमे क्षौद्रमधुकक्वाथयुक्तं प्रदापयेत् ॥
षष्ठेऽतिसारवत्सिद्धिरवपीडश्च सप्तमे ।मूर्द्ध्नि काकपदं कृत्वा सासृग्वापि शितं क्षिपेत्वेगान्तरे त्वन्यतमे कृते कर्म्माणि शीतलाम् ।यवागूं सघृतक्षौद्रमिमां दद्याद्विचक्षणः ॥
कोषातक्योऽग्निकः पाठासूर्य्यवल्ल्यमृताभयाः ।शिरीषः किणिहीशेलुगिर्य्याह्वा रजनीद्वयम् ॥
पुनर्णवे हरेणुश्च त्रिकटुः सारिवे बला ।एषां यवागूर्निक्वाथे कृता हन्ति विषद्वयम् ॥
मधूकं तगरं कुष्ठं भद्रदारु हरेणवः ।पुन्नागलैलबालूनि नागषुष्पोत्पललं सिता ।विडङ्गं चन्दनं पत्रं प्रियङ्गु ध्यामकं तथा ।हरिद्रे द्वे बृहत्यौ च सारिवे च स्थिरासहा ॥
कल्कैरेषां घृतं सिद्धमजेयमिति विश्रुतम् ।विषाणि हन्ति सर्व्वाणि शीघ्रमेवाजितं क्वचित् ॥
दूषीविषार्त्तं सुखिन्नमूर्द्धञ्चाधमश्च शोधितम् ।पाययेतागदं नित्यमिमं दूषीविषापहम् ॥
पिप्पल्यो ध्यामकं मांसी सावरः परिपेलवम् ।सुवर्च्चिका ससूक्ष्मैला तोयं कनकगैरिकम् ॥
क्षौद्रयुक्तोऽगदो ह्येष दूषीविषमपोहति ।एष नाम्ना विषारिस्तु न चान्यत्रापि वार्य्यते ॥
ज्वरे दाहे च हिक्कायामानाहे शुक्रसंक्षये ।शोफेऽतिसारे मूर्च्छायां हृद्रोगे जठरेऽपि वा ॥
उन्मादे वेपथौ चैव ये चान्ये स्युरुपद्रवाः ।यथास्वं तेषु कुर्व्वीत विषघ्नै रौषधैः क्रियाम् ॥
साध्यमात्मवतः सद्यो याप्यं संवत्सरोत्थितम् ।दूषीविषमसाध्यन्तु क्षीणस्याहितसेविनः ॥
”इति सुश्रुते कल्पस्थाने २ अध्यायः ॥
)
कृदन्तरूपमाला
Sanskrit1 {@“ष्ठा गतिनिवृत्तौ”@} 2 3 स्थायकः-यिका, 4 स्थापकः-पिका, 5 तिष्ठासकः-सिका, 6 तेष्ठीयकः-यिका
7 स्थाता-त्री, 8 उत्थाता, 9 10 अधिष्ठाता-त्री, स्थापयिता-त्री, तिष्ठासिता-त्री, तेष्ठीयिता-त्री
11 तिष्ठन्- 12 अधितिष्ठन् 13-न्ती, 14 15 उत्तिष्ठत्, 16 17 उत्तिष्ठन्, 18 19 उपतिष्ठन्ती, 20 21 उपतिष्ठन्, स्थापयन्-न्ती, तिष्ठासन्-न्ती
-- स्थास्यन्- 22 अधिष्ठास्यन्-न्ती-ती, स्थापयिष्यन्-न्ती-ती, तिष्ठासिष्यन्-न्ती-ती
-- 23 सन्तिष्ठमानः-अवतिष्ठमानः-प्रतिष्ठमानः- 24 वितिष्ठमानः, 25 26 आतिष्ठ- मानः, 27 28 तिष्ठमाना, 29 30 तिष्ठमानः, 31 32 33 उत्तिष्ठमानः, 34 35 उपतिष्ठमानः, 36 37 उपतिष्ठमानः, 38 उपतिष्ठमाना, 39 उपतिष्ठमानः, 40 उपतिष्ठमानः, 41 42 उपतिष्ठमानः, 43 44 उपतिष्ठमानः, स्थापयमानः, 45 सन्तिष्ठासमानः-अवतिष्ठासमानः, 46, तेष्ठीयमानः
47 संस्थास्यमानः-अवस्थास्यमानः- 48 प्रस्थास्यमानः-विष्ठास्यमानः, स्थापयिष्यमाणः, सन्तिष्ठासिष्यमाणः, तेष्ठीयिष्यमाणः, 49
50 संस्थाः-संस्थौ-संस्थाः, 51 सव्येष्ठाः
-- -- 52 उपस्थितः- 53 स्थितम्-स्थितवान्, 54 समुत्थितवती, स्थापितः, तिष्ठासितः, तेष्ठीयितः-तवान्
-- -- -- 55 56 स्थायी, 57 दुःस्थः, 58 ककुत्स्थः, 59 तपस्स्थः 60 , प्रस्थः- 61 प्रष्ठः, 62 63 समस्थः- विषमस्थः, 64पद्वित्रिकुशेकुशङ्क्वङ्गुमञ्जिपुञ्जिपरमेबर्हिर्दिव्यग्निभ्यः स्थः’ 65 इति षत्वम्।
एवं अग्निष्ठः इति पर्यन्तं षत्वमनेन सूत्रेण ज्ञेयम्।
अम्बेव तिष्ठतीत्यम्बष्ठः।
‘ङ्यापोः संज्ञाच्छन्दसोर्बहुलम्’ 66 इति पूर्वपदस्य ह्रस्वः।
रूढशब्दश्चायम्
अतो नावयवार्थेऽभिनिवेशः कर्तव्यः।
अम्बायां = 67 तिष्ठतीति न्यासे व्युदपादि।]] अम्बष्ठः-आम्बष्ठः- 68 गोष्ठः- 69 भूमिष्ठः- 70 सव्येष्ठः- 71 अपष्ठः-द्विष्ठः-त्रिष्ठः- कुशोष्ठः-कुष्ठः-शङ्कुष्ठः-अङ्गुष्ठः-मञ्जिष्ठः-पुञ्जिष्ठः-परमेष्ठः-बर्हिःष्ठः- 72 दिविष्ठः- अग्निष्ठः, 73 आखूत्थः-शलभोत्थः, 74 अश्वत्थामा, 75 शंस्थः, शंस्थाः, 76 77 चिरस्थायी, 78 स्थास्नुः, 79 80 स्थायुकः, 81 82 स्थावरः, 83 84 तस्थिवान्, 85 86 प्रस्थायी, 87 88 उपस्थानीयः, स्थापः, 89 प्रतिष्ठासुः, तिष्ठापयिषुः, 90 तेष्ठियः
स्थातव्यम्, स्थापयितव्यम्, तिष्ठासितव्यम्, तेष्ठीयितव्यम्
91 स्थानीयम्, स्थापनीयम्, तिष्ठासनीयम्, तेष्ठीयनीयम्
92 स्थेयः, स्थेयम्, स्थाप्यम्, तिष्ठास्यम्, तेष्ठीय्यम्
93 94 ईषत्स्थानः-दुःस्थानः- 95 दुरुपस्थानः-सुस्थानः
-- -- 96 उपस्थीयमानः, स्थाप्यमानः, तिष्ठास्यमानः, तेष्ठीय्यमानः
97 प्रस्थः, माहिकप्रस्थः-इन्द्रप्रस्थः-मालाप्रस्थः, स्थापः, तिष्ठासः, तेष्ठीयः
स्थातुम्-उत्थातुम्, स्थापयितुम्, तिष्ठासितुम्, तेष्ठीयितुम्
98 प्रस्थितिः, 99] संस्था-आस्था- 100 अन्यदास्था-अन्यास्था, व्यवस्था, स्थापना, तिष्ठासा, तिष्ठापयिषा, तेष्ठीया
स्थानम्, उत्थानम्, अधिष्ठानम्, 101 भीरुष्ठानम्, स्थापनम्, तिष्ठासनम्, तेष्ठीयनम्
स्थित्वा, स्थापयित्वा, तिष्ठासित्वा, तेष्ठीयित्वा
102 प्रस्थाय-उत्थाय, प्रस्थाप्य, उपतिष्ठास्य, प्रतेष्ठीय्य
103 शय्योत्थायं 104 105, 106 107 स्थायम् २ स्थित्वा २ स्थापम् २ स्थापयित्वा २ तिष्ठासम् २ तिष्ठासित्वा २ तेष्ठीयम् २
तेष्ठीयित्वा २
108 स्थाणुः, 109 स्थूणा, 110 स्थविरः, 111 स्थिरम्- 112 गविष्ठिरः- 113 युधिष्ठिरः, 114 स्थाली, 115 स्थूरः, 116 परमेष्ठी।
01 (१८७६)
02 (१-भ्वादिः-९२८। अक। अनि। पर।)
03 [[७। ‘घात्वादेः षः सः’ (६-१-६४) इति सकारादेशः सर्वत्र। ‘आतो युक् चिण्कृतोः’ (७-३-३३) इति युगागमः। एवं णिनिप्रत्यये, णमुल्यपि ज्ञेयम्।]]
04 [[८। ‘अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुग् णौ’ (७-३-३६) इत्यङ्गस्य पुगागमः। एवं ण्यन्ते सर्वत्र पुगागमो बोध्यः।]]
05 [[९। धातोरनुदात्तत्वात् सन इण्निषेधे, द्वित्वे, अभ्यासे, ‘शर्पूर्वाः खयः’ (७-४-६१) इति खयः शेषः। अभ्यासस्य, ‘सन्यतः’ (७-४-७९) इतीत्वम्। ‘आदेशप्रत्य- ययोः’ (८-३-५१) इत्युत्तरखण्डे षत्वम्। ष्टुत्वम्। एवं सन्नन्ते सर्वत्र बोध्यम्।]]
06 [[१०। ‘घुमास्थागापाजहातिसां हलि’ (६-४-६६) इति ईत्वे, द्वित्वे, अभ्यासस्य गुणः। एवं यङन्ते सर्वत्र ज्ञेयम्।]]
07 [पृष्ठम्१३५७+ ३१]
08 [[१। ‘उदः स्थास्तम्भ्वोः पूर्वस्य’ (८-४-६१) इति सकारस्य पूर्वसवर्णः थकारो भवति। तस्य ‘झरो झरि सवर्णे’ (८-४-६५) इति पाक्षिको लोपः। लोपाभावपक्षे थकारस्यैव श्रवणम्, न तु ‘खरि च’ (८-४-५५) इति चर्त्वम्। पूर्वसवर्णस्यासिद्ध- त्वात्।]]
09 [वैकुण्ठस्य]
10 [[२। अधिपूर्वकस्य स्थाधातोः प्रयोगे, ‘अधिशीङ्स्थाऽऽसां कर्म’ (१-४-४६) इति कर्मसंज्ञायाम्, ‘कर्तृकर्मणोः कृति’ (२-३-६५) इति षष्ठी। ‘उपसर्गात् सुनोति- सुवतिस्यतिस्तौतिस्तोभतिस्था--’ (८-३-६५) इति षत्वम्।]]
100 [[६। अन्या च सा आस्था च अन्यदास्था। ‘अषष्ठ्यतृतीयास्थस्यान्यस्य दुग् आशीराशास्थास्थितोत्सुकोतिकारकारागच्छेषु’ (६-३-९९) इति दुगागमः।]]
101 [[७। समासे ‘भीरोः स्थानम्’ (८-३-८१) इति षत्वम्।]]
102 [[८। ‘न ल्यपि’ (६-४-६९) इति ईत्वनिषेधः। माधवीये तु ‘अन्तरङ्गानपि विधीन् बहिरङ्गो ल्यब् बाधते’ (परि। ५५) इति न्यायसञ्चारेण ईत्वं वारितम्। तत् सम्पा- तायातम्
\n\n यतः ‘न ल्यपि’ (६-४-६९) इति निषेधो जागर्ति।]]
103 [[९। ‘अपादाने परीप्सायाम्’ (३-४-५२) इति णमुल्। परीप्सा = त्वरा। ‘एवं नाम त्वरते, यदवश्यं कर्तव्यमपि नापेक्षते, शय्योत्थानमात्रमाद्रियते।’ इति काशिका (३-४-५२)।]]
104 [[B। ‘गोत्रे साक्षादजनि भगवानेष यत् पद्मयोनिः शय्योत्थायं यदखिलमहः प्रीणयन्ति द्विरेफान्।’ अनर्घराघवे ७-७८।]]
105 [धावति]
106 [पृष्ठम्१३६२+ २४]
107 [[आ। ‘स्थायं स्थायं क्वचिद् यान्तं क्रान्त्वा क्रान्त्वा स्थितं क्वचित्।’ भ। का। ५-५१।]]
108 [[१। ‘स्थो णुः’ (द। उ। १-१४७) इति णुप्रत्ययः। तिष्ठतीति स्थाणुः = ईश्वरः, अचलद्रव्यं च।]]
109 [[२। ‘रास्नासास्नास्थूणावीणाः’ (द। उ। ५-४७) इति सूत्रेण धातोरूकारादेशः, नप्रत्ययः, णत्वम्, गुणाभावश्च निपात्यते। स्थूणा = स्तम्भः।]]
11 [[३। ‘पाघ्राध्मास्थाम्नादाण्दृश्यर्तिसर्तिशदसतां पिबजिघ्रधमतिष्ठ--’ (७-३-७८) इति तिष्ठादेशः शिति प्रत्यये परे।]]
110 [[३। ‘अजिरशिशिरशिथिलस्थिरस्फिरस्थविरखदिराः’ (द। उ। ८-२७) इत्यनेन स्थाधातोः किरच्प्रत्ययः, ह्रस्वत्वम्, वुगागमश्च निपात्यते। स्थितो विश्रमात् = इति स्थविरः।]]
111 [[४। ‘अजिरशिशिरशिथिलस्थिर--’ (द। उ। ८-२७) इति किरचि, आकारलोपश्च निपात्यते। तिष्टतीति स्थिरम् = दृढम्।]]
112 [[५। ‘गवियुधिभ्यां स्थिरः’ (८-३-९५) इति षत्वम्।]]
113 [[B। ‘त्रिदण्डकाषायकमण्डलूज्ज्वलो जपस्फुरद्दन्तपुटो युधिष्ठिरः।’ चम्पूभारते ६-६।]]
114 [[६। ‘स्थाचतिमृजेरालवालजालीयरः’ (द। उ। १०-१) इति आलप्रत्ययः। तिष्ठत्योद- नादिकमिति स्थालम् = भाजनविशेषः। स्थाली, गौरादिषु (४-१-४१) पाठात् स्त्रियां ङीष्।]]
115 [[७। ‘स्थश्च’ (द। उ। ८-३५) इति रक्प्रत्यये, ऊकारश्चान्तादेशः। स्थूरः = उच्चः।]]
116 [[८। ‘परमे कित्’ (द। उ। ६-६१) इति स्थाधातोः इनिप्रत्ययः, स च कित्। कित्त्वादाकारलोपः। ‘तत्पुरुषे कृति बहुलम्’ (६-३-१४) इत्यलुक्। ‘स्था- स्थिन्स्थॄणामिति वक्तव्यम्’ (वा। ८-३-९७) इति षत्वम्।]]
12 [[४। ‘अधिशीङ्स्थाऽऽसां कर्म’ (१-४-४६) इति वैकुण्ठस्य कर्मसंज्ञायां द्वितीया।]]
13 [वैकुण्ठं]
14 [[५। ‘ईहायामेव’ (वा। १-३-२४) इति, ‘उदोऽनूर्ध्वकर्मणि’ (१-३-२४) इत्यत्रोक्तत्वात् न शानच्। किन्तु शत्रादेशः। शतस्य विशेष्यत्वात् उत्तिष्ठत् इत्यत्र क्लीबत्वम्।]]
15 [ग्रामात् शतं]
16 [आसनात्]
17 [[६। ‘--अनूर्ध्वकर्मणि’ (१-३-२४) इति निषेधात् अत्र न शानच्।]]
18 [[७। ‘उपान्मन्त्रकरणे’ (१-३-२५) इत्यत्र ‘मन्त्रकरणे’ इति विशेषणात् अत्र न शानच्।]]
19 [यौवनेन भर्तारं]
20 [याचकः प्रभुं]
21 [[८। ‘वा लिप्सायाम्’ (वा। १-३-२५) इति आत्मनेपदविकल्पात् पक्षे शता।]]
22 [[आ। ‘सङ्ग्रामे तानधिष्ठास्यन् निषद्य पुरतोरणम्।’ भ। का। ९-७२।]]
23 [[९। ‘समवप्रविभ्यः स्थः’ (१-३-२२) इति समादिपूर्वकेषु कमेण शानच्।]]
24 [[B। ‘सहस्रसंख्यैर्गगनं शिरोभिः पादैर्भुवं व्याप्य वितिष्ठमानम्। विलोचनस्थानगतोष्णरश्मिनिशाकरं साधु हिरण्यगर्भम्।।’ शिशुपालवधे ४-४।]]
25 [शब्दं नित्यं]
26 [[१०। ‘आङः प्रतिज्ञायाम्’ (वा। १-३-२२) इति वार्तिकात् शानच्।]]
27 [गोपी कृष्णाय]
28 [[११। ‘प्रकाशनस्थेयाख्ययोश्च’ (१-३-२३) इति प्रकाशने शानच्। स्थित्या स्वाभिप्रायं प्रकाशयन्ती इत्यर्थः। ‘श्लाधह्नुङ्स्थाशपां ज्ञीप्स्यमानः’ (१-४-३४) इति कृष्णशब्दात् चतुर्थी। ‘धातूनामनेकार्थत्वात् प्रकाशनमत्रार्थः’ इति केचित्। ‘स्थानेन स्वाभिप्रायाविष्करणं प्रकाशनम्’ इति पदमञ्जरी (१-४-३४)।]]
29 [धर्माध्यक्षे]
30 [[१२। ‘प्रकाशनस्थेयाख्ययोश्च’ (१-३-२३) इत्यनेन स्थेयाख्यायां शानच्। स्थेयः = विवादपदनिर्णेता। धर्माध्यक्षं निर्णेतृत्वेनोपसर्पतीत्यर्थः।]]
31 [मुक्तौ]
32 [पृष्ठम्१३५८+ २९]
33 [[१। ‘उदोऽनूर्ध्वकर्मणि’ (१-३-२४) इति शानच्।]]
34 [ऐन्द्र्या गार्हपत्यं]
35 [[२। ‘उपान्मन्त्रकरणे’ (१-३-२५) इति शानच्।]]
36 [आदित्यं]
37 [[३। ‘उपाद् देवपूजासङ्गतिकरणमित्रकरणपथिषु’ (वा। १-३-२५) इत्यनेन क्रमेण चतुर्ष्वर्थेषु गम्यमानेषु शानच् भवति। आदित्यमुपतिष्ठमानः = स्तुवन् इत्यर्थः। गङ्गा यमुनामुपतिष्ठमाना = उपश्लिष्यमाणा इत्यर्थः। रथिकान् उपतिष्ठमानः = मित्रीकरोति इत्यर्थः। पन्थाः स्रुघ्रमुपतिष्ठमानः = प्राप्नोतीत्यर्थः।]]
38 [गङ्गा यमुनां]
39 [रथिकान्]
40 [पन्थाः स्रुघ्नं]
41 [याचकः प्रभुं]
42 [[४। ‘वा लिप्सायाम्’ (वा। १-३-२५) इत्यात्मनेपदविकल्पः।]]
43 [यावद्भुक्तं]
44 [[५। ‘अकर्मकाच्च’ (१-३-२६) इति शानच्। भोजने भोजने उपतिष्ठत इत्यर्थः।]]
45 [[६। ‘पूर्ववत् सनः’ (१-३-६२) इत्यात्मनेपदम्। एवं आत्मनेपदनिमित्तविषये सर्वत्र सन्नन्ताच्छानच् बोध्यः।]]
46 [इत्यादीनि]
47 [[७। आत्मनेपदनिमित्तेषु सत्सु लृडादेशः। शानच् सर्वत्र बोध्यः।]]
48 [[आ। ‘प्रस्थास्यमानावुपसेदुषस्तौ शोशुच्यमानानिदमूचतुस्तान्’ भ। का। ३-१२।]]
49 [इत्यादीनि]
50 [[८। क्विपि, ‘घुमास्थागापा--’ (६-४-६६) इतीत्वं भाष्यकारप्रयोगात् न। नच प्रत्यय- लक्षणाभावः शङ्क्यः
\n\n तस्य निषेधस्य वर्णप्राधान्यविषयत्वात्। अत्र च प्रत्यय- प्राधान्यात्।]]
51 [[९। ‘स्थास्थिन्स्थॄणामिति वक्तव्यम्’ (वा। ८-३-९७) इति षत्वम्। अत्र वार्तिके ‘स्था’ इति औणादिकस्य ऋन्नन्तस्य ग्रहणमिति न्यासकारः। तच्च ‘स्थॄणाम्’ इत्यनेन पुनरुक्तत्वात्, हर्म्येष्ठाः, रथेष्ठाः, इति प्रयोगविरोधाच्च न--इति प्रदीपाद्यनुसारेण माधवीये साधितम्।]]
52 [[१०। ‘गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवस--’ (३-४-७२) इति कर्तरि क्तप्रत्ययः। ‘द्यतिस्यतिमास्थामित् ति किति’ (७-४-४०) इति इत्वम्।]]
53 [[B। ‘आशितम्भवमुत्क्रुष्टं वल्गितं शयितं स्थितम्। बह्वमन्यत काकुत्स्थः कपीनां स्वेच्छया कृतम्।।’ भ। का। ६। १०७।]]
54 [[C। ‘भूयः समुत्थितवती धृतपुण्डरीका भोगाय सागरगृहाद् भुवनैकयूनः।।’ यादवाभ्युदये १९-७०।]]
55 [पृष्ठम्१३५९+ ३३]
56 [[१। ग्रह्यादिपाठात् (३-१-१३४) कर्तरि णिनिः। युगागमः।]]
57 [[२। ‘आतश्चोपसर्गे’ (३-१-१३६) इति कर्तरि कप्रत्ययः। ‘आतो लोप इटि च’ (६-४-६४) इत्याकारलोपः।]]
58 [[आ। ‘अबोधि दुःस्थं त्रैलोक्यं दीप्तैरापूरि भानुवत्।।’ भ। का। ६-३२।]]
59 [[३। ‘स्थे च भाषायाम्’ (६-३-२०) इति सप्तम्या अलुक्निषेधः। ‘हलदन्तात्--’ (६-३-९) इत्यस्यापवादः।]]
60 [[B। ‘असिस्तव तपःस्थस्य न समर्थयते शमम्।।’ किरातार्जुनीयम् ११-१७।]]
61 [[४। कर्तरि कप्रत्यये ‘प्रष्ठोऽग्रगामिनि’ (८-३-९२) इति षत्वं निपात्यते।]]
62 [[C। ‘प्रच्छन्नं मारुतिप्रष्ठः सीतां द्रष्टुं प्लवङ्गमाः।।’ भ। का। ७-५३।]]
63 [[५। ‘सुपि स्थः’ (३-२-४) इति कर्तरि कप्रत्ययः।]]
64 [[६। ‘अम्बाम्बगोभूमिसव्या[व्येऽप]
65 (८-३-९७)
66 (६-३-६३)
67 [मातृत्वप्रयुक्तजातौ]
68 [[७। गावः तिष्ठन्त्यत्रेत्यधिकरणे कप्रत्ययः।]]
69 [[ड्। ‘युवजानिर्धनुष्पाणिर्भूमिष्ठः खविचारिणः।’ भ। का। ५-१३।]]
70 [[८। सूत्रे (८-३-९७) कुशे, सव्ये, परमे, दिवि इति चतुर्षु स्थलेषु निपातनात् सप्तम्या अलुक्।]]
71 [[९। “अपाष्ठः इति क्वचिद् दृश्यते। तदानीं ‘अन्येषामपि--’ (६-३-१३७) इति पूर्वपदस्य दीर्घः--इति न्यासे” इति माधवधातुवृत्तौ।]]
72 [[E। ‘सर्वनारीगुणैः प्रष्ठां विष्टरस्थां गविष्ठिराम्। शयानां कुष्ठले तारां दिविष्ठामिव निर्मलाम्।।’ भ। का। ९-८४।]]
73 [[१०। आदन्तत्वादेव कप्रत्यये सिद्धे पुनः, ‘सुपि स्थः’ (३-२-४) इति सूत्रारम्भसामर्थ्यात् भावेऽपि कप्रत्ययो भवति। आखूनामुत्थानम् = आखूत्थः। पृषोदरादित्वात् सकारस्य थकारः।]]
74 [[११। ‘अन्येभ्योऽपि दृश्यन्ते’ (३-२-७५) इति मनिन्प्रत्ययः। पृषोदरादित्वात् आदेः सकारस्य थकारादेशः। अश्वस्येव स्थाम = बलं यस्थ, सोऽश्वत्थामा। उपपदसमासे स्वभावात् इवार्थो लभ्यते।]]
75 [[१२। ‘स्थः क च’ (३-२-७७) कर्तरि कः। चकारात् क्विबपि। ‘शमि धातोः संज्ञायाम्’ (३-२-१४) इत्यचोऽपवादः।]]
76 [पृष्ठम्१३६०+ २८]
77 [[१। ‘सुप्यजातौ णिनिस्ताच्छील्ये’ (३-२-७८) इति णिनिः। युगागमः।]]
78 [[२। ‘ग्लाजिस्थश्च ग्स्नुः’ (३-२-१३४) इति ग्स्नुप्रत्ययः ताच्छीलिकः। ‘क्स्नोः गित्त्वान्न स्थ ईकारः किङितोरीत्वशासनात्। गुणाभावस्त्रिषु स्मार्यः, श्र्युकोऽनिट्त्वं गकोरितोः।।’ इति भाष्यम् (३-३-१३९)।]]
79 [[आ। ‘स्थास्नुं रणे स्मेरमुखो जगाद मारीचमुच्चैर्वचनं महार्थम्।।’ भ। का। २-३२।]]
80 [[३। ‘लषपतपदस्थाभूवृषहनकमगमशॄभ्य उकञ्’ (३-२-१५४) इति तच्छीलादिषु कर्तृषु उकञ् प्रत्ययः। युगागमः।]]
81 [[B। ‘अतीते वर्षुके काले प्रमत्तः स्थायुको गृहे।।’ भ। का। ७-१८।]]
82 [[४। ‘स्थेशभासपिसकसो वरच्’ (३-२-१७५) इति ताच्छीलिको वरच्प्रत्ययः।]]
83 [[C। ‘शरीरिणां स्थावरजङ्गमानां सुखाय तज्जन्मदिनं बभूव।।’ कुमारसम्भवे १-२३।]]
84 [[५। ‘छान्दसा अपि क्वचिद्भाषायाम्’ इति न्यायेन लिटः क्वसुः। द्वित्वे, आकार- लोपे, ‘नेड् वशि कृति’ (७-२-८) इतीण्निषेधे प्राप्ते, ‘वस्वेकाजाद्धसाम्’ (७-२-६७) इतीट्।]]
85 [[ड्। ‘तं तस्थिवांसं नगरोपकण्ठे तदागमारूढगुरुप्रहर्षः।’ (रघुवंशे ५-६१।]]
86 [[६। ‘भविष्यति गम्यादयः’ (३-३-३) इति भविष्यदर्थे णिनिः। युगागमः। ‘गमी गामी तथाऽऽगामी प्रयायिप्रतियायिनौ। प्रबोधी प्रतिबोधी च भावी प्रस्थाय्यमी नव।।’ इति प्रक्रियासर्वस्वम्।]]
87 [चैत्रो गुरोः]
88 [[७। ‘भव्यगेयप्रवचनीयोपस्थानीयजन्याप्लाव्यापात्या वा’ (३-४-६८) इत्यनीयरन्तो विकल्पेन निपातितः। पक्षे भावकर्मणोरनीयर्। उपस्थानीयः = उपस्थानकर्ता, उपस्थानकर्मभूतश्च।]]
89 [[E। ‘अभिचैद्यं प्रतिष्ठासुरासीत् कार्यद्वयाकुलः।।’ शिशुपालवधे २-१।]]
90 [[८। ‘यङोऽचि च’ (२-४-७४) इति यङो लुकि, संयोगपूर्वकत्वात् ‘अचि श्नुधातु--’ (६-४-७७) इतीयङादेशः।]]
91 [[९। तिष्ठन्त्यस्मिन् इत्यधिकरणे ‘कृत्यल्युटो बहुलम्’ (३-३-११३) इति बाहुलकात् अनीयर्। स्थानीयम् = नगरम्।]]
92 [[१०। ‘ईद्यति’ (७-४-६५) इतीत्वे गुणः। स्थेयः = विवादपदनिर्णेता। ‘प्रकाशन- स्थेयाख्ययोश्च’ (१-३-२३) इति सूत्रे निपातनात् बाहुलकात् अधिकरणे यत्।]]
93 [पृष्ठम्१३६१+ २७]
94 [[१। ‘आतो युच्’ (३-३-१२८) इति युच्। अङपवादः।]]
95 [[आ। ‘के यूयं दुरुपस्थाने मनसाऽप्यद्रिमूर्धनि।।’ भ। का। ७-८५।]]
96 [[२। यकि ‘घुमास्था--’ (६-४-६६) इति ईत्वम्।]]
97 [[३। ‘घञर्थे कविधानम्--स्थास्नापाहनिव्यधियुग्यर्थम्’ (वा। ३-३-५८) इति कः। ‘आतो लोप इटि च’ (६-४-६४) इत्याकारलोपः। प्रतिष्ठतेऽस्मिन् इति प्रस्थः = सानुः। माहिकप्रस्थः-इन्द्रप्रस्थः-मालाप्रस्थः--एते देशविशेषाः।]]
98 [[४। ‘स्थागापाचो भावे’ (३-३-९५) इति अङपवादः क्तिन्। ‘द्यतिस्यतिमास्था- मित् ति किति’ (७-४-४०) इति इत्वम्।]]
99 [[५। बाहुलकात्, ‘--व्यवस्थायामसंज्ञायाम्’ (१-१-६४) इति निर्देशात् वा अङपि ‘एवं यत्रापवादेषु सङ्करो दृश्यते क्तिनः। तत् सर्वं बहुलोक्त्यैव साधितं माधवादिभिः।।’ इति प्रक्रियासर्वस्वे। [साधुः।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
