| YouTube Channel

स्थालीपाक (sthAlIpAka)

 
शब्दसागरः
English
स्थालीपाक
m.
(-कः)
1. A particular religious act performed by a house-
holder.
2. Rice, &c., boiled for presentation to gods and manes:
see चरु for the last sense.
Capeller Eng
English
स्थालीपाक॑
m.
a kind of cooked offering.
Monier Williams Cologne
English
स्थाली—पाक॑ (or स्था॑ली-प्°)
m.
a dish of barley or rice boiled in milk (used as an oblation),
ŚBr.
GṛŚrS.
MBh.
&c.
स्थाली—पाक॑
mfn.
(= °कीय),
Cat.
Apte Hindi
Hindi
स्थालीपाकः
पुं*
स्थाली-पाकः -
एक धार्मिक कृत्य जिसका अनुष्ठान गृहस्थ करते है
L R Vaidya
English
sTAlI-pAka {% m. %} a particular religious act performed by a house-holder.
Aufrecht Catalogus Catalogorum
English
स्थालीपाक gṛhya. Oppert II, 6975.
--Āpast. B. 1, 152.
--Āśval. Oppert 6498.
स्थालीपाक gṛhya. Gov. Or. Libr. Madras 111. Stein 22.
शब्दकल्पद्रुमः
Sanskrit
स्थालीपाकः, त्रि, (स्थाल्यां पाको यस्य ।) भाजन-पक्वान्नादिः यथा, चातुर्म्मास्यव्रते मात्स्ये ।“लभते सन्ततिं दीर्घां स्थालीपाकमभक्षयन्
”इति तिथ्यादितत्त्वम्
(स्थाल्यां पच्यते इति पच् + घञ् स्थाली-कृतपाकविशेषे, चरुविशेषे पुं यथा, महाभारते २३२ ३२ ।“ये धर्म्माः कुटुम्बेषु श्वश्र्वा मे कथिताः पुरा ।भिक्षाबलिश्राद्धमिति स्थालीपाकाश्च पर्व्वसु
मान्यानां मांनसत्कारा ये चान्ये विदिता ममतान् सर्व्वाननुवर्त्तामि दिवारात्रमतन्द्रिता
”)मांसाष्टकाश्राद्धे स्थालीपाकस्य मांसप्रति-निधित्वं यथा, “पश्वभावे स्थालीपाकेन यथागोभिलः ‘अपि वा स्थालीपाकं कुर्व्वीतइति ।’ तद्विधानन्तु ।“स्थालीपाकं पशुस्थाने कुर्य्याद्यद्यानुकल्पिकम्श्रपयेत्तं सवत्सायास्तरुण्या गोः पयस्यनु
”इति छन्दोगपरिशिष्टोक्तं ग्राह्यम् अन्वितिओदनचरोः पश्चात् ।” इति तिथ्यादितत्त्वम्
(वैद्यकोक्तस्थालीपाकविधिर्यथा, --अथ स्थालीपाकविधिः ।“इत्थमादित्यपाकान्ते स्थाल्यां पाकमुपाचरेत् ।स्थालीपाके फलग्राह्यमयसस्त्रिगुणीकृतम्
तस्य षोडशिकं तोयमष्टभागावशेषितम् ।मृदुमध्यकठोराणामन्येषामयसा समम्
क्वथनीयं समादाय चतुरष्टौ षोडश ।गुणानां स्थाप्यते तोयं शेषयेदयसा समम्
स्वरसस्यापि लौहेन स्थालीपाके समानता ।स्थाल्यां क्वाथादिकं दत्त्वा यथाविधिविनिर्म्मितम्पाकेन क्षीयते यस्मात् स्थालीपाक इति स्मृतःहस्तिकर्णपलाशस्य मूलञ्च शतमूलिका
भृङ्गराजाख्यराजानामेषां निजरसैः सह ।मिलित्वा वा विधातव्यं स्थालीपाके फलादनु ।यथा दोषौषधेनापि स्थालीपाको विधीयते
”इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणाधि-कारे
)
वाचस्पत्यम्
Sanskrit
स्थालीपाक
पु०
स्थाल्यां पाकः गव्यदुग्धेन स्थाल्यां कृते१ पाकभेदे स्थाल्यां पच्यतेऽसौ पच--कर्मणि घञ्२ चरौ तत्पाकप्रकारः चरुशब्दे दिङमात्रमुक्तः गोभि-लोक्तप्रकारः सं० त० दर्शितो यथातत्र गोभिलः “अथोदूखलमुषले प्रक्षाल्य सूर्पञ्च पश्चा-दग्नेः प्रागग्रान् कुशानास्तीर्य्य उपसादयुति अथहविर्निर्वपेदिति ब्रीहीन् यवान् वा कांस्येन चरु-स्थाल्या वा अमुष्मै त्वा युष्टं निर्वपामीति देवतानामो-द्देशः सकृद्यजुषा द्विस्तूष्णीम् अथ पश्चादवहन्तुमुपक्रमतेदक्षिणोत्तराभ्यां पाणिभ्यां त्रिःफलीकृतांस्तण्डुलांस्त्रिर्देवताभ्यः प्रक्षालयेत् द्विर्मनुष्येभ्यः सकृत पितृभ्यइति “पवित्रान्तर्हितांस्तण्डुलानावपेत् कुशलशृतमिवस्थालीपाकं स्थापयेत् प्रदक्षिणमुदायुवन् शृतमभिघार्य्यउष्टगुद्वास्य प्रत्यभिघारयेदिति” सू० अस्यार्थः उपसादयतिस्थापयति देवतानामोद्देशं देवतानामोच्चारणं यथास्यात्तथा अमुष्मै त्वा जुष्ट निर्वपामीत्यनेन उदूखलोपरिव्रीह्यादीन् कांस्यादिना सकृन्निर्वपेत् अत्रामुष्मा इत्यत्रचतुर्थ्यन्तनामोच्चारणम् अतएव कात्यायनः “असा-विति नाम गृह्नाति” नारायणीयेऽपि “अदः पदंहि यद्रूपं यत्र मन्त्रे हि दृश्यते साध्याभिधानतद्रूपं तत्र स्थाने नियोजयेत्” अतोऽदः पद एवनामोहो नतु विरूपाक्षजपादाविदमित्यादौ एवञ्चा-ग्नये त्वा जुष्टं निर्वपामीति सामगानाम् यजुःप्रयोगोगोभिले निर्वापमात्रश्रुतेः यजुर्वेदिकसमन्त्रकग्रहणप्रोक्षणेसामगेन कार्य्ये यजुःपरिभाषामाह जैलिनिः “शेषेयजुःशब्दः इति शेषे मन्त्रभिन्ने मन्त्रजाते ततश्च य-न्मन्त्रजातं प्रश्लिष्टपठितं गानपादभेदरहित तद्यजुरिति ।बहुदैवत्ये बहुदेवतानामभिः प्रत्येकं निर्वापः ।अन्ननिर्वापो मन्त्रेणैव होमोऽपि पृथक् निर्वापपरि-माणन्तु होमसंख्याविशेषस्थित्यनुसारेणेत्याह छन्दोगपरि-शिष्टम् “देवतासंख्ययागृह्य निर्वापांश्च पृथक् कृथक् ।तूष्णीं द्विरेव गृह्णीयाद्धोमश्चापि पृथक् पृथक् यावताहोमनिर्वृत्तिर्भवेद् वा यत्र कीर्त्तिता शेषञ्चैव भवेत्किञ्चित्तावन्तं निर्वपेच्चरुम्” यद्यपि देवतासंख्ययेतिवचनं चरुसमशनीययोः इत्युपक्रम्य पठितं तथाप्या-ङ्क्षायालाघवेन चरुसामान्यपरमिति चरुविधौ तुविद्याकरवाजपेयी “यत्र प्रयोजनामावनिश्चयस्तत्रैवतदुपादानादिलोपः यत्रानुष्ठानवेलायामेव पुरुषदोषेणप्रयोजनाभावो ज्ञायते तदा प्राक् तन्निश्चयात् शास्त्र-प्रापितः पदार्थो नियमापूर्वमात्रार्थमनुष्ठेय” इति अतएवयदा त्वालस्यादिना व्रीह्यादिस्थाने तण्डुला गृहीताःतदापि अवघातादि समाचारन्ति याज्ञिकाः पठन्ति ।“घाते न्यूने तथा छिन्ने सान्नाय्ये मान्त्रिके तथा यज्ञेमन्त्राः प्रयोक्तव्यामन्त्रायज्ञार्थसाधकाः” मान्त्रिके मन्त्र-साध्ये अवघातादौ न्यूने तत्काले मन्त्रपाठाभावेऽपियज्ञकाले मन्त्राः पाठ्याः अस्मिंस्तु मन्त्रार्थज्ञानस्य्नास्त्युपयोगः चरुस्थालीयपरिमाणमाह छन्दोगपरि-शिष्टम् “तिर्य्यगूर्द्ध्वसमिन्मात्रा दृढा नातिवृहन्मुखी ।मृण्मय्यौडुम्बरी वापि चरुस्थाली प्रशस्यते” गर्भप्रस्तारदीर्घाभ्यां प्रादेशप्रमाणा चरुस्थाली औडुम्बरी ताम्रमतीएषा पायसचरावपि निषिद्धा “पयोनुद्धृतसारञ्च ताम्र-पात्रे दुष्यति” स्मृतिसागरधृतवचनाच्च अतएव शार-दातिलके “ततश्च संस्कृते वह्नौ गोक्षीरेण चरुं पचेत् ।मन्त्रेण क्षालिते पात्रे नवे ताम्रमयादिके” दक्षिणो-त्तराभ्यामिति दक्षिण उत्तर उपरि ययोः पाण्यो-स्ताभ्यां मुपलं गृहीत्वा इति शेष त्रि फलीकृतान्त्रिधा वितुषीकृतान् कण्डनप्रस्फोटनाभ्यामिति शेषः ।पवित्रान्तर्हितान् पवित्रम् अन्तार्हतं व्यवहितं येषां तान् ।तेन चरुस्थाल्यामुत्तराग्रं पवित्रं निःक्षिप्य तण्डुलान्निक्षिपेत् कुशलशृतमिवेति कुशलेन पाकनिपुणेन शृतंयथा दग्धं नातिक्लिन्नं मन्दपक्वं यथा स्यात्तथास्थालीपाकं श्रपयेत् अतएव छन्दोगपरिशिष्टम् ।“स्वंशाखोक्त्या चरुः स्विन्नोह्यदग्धोऽकठिनः शुभः ।न चातिशिथिलः पाको वीतरसो भवेत्” ।वीतरसोगालितमण्डः प्रदक्षिणमुदायुवान्नति प्रद-क्षिणावर्त्तं यथा स्यात्तथा मेक्षणेन ऊर्द्ध्वमीषन्मिश्रयन् ।यु मिश्रणे इत्यस्य रूपमेतत् शृतमित्यभिघार्य्येतिस्फुटितम् चरुमाज्यस्रवेणाप्लाव्य उदगग्नेरुत्तरस्याम्उत्तार्य्य प्रत्यभिघारयेत् पुनर्घृतेन तथा सेचयेत् वृषोत्-सर्गे तु अभिघारणद्वयात् पूर्वं ज्वलदङ्गारेण विद्योतन-द्वयमाह छन्दोगपरिशिष्टम् “अधिशृतमवद्योत्य सुशृत-ञ्चाभिघारयेत् घृतेन सेचयेत् पश्चात् पुनरेवाभिथार-येत्” मेक्षणादीन्याह छन्दोगपरिशिष्टम् “इध्मजातीयमिध्मार्द्धपमाणं मेक्षणं भवेत् वृत्तं वार्क्षञ्चपृथ्वग्रमवदानक्रियाक्षमम्” इध्मार्द्धप्रमाणं प्रादेशद्वय-मिध्मस्य प्रमाणं परिकल्पितमिति तदर्द्धम् एषैव दर्वीविशेषस्तु महास्रुवे “दर्वीद्व्यङ्गुलपृथ्वग्रा तुरीयेणतु मेक्षणम् मुषलोदूखले वार्क्षे स्वायते सुदृढे तथा ।इच्छाप्रमाणे भवतः सूर्पं वैणवमेव च” अत्र तिर्य्य-गूर्द्ध्वेत्यादि वैणवमेब चेत्यन्तेन चर्वङ्गमभिधाय भूमिजप-परिममूहनहस्तविन्यासं कुर्य्यादित्युक्तम्” ।स्थाल्यां पाकपात्रे पाकः पच्यमानः पाकभाजने पच्य-माने चातुर्षाव्यादौ तत्त्यागे फलं ति० त० दर्शितं“लभते सन्तति दीर्घां स्थालीपाकमभक्षयन्”
Capeller
German
स्थालीपाक॑
m.
Topßpeise (r.).