| YouTube Channel

स्थायुकः (sthAyukaH)

 
Apte Hindi
Hindi
स्थायुकः
पुं*
- "स्था + उकञ्, युक्"
गाँव का मुखिया या अधीक्षक
शब्दकल्पद्रुमः
Sanskrit
स्थायुकः,
पुं,
(स्थातुं शीलमस्य स्था + “लस-पतपदेति ।” १५४ इति उकञ् ।) एक-ग्रामाधिकृतः एकस्मिन् ग्रामे नियोजितः इत्य-मरः
(स्थितिशीले, त्रि यथा, भट्टिः २२ ।“आयोधने स्थायुकमस्त्रजात-ममोघमभ्यंर्णमहाहवाय ।ददौ वधाय क्षणदाचराणांतस्मै मुनिः श्रेयसि जागरूकः
”)
कृदन्तरूपमाला
Sanskrit
1 {@“ष्ठा गतिनिवृत्तौ”@} 2 3 स्थायकः-यिका, 4 स्थापकः-पिका, 5 तिष्ठासकः-सिका, 6 तेष्ठीयकः-यिका
7 स्थाता-त्री, 8 उत्थाता, 9 10 अधिष्ठाता-त्री, स्थापयिता-त्री, तिष्ठासिता-त्री, तेष्ठीयिता-त्री
11 तिष्ठन्- 12 अधितिष्ठन् 13-न्ती, 14 15 उत्तिष्ठत्, 16 17 उत्तिष्ठन्, 18 19 उपतिष्ठन्ती, 20 21 उपतिष्ठन्, स्थापयन्-न्ती, तिष्ठासन्-न्ती
-- स्थास्यन्- 22 अधिष्ठास्यन्-न्ती-ती, स्थापयिष्यन्-न्ती-ती, तिष्ठासिष्यन्-न्ती-ती
-- 23 सन्तिष्ठमानः-अवतिष्ठमानः-प्रतिष्ठमानः- 24 वितिष्ठमानः, 25 26 आतिष्ठ- मानः, 27 28 तिष्ठमाना, 29 30 तिष्ठमानः, 31 32 33 उत्तिष्ठमानः, 34 35 उपतिष्ठमानः, 36 37 उपतिष्ठमानः, 38 उपतिष्ठमाना, 39 उपतिष्ठमानः, 40 उपतिष्ठमानः, 41 42 उपतिष्ठमानः, 43 44 उपतिष्ठमानः, स्थापयमानः, 45 सन्तिष्ठासमानः-अवतिष्ठासमानः, 46, तेष्ठीयमानः
47 संस्थास्यमानः-अवस्थास्यमानः- 48 प्रस्थास्यमानः-विष्ठास्यमानः, स्थापयिष्यमाणः, सन्तिष्ठासिष्यमाणः, तेष्ठीयिष्यमाणः, 49
50 संस्थाः-संस्थौ-संस्थाः, 51 सव्येष्ठाः
-- -- 52 उपस्थितः- 53 स्थितम्-स्थितवान्, 54 समुत्थितवती, स्थापितः, तिष्ठासितः, तेष्ठीयितः-तवान्
-- -- -- 55 56 स्थायी, 57 दुःस्थः, 58 ककुत्स्थः, 59 तपस्स्थः 60 , प्रस्थः- 61 प्रष्ठः, 62 63 समस्थः- विषमस्थः, 64पद्वित्रिकुशेकुशङ्क्वङ्गुमञ्जिपुञ्जिपरमेबर्हिर्दिव्यग्निभ्यः स्थः’ 65 इति षत्वम्।
एवं अग्निष्ठः इति पर्यन्तं षत्वमनेन सूत्रेण ज्ञेयम्।
अम्बेव तिष्ठतीत्यम्बष्ठः।
‘ङ्यापोः संज्ञाच्छन्दसोर्बहुलम्’ 66 इति पूर्वपदस्य ह्रस्वः।
रूढशब्दश्चायम्
अतो नावयवार्थेऽभिनिवेशः कर्तव्यः।
अम्बायां = 67 तिष्ठतीति न्यासे व्युदपादि।]] अम्बष्ठः-आम्बष्ठः- 68 गोष्ठः- 69 भूमिष्ठः- 70 सव्येष्ठः- 71 अपष्ठः-द्विष्ठः-त्रिष्ठः- कुशोष्ठः-कुष्ठः-शङ्कुष्ठः-अङ्गुष्ठः-मञ्जिष्ठः-पुञ्जिष्ठः-परमेष्ठः-बर्हिःष्ठः- 72 दिविष्ठः- अग्निष्ठः, 73 आखूत्थः-शलभोत्थः, 74 अश्वत्थामा, 75 शंस्थः, शंस्थाः, 76 77 चिरस्थायी, 78 स्थास्नुः, 79 80 स्थायुकः, 81 82 स्थावरः, 83 84 तस्थिवान्, 85 86 प्रस्थायी, 87 88 उपस्थानीयः, स्थापः, 89 प्रतिष्ठासुः, तिष्ठापयिषुः, 90 तेष्ठियः
स्थातव्यम्, स्थापयितव्यम्, तिष्ठासितव्यम्, तेष्ठीयितव्यम्
91 स्थानीयम्, स्थापनीयम्, तिष्ठासनीयम्, तेष्ठीयनीयम्
92 स्थेयः, स्थेयम्, स्थाप्यम्, तिष्ठास्यम्, तेष्ठीय्यम्
93 94 ईषत्स्थानः-दुःस्थानः- 95 दुरुपस्थानः-सुस्थानः
-- -- 96 उपस्थीयमानः, स्थाप्यमानः, तिष्ठास्यमानः, तेष्ठीय्यमानः
97 प्रस्थः, माहिकप्रस्थः-इन्द्रप्रस्थः-मालाप्रस्थः, स्थापः, तिष्ठासः, तेष्ठीयः
स्थातुम्-उत्थातुम्, स्थापयितुम्, तिष्ठासितुम्, तेष्ठीयितुम्
98 प्रस्थितिः, 99] संस्था-आस्था- 100 अन्यदास्था-अन्यास्था, व्यवस्था, स्थापना, तिष्ठासा, तिष्ठापयिषा, तेष्ठीया
स्थानम्, उत्थानम्, अधिष्ठानम्, 101 भीरुष्ठानम्, स्थापनम्, तिष्ठासनम्, तेष्ठीयनम्
स्थित्वा, स्थापयित्वा, तिष्ठासित्वा, तेष्ठीयित्वा
102 प्रस्थाय-उत्थाय, प्रस्थाप्य, उपतिष्ठास्य, प्रतेष्ठीय्य
103 शय्योत्थायं 104 105, 106 107 स्थायम् स्थित्वा स्थापम् स्थापयित्वा तिष्ठासम् तिष्ठासित्वा तेष्ठीयम्
तेष्ठीयित्वा
108 स्थाणुः, 109 स्थूणा, 110 स्थविरः, 111 स्थिरम्- 112 गविष्ठिरः- 113 युधिष्ठिरः, 114 स्थाली, 115 स्थूरः, 116 परमेष्ठी।
प्रासङ्गिक्यः
01
=>
(१८७६)
02
=>
(१-भ्वादिः-९२८। अक। अनि। पर।)
03
=>
[[७। ‘घात्वादेः षः सः’ (६-१-६४) इति सकारादेशः सर्वत्र। ‘आतो युक् चिण्कृतोः’ (७-३-३३) इति युगागमः। एवं णिनिप्रत्यये, णमुल्यपि ज्ञेयम्।]]
04
=>
[[८। ‘अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुग् णौ’ (७-३-३६) इत्यङ्गस्य पुगागमः। एवं ण्यन्ते सर्वत्र पुगागमो बोध्यः।]]
05
=>
[[९। धातोरनुदात्तत्वात् सन इण्निषेधे, द्वित्वे, अभ्यासे, ‘शर्पूर्वाः खयः’ (७-४-६१) इति खयः शेषः। अभ्यासस्य, ‘सन्यतः’ (७-४-७९) इतीत्वम्। ‘आदेशप्रत्य- ययोः’ (८-३-५१) इत्युत्तरखण्डे षत्वम्। ष्टुत्वम्। एवं सन्नन्ते सर्वत्र बोध्यम्।]]
06
=>
[[१०। ‘घुमास्थागापाजहातिसां हलि’ (६-४-६६) इति ईत्वे, द्वित्वे, अभ्यासस्य गुणः। एवं यङन्ते सर्वत्र ज्ञेयम्।]]
07
=>
[पृष्ठम्१३५७+ ३१]
08
=>
[[१। ‘उदः स्थास्तम्भ्वोः पूर्वस्य’ (८-४-६१) इति सकारस्य पूर्वसवर्णः थकारो भवति। तस्य ‘झरो झरि सवर्णे’ (८-४-६५) इति पाक्षिको लोपः। लोपाभावपक्षे थकारस्यैव श्रवणम्, तु ‘खरि च’ (८-४-५५) इति चर्त्वम्। पूर्वसवर्णस्यासिद्ध- त्वात्।]]
09
=>
[वैकुण्ठस्य]
10
=>
[[२। अधिपूर्वकस्य स्थाधातोः प्रयोगे, ‘अधिशीङ्स्थाऽऽसां कर्म’ (१-४-४६) इति कर्मसंज्ञायाम्, ‘कर्तृकर्मणोः कृति’ (२-३-६५) इति षष्ठी। ‘उपसर्गात् सुनोति- सुवतिस्यतिस्तौतिस्तोभतिस्था--’ (८-३-६५) इति षत्वम्।]]
100
=>
[[६। अन्या सा आस्था अन्यदास्था। ‘अषष्ठ्यतृतीयास्थस्यान्यस्य दुग् आशीराशास्थास्थितोत्सुकोतिकारकारागच्छेषु’ (६-३-९९) इति दुगागमः।]]
101
=>
[[७। समासे ‘भीरोः स्थानम्’ (८-३-८१) इति षत्वम्।]]
102
=>
[[८। ‘न ल्यपि’ (६-४-६९) इति ईत्वनिषेधः। माधवीये तु ‘अन्तरङ्गानपि विधीन् बहिरङ्गो ल्यब् बाधते’ (परि। ५५) इति न्यायसञ्चारेण ईत्वं वारितम्। तत् सम्पा- तायातम्
\n\n यतः ‘न ल्यपि’ (६-४-६९) इति निषेधो जागर्ति।]]
103
=>
[[९। ‘अपादाने परीप्सायाम्’ (३-४-५२) इति णमुल्। परीप्सा = त्वरा। ‘एवं नाम त्वरते, यदवश्यं कर्तव्यमपि नापेक्षते, शय्योत्थानमात्रमाद्रियते।’ इति काशिका (३-४-५२)।]]
104
=>
[[B। ‘गोत्रे साक्षादजनि भगवानेष यत् पद्मयोनिः शय्योत्थायं यदखिलमहः प्रीणयन्ति द्विरेफान्।’ अनर्घराघवे ७-७८।]]
105
=>
[धावति]
106
=>
[पृष्ठम्१३६२+ २४]
107
=>
[[आ। ‘स्थायं स्थायं क्वचिद् यान्तं क्रान्त्वा क्रान्त्वा स्थितं क्वचित्।’ भ। का। ५-५१।]]
108
=>
[[१। ‘स्थो णुः’ (द। उ। १-१४७) इति णुप्रत्ययः। तिष्ठतीति स्थाणुः = ईश्वरः, अचलद्रव्यं च।]]
109
=>
[[२। ‘रास्नासास्नास्थूणावीणाः’ (द। उ। ५-४७) इति सूत्रेण धातोरूकारादेशः, नप्रत्ययः, णत्वम्, गुणाभावश्च निपात्यते। स्थूणा = स्तम्भः।]]
11
=>
[[३। ‘पाघ्राध्मास्थाम्नादाण्दृश्यर्तिसर्तिशदसतां पिबजिघ्रधमतिष्ठ--’ (७-३-७८) इति तिष्ठादेशः शिति प्रत्यये परे।]]
110
=>
[[३। ‘अजिरशिशिरशिथिलस्थिरस्फिरस्थविरखदिराः’ (द। उ। ८-२७) इत्यनेन स्थाधातोः किरच्प्रत्ययः, ह्रस्वत्वम्, वुगागमश्च निपात्यते। स्थितो विश्रमात् = इति स्थविरः।]]
111
=>
[[४। ‘अजिरशिशिरशिथिलस्थिर--’ (द। उ। ८-२७) इति किरचि, आकारलोपश्च निपात्यते। तिष्टतीति स्थिरम् = दृढम्।]]
112
=>
[[५। ‘गवियुधिभ्यां स्थिरः’ (८-३-९५) इति षत्वम्।]]
113
=>
[[B। ‘त्रिदण्डकाषायकमण्डलूज्ज्वलो जपस्फुरद्दन्तपुटो युधिष्ठिरः।’ चम्पूभारते ६-६।]]
114
=>
[[६। ‘स्थाचतिमृजेरालवालजालीयरः’ (द। उ। १०-१) इति आलप्रत्ययः। तिष्ठत्योद- नादिकमिति स्थालम् = भाजनविशेषः। स्थाली, गौरादिषु (४-१-४१) पाठात् स्त्रियां ङीष्।]]
115
=>
[[७। ‘स्थश्च’ (द। उ। ८-३५) इति रक्प्रत्यये, ऊकारश्चान्तादेशः। स्थूरः = उच्चः।]]
116
=>
[[८। ‘परमे कित्’ (द। उ। ६-६१) इति स्थाधातोः इनिप्रत्ययः, कित्। कित्त्वादाकारलोपः। ‘तत्पुरुषे कृति बहुलम्’ (६-३-१४) इत्यलुक्। ‘स्था- स्थिन्स्थॄणामिति वक्तव्यम्’ (वा। ८-३-९७) इति षत्वम्।]]
12
=>
[[४। ‘अधिशीङ्स्थाऽऽसां कर्म’ (१-४-४६) इति वैकुण्ठस्य कर्मसंज्ञायां द्वितीया।]]
13
=>
[वैकुण्ठं]
14
=>
[[५। ‘ईहायामेव’ (वा। १-३-२४) इति, ‘उदोऽनूर्ध्वकर्मणि’ (१-३-२४) इत्यत्रोक्तत्वात् शानच्। किन्तु शत्रादेशः। शतस्य विशेष्यत्वात् उत्तिष्ठत् इत्यत्र क्लीबत्वम्।]]
15
=>
[ग्रामात् शतं]
16
=>
[आसनात्]
17
=>
[[६। ‘--अनूर्ध्वकर्मणि’ (१-३-२४) इति निषेधात् अत्र शानच्।]]
18
=>
[[७। ‘उपान्मन्त्रकरणे’ (१-३-२५) इत्यत्र ‘मन्त्रकरणे’ इति विशेषणात् अत्र शानच्।]]
19
=>
[यौवनेन भर्तारं]
20
=>
[याचकः प्रभुं]
21
=>
[[८। ‘वा लिप्सायाम्’ (वा। १-३-२५) इति आत्मनेपदविकल्पात् पक्षे शता।]]
22
=>
[[आ। ‘सङ्ग्रामे तानधिष्ठास्यन् निषद्य पुरतोरणम्।’ भ। का। ९-७२।]]
23
=>
[[९। ‘समवप्रविभ्यः स्थः’ (१-३-२२) इति समादिपूर्वकेषु कमेण शानच्।]]
24
=>
[[B। ‘सहस्रसंख्यैर्गगनं शिरोभिः पादैर्भुवं व्याप्य वितिष्ठमानम्। विलोचनस्थानगतोष्णरश्मिनिशाकरं साधु हिरण्यगर्भम्।।’ शिशुपालवधे ४-४।]]
25
=>
[शब्दं नित्यं]
26
=>
[[१०। ‘आङः प्रतिज्ञायाम्’ (वा। १-३-२२) इति वार्तिकात् शानच्।]]
27
=>
[गोपी कृष्णाय]
28
=>
[[११। ‘प्रकाशनस्थेयाख्ययोश्च’ (१-३-२३) इति प्रकाशने शानच्। स्थित्या स्वाभिप्रायं प्रकाशयन्ती इत्यर्थः। ‘श्लाधह्नुङ्स्थाशपां ज्ञीप्स्यमानः’ (१-४-३४) इति कृष्णशब्दात् चतुर्थी। ‘धातूनामनेकार्थत्वात् प्रकाशनमत्रार्थः’ इति केचित्। ‘स्थानेन स्वाभिप्रायाविष्करणं प्रकाशनम्’ इति पदमञ्जरी (१-४-३४)।]]
29
=>
[धर्माध्यक्षे]
30
=>
[[१२। ‘प्रकाशनस्थेयाख्ययोश्च’ (१-३-२३) इत्यनेन स्थेयाख्यायां शानच्। स्थेयः = विवादपदनिर्णेता। धर्माध्यक्षं निर्णेतृत्वेनोपसर्पतीत्यर्थः।]]
31
=>
[मुक्तौ]
32
=>
[पृष्ठम्१३५८+ २९]
33
=>
[[१। ‘उदोऽनूर्ध्वकर्मणि’ (१-३-२४) इति शानच्।]]
34
=>
[ऐन्द्र्या गार्हपत्यं]
35
=>
[[२। ‘उपान्मन्त्रकरणे’ (१-३-२५) इति शानच्।]]
36
=>
[आदित्यं]
37
=>
[[३। ‘उपाद् देवपूजासङ्गतिकरणमित्रकरणपथिषु’ (वा। १-३-२५) इत्यनेन क्रमेण चतुर्ष्वर्थेषु गम्यमानेषु शानच् भवति। आदित्यमुपतिष्ठमानः = स्तुवन् इत्यर्थः। गङ्गा यमुनामुपतिष्ठमाना = उपश्लिष्यमाणा इत्यर्थः। रथिकान् उपतिष्ठमानः = मित्रीकरोति इत्यर्थः। पन्थाः स्रुघ्रमुपतिष्ठमानः = प्राप्नोतीत्यर्थः।]]
38
=>
[गङ्गा यमुनां]
39
=>
[रथिकान्]
40
=>
[पन्थाः स्रुघ्नं]
41
=>
[याचकः प्रभुं]
42
=>
[[४। ‘वा लिप्सायाम्’ (वा। १-३-२५) इत्यात्मनेपदविकल्पः।]]
43
=>
[यावद्भुक्तं]
44
=>
[[५। ‘अकर्मकाच्च’ (१-३-२६) इति शानच्। भोजने भोजने उपतिष्ठत इत्यर्थः।]]
45
=>
[[६। ‘पूर्ववत् सनः’ (१-३-६२) इत्यात्मनेपदम्। एवं आत्मनेपदनिमित्तविषये सर्वत्र सन्नन्ताच्छानच् बोध्यः।]]
46
=>
[इत्यादीनि]
47
=>
[[७। आत्मनेपदनिमित्तेषु सत्सु लृडादेशः। शानच् सर्वत्र बोध्यः।]]
48
=>
[[आ। ‘प्रस्थास्यमानावुपसेदुषस्तौ शोशुच्यमानानिदमूचतुस्तान्’ भ। का। ३-१२।]]
49
=>
[इत्यादीनि]
50
=>
[[८। क्विपि, ‘घुमास्थागापा--’ (६-४-६६) इतीत्वं भाष्यकारप्रयोगात् न। नच प्रत्यय- लक्षणाभावः शङ्क्यः
\n\n तस्य निषेधस्य वर्णप्राधान्यविषयत्वात्। अत्र प्रत्यय- प्राधान्यात्।]]
51
=>
[[९। ‘स्थास्थिन्स्थॄणामिति वक्तव्यम्’ (वा। ८-३-९७) इति षत्वम्। अत्र वार्तिके ‘स्था’ इति औणादिकस्य ऋन्नन्तस्य ग्रहणमिति न्यासकारः। तच्च ‘स्थॄणाम्’ इत्यनेन पुनरुक्तत्वात्, हर्म्येष्ठाः, रथेष्ठाः, इति प्रयोगविरोधाच्च न--इति प्रदीपाद्यनुसारेण माधवीये साधितम्।]]
52
=>
[[१०। ‘गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवस--’ (३-४-७२) इति कर्तरि क्तप्रत्ययः। ‘द्यतिस्यतिमास्थामित् ति किति’ (७-४-४०) इति इत्वम्।]]
53
=>
[[B। ‘आशितम्भवमुत्क्रुष्टं वल्गितं शयितं स्थितम्। बह्वमन्यत काकुत्स्थः कपीनां स्वेच्छया कृतम्।।’ भ। का। ६। १०७।]]
54
=>
[[C। ‘भूयः समुत्थितवती धृतपुण्डरीका भोगाय सागरगृहाद् भुवनैकयूनः।।’ यादवाभ्युदये १९-७०।]]
55
=>
[पृष्ठम्१३५९+ ३३]
56
=>
[[१। ग्रह्यादिपाठात् (३-१-१३४) कर्तरि णिनिः। युगागमः।]]
57
=>
[[२। ‘आतश्चोपसर्गे’ (३-१-१३६) इति कर्तरि कप्रत्ययः। ‘आतो लोप इटि च’ (६-४-६४) इत्याकारलोपः।]]
58
=>
[[आ। ‘अबोधि दुःस्थं त्रैलोक्यं दीप्तैरापूरि भानुवत्।।’ भ। का। ६-३२।]]
59
=>
[[३। ‘स्थे भाषायाम्’ (६-३-२०) इति सप्तम्या अलुक्निषेधः। ‘हलदन्तात्--’ (६-३-९) इत्यस्यापवादः।]]
60
=>
[[B। ‘असिस्तव तपःस्थस्य समर्थयते शमम्।।’ किरातार्जुनीयम् ११-१७।]]
61
=>
[[४। कर्तरि कप्रत्यये ‘प्रष्ठोऽग्रगामिनि’ (८-३-९२) इति षत्वं निपात्यते।]]
62
=>
[[C। ‘प्रच्छन्नं मारुतिप्रष्ठः सीतां द्रष्टुं प्लवङ्गमाः।।’ भ। का। ७-५३।]]
63
=>
[[५। ‘सुपि स्थः’ (३-२-४) इति कर्तरि कप्रत्ययः।]]
64
=>
[[६। ‘अम्बाम्बगोभूमिसव्या[व्येऽप]
65
=>
(८-३-९७)
66
=>
(६-३-६३)
67
=>
[मातृत्वप्रयुक्तजातौ]
68
=>
[[७। गावः तिष्ठन्त्यत्रेत्यधिकरणे कप्रत्ययः।]]
69
=>
[[ड्। ‘युवजानिर्धनुष्पाणिर्भूमिष्ठः खविचारिणः।’ भ। का। ५-१३।]]
70
=>
[[८। सूत्रे (८-३-९७) कुशे, सव्ये, परमे, दिवि इति चतुर्षु स्थलेषु निपातनात् सप्तम्या अलुक्।]]
71
=>
[[९। “अपाष्ठः इति क्वचिद् दृश्यते। तदानीं ‘अन्येषामपि--’ (६-३-१३७) इति पूर्वपदस्य दीर्घः--इति न्यासे” इति माधवधातुवृत्तौ।]]
72
=>
[[E। ‘सर्वनारीगुणैः प्रष्ठां विष्टरस्थां गविष्ठिराम्। शयानां कुष्ठले तारां दिविष्ठामिव निर्मलाम्।।’ भ। का। ९-८४।]]
73
=>
[[१०। आदन्तत्वादेव कप्रत्यये सिद्धे पुनः, ‘सुपि स्थः’ (३-२-४) इति सूत्रारम्भसामर्थ्यात् भावेऽपि कप्रत्ययो भवति। आखूनामुत्थानम् = आखूत्थः। पृषोदरादित्वात् सकारस्य थकारः।]]
74
=>
[[११। ‘अन्येभ्योऽपि दृश्यन्ते’ (३-२-७५) इति मनिन्प्रत्ययः। पृषोदरादित्वात् आदेः सकारस्य थकारादेशः। अश्वस्येव स्थाम = बलं यस्थ, सोऽश्वत्थामा। उपपदसमासे स्वभावात् इवार्थो लभ्यते।]]
75
=>
[[१२। ‘स्थः च’ (३-२-७७) कर्तरि कः। चकारात् क्विबपि। ‘शमि धातोः संज्ञायाम्’ (३-२-१४) इत्यचोऽपवादः।]]
76
=>
[पृष्ठम्१३६०+ २८]
77
=>
[[१। ‘सुप्यजातौ णिनिस्ताच्छील्ये’ (३-२-७८) इति णिनिः। युगागमः।]]
78
=>
[[२। ‘ग्लाजिस्थश्च ग्स्नुः’ (३-२-१३४) इति ग्स्नुप्रत्ययः ताच्छीलिकः। ‘क्स्नोः गित्त्वान्न स्थ ईकारः किङितोरीत्वशासनात्। गुणाभावस्त्रिषु स्मार्यः, श्र्युकोऽनिट्त्वं गकोरितोः।।’ इति भाष्यम् (३-३-१३९)।]]
79
=>
[[आ। ‘स्थास्नुं रणे स्मेरमुखो जगाद मारीचमुच्चैर्वचनं महार्थम्।।’ भ। का। २-३२।]]
80
=>
[[३। ‘लषपतपदस्थाभूवृषहनकमगमशॄभ्य उकञ्’ (३-२-१५४) इति तच्छीलादिषु कर्तृषु उकञ् प्रत्ययः। युगागमः।]]
81
=>
[[B। ‘अतीते वर्षुके काले प्रमत्तः स्थायुको गृहे।।’ भ। का। ७-१८।]]
82
=>
[[४। ‘स्थेशभासपिसकसो वरच्’ (३-२-१७५) इति ताच्छीलिको वरच्प्रत्ययः।]]
83
=>
[[C। ‘शरीरिणां स्थावरजङ्गमानां सुखाय तज्जन्मदिनं बभूव।।’ कुमारसम्भवे १-२३।]]
84
=>
[[५। ‘छान्दसा अपि क्वचिद्भाषायाम्’ इति न्यायेन लिटः क्वसुः। द्वित्वे, आकार- लोपे, ‘नेड् वशि कृति’ (७-२-८) इतीण्निषेधे प्राप्ते, ‘वस्वेकाजाद्धसाम्’ (७-२-६७) इतीट्।]]
85
=>
[[ड्। ‘तं तस्थिवांसं नगरोपकण्ठे तदागमारूढगुरुप्रहर्षः।’ (रघुवंशे ५-६१।]]
86
=>
[[६। ‘भविष्यति गम्यादयः’ (३-३-३) इति भविष्यदर्थे णिनिः। युगागमः। ‘गमी गामी तथाऽऽगामी प्रयायिप्रतियायिनौ। प्रबोधी प्रतिबोधी भावी प्रस्थाय्यमी नव।।’ इति प्रक्रियासर्वस्वम्।]]
87
=>
[चैत्रो गुरोः]
88
=>
[[७। ‘भव्यगेयप्रवचनीयोपस्थानीयजन्याप्लाव्यापात्या वा’ (३-४-६८) इत्यनीयरन्तो विकल्पेन निपातितः। पक्षे भावकर्मणोरनीयर्। उपस्थानीयः = उपस्थानकर्ता, उपस्थानकर्मभूतश्च।]]
89
=>
[[E। ‘अभिचैद्यं प्रतिष्ठासुरासीत् कार्यद्वयाकुलः।।’ शिशुपालवधे २-१।]]
90
=>
[[८। ‘यङोऽचि च’ (२-४-७४) इति यङो लुकि, संयोगपूर्वकत्वात् ‘अचि श्नुधातु--’ (६-४-७७) इतीयङादेशः।]]
91
=>
[[९। तिष्ठन्त्यस्मिन् इत्यधिकरणे ‘कृत्यल्युटो बहुलम्’ (३-३-११३) इति बाहुलकात् अनीयर्। स्थानीयम् = नगरम्।]]
92
=>
[[१०। ‘ईद्यति’ (७-४-६५) इतीत्वे गुणः। स्थेयः = विवादपदनिर्णेता। ‘प्रकाशन- स्थेयाख्ययोश्च’ (१-३-२३) इति सूत्रे निपातनात् बाहुलकात् अधिकरणे यत्।]]
93
=>
[पृष्ठम्१३६१+ २७]
94
=>
[[१। ‘आतो युच्’ (३-३-१२८) इति युच्। अङपवादः।]]
95
=>
[[आ। ‘के यूयं दुरुपस्थाने मनसाऽप्यद्रिमूर्धनि।।’ भ। का। ७-८५।]]
96
=>
[[२। यकि ‘घुमास्था--’ (६-४-६६) इति ईत्वम्।]]
97
=>
[[३। ‘घञर्थे कविधानम्--स्थास्नापाहनिव्यधियुग्यर्थम्’ (वा। ३-३-५८) इति कः। ‘आतो लोप इटि च’ (६-४-६४) इत्याकारलोपः। प्रतिष्ठतेऽस्मिन् इति प्रस्थः = सानुः। माहिकप्रस्थः-इन्द्रप्रस्थः-मालाप्रस्थः--एते देशविशेषाः।]]
98
=>
[[४। ‘स्थागापाचो भावे’ (३-३-९५) इति अङपवादः क्तिन्। ‘द्यतिस्यतिमास्था- मित् ति किति’ (७-४-४०) इति इत्वम्।]]
99
=>
[[५। बाहुलकात्, ‘--व्यवस्थायामसंज्ञायाम्’ (१-१-६४) इति निर्देशात् वा अङपि ‘एवं यत्रापवादेषु सङ्करो दृश्यते क्तिनः। तत् सर्वं बहुलोक्त्यैव साधितं माधवादिभिः।।’ इति प्रक्रियासर्वस्वे। [साधुः।]]