| YouTube Channel

स्थलपद्मं (sthalapadmaM)

 
शब्दकल्पद्रुमः
Sanskrit
स्थलपद्मं,
क्ली,
(स्थलस्य पद्मम् ।) स्वनामख्यात-पुष्पविशेषः (यथा, भट्टिः ।“विम्बागतैस्तीरवनैः समृद्धिंनिजां विलोक्यापहृतां पयोभिः ।कूलानि सामर्षतयेव तेनुःसरोजलक्ष्मीं स्थलपद्महासैः
”)तत्पर्य्यायः छत्रपत्रम् तमालकम् इतित्रिकाण्डशेषः
तच्चतुर्व्विधं यथा, --“चतुर्था स्थलपद्मानि सेवन्ती गुलदावदी ।नैपाली गुलावश्च वकुलश्च कदम्बकः
”इति रावणकृतार्कप्रकाशः