| YouTube Channel

स्थलकमलं (sthalakamalaM)

 
शब्दकल्पद्रुमः
Sanskrit
स्थलकमलं,
क्ली,
(स्थलस्य कमलम् ।) स्थल-पद्मम् (यथा, गीतगोविन्दे १० ।“स्थलकमलगञ्जनं मम हृदयरञ्जनंजनितरतिरङ्गपरभागम्
”)तत्पर्य्यायः पद्मचारिणी अतिचरा ३व्यथा पद्मा चारटी अस्य गुणाः ।अनुष्णत्वम् कटुत्वंम् तिक्तत्वम् कषायत्वम् ।कफवातमूत्रकृच्छ्राश्मशूलश्वासकासविषापह-त्वम् इति भावप्रकाशः