| YouTube Channel

स्त्रीरोगः (strIrogaH)

 
शब्दकल्पद्रुमः
Sanskrit
स्त्रीरोगः,
पुं,
(स्त्रिया रोगः ।) नारीणामामयः ।तस्य चिकित्सा यथा, --धन्वन्तरिरुवाच ।“स्त्रीरोगादिचिकित्सान्तु वक्ष्ये सुश्रुत तां शृणुयौनिव्यापत्सु भूयिष्ठं शस्यते कर्म्म वातजित्
वचोपकुञ्चिकाजातीकृष्णावृषकसैन्धवम् ।अजमोदा यवक्षारं चित्रकं शर्करान्वितम्
पिष्ट्वालोड्य जलाद्यैश्च खादयेद्घृतभर्ज्जितम् ।योनिपार्श्वार्त्ति हृद्रोगगुल्मार्शोविनिवृत्तये
बदरीपत्रसंलेपात् योनिर्भिन्ना प्रशाम्यति ।लोध्रं तुम्बीफलालेपो योनिदाट्यं करोति
पञ्चपल्लवशट्यकमालतीकुसुमैर्घृतम् ।रविपक्वमसृग्धारा योनिगन्धविनाशनम्
”असृग्धारास्थाने असृग्वाधा इति पाठः ।“सकाञ्जिकं जवापुष्पं प्लुष्टं ज्योतीष्मतीदलम्दूर्व्वापिष्टञ्च संप्राश्य वनिता नार्त्तवं लभेत्
धात्र्यञ्जनाभयाचूर्णं तोयपीतं यदा भवेत् ।”यदा भवेदित्यत्र रजो हरेदिति पाठः ।“सदुग्धा लक्ष्णणा पीता स्याद्वा पुत्त्रदा हृयतौदुग्धस्यार्द्धाढकं चाक्षमश्वगन्धा पुत्त्रदा ।बन्ध्या पुत्त्रं लभेत् पीत्वा घृतेन व्योषकेशरम्
कुशकाशोरुवूकाणां मूलैर्गोक्षुरकस्य ।दुग्धञ्चैव सितायुक्तं गर्भिण्याः शूलनुत्परम्
पाठालाङ्गलिसिंहास्यमयूरकुटजैः पृथक् ।नाभिवस्तिभगालेपात् सुखं नारी प्रसूयते
सूताया हृच्छिरोवस्तिशूलं वै मन्दसंज्ञितम् ।यवक्षारं पिबेत्तत्र मस्तुनोष्णोदकेन वा
कुशमूलीकृतः क्वाथः साज्यः सूतिरुजापहः ।शालितण्डुलचूर्णन्तु सदुग्धं दुग्धकृद्भवेत्
विदारिकुसुमरसं मूलं कार्पासजं तथा ।धात्री स्तन्यविशुद्ध्यथं मुद्गयूषरसायनी
कुष्ठा वचाभया ब्राह्मी मधुरी क्षौद्रसर्पिषी ।वर्णायुःकान्तिजननं लेहं बाले प्रदापयेत्
स्तन्याभावे पयश्छाग्यं गव्यं वा तद्गुणं भवेत्मुस्तशुण्ठीविषा बाला कुटजा चातिसारनुत्
व्योषं मधु मातुलुङ्गं हिक्काच्छर्द्दिनिवारणम् ।कुष्ठेन्द्रयवसिद्धार्थनिशा दूर्व्वा कुष्ठजित्
सप्तच्छदामयनिशाचन्दनैश्चानुलेपनम् ।शङ्खाब्जबीजरुद्राक्षवचालोहादिधारणम्
”इति गारुडे १७६ -- १९