| YouTube Channel

स्त्रीपुन्धर्म (strIpundharma)

 
Yates
English
स्त्री-पुं-धर्म्म (र्म्मः) 1.
m.
Reciprocal
duty of man and wife.
Wilson
English
स्त्रीपुंधर्म्म
m.
(-र्म्मः) Reciprocal duty of husband and wife, or man
and woman.
E.
स्त्री, and पुम् male, धर्म्म law.
शब्दकल्पद्रुमः
Sanskrit
स्त्रीपुंधर्म्मः,
पुं,
(स्त्री पुमांश्च स्त्रीपुंसौ तयो-र्धर्म्मः ।) स्त्रीपुंसयोर्व्यवहारः अष्टा-दशविवादपदान्तर्गतविवादविशेषः यथा, --“स्त्रीपुंधर्म्मो विभागश्च द्यूतमाह्वयमेव ।पदान्यष्टादशैतानि व्यवहारस्थिताविह
”इति मानवे अध्यायः
तद्विवरणं यथा, --“पुरुषस्य स्त्रियाश्चैव धर्म्मे वर्त्मनि तिष्ठतोः ।संयोगे विप्रयोगे धर्म्मान् वक्ष्यामि शाश्वतान्अस्वतन्त्राः स्त्रियः कार्य्याः पुरुषैः स्वैर्दिवानिशम्
विषयेषु सज्जन्त्यः संस्थाप्या आत्मनो वशे
पिता रक्षति कौमारे भर्त्ता रक्षति यौवने ।रक्षन्ति स्थविरे पुत्त्रा स्त्री स्वातन्त्र्यमर्हति
कालेऽदाता पिता वाच्यो वाच्यश्चानुपयन् पतिःमृते भर्त्तरि पुत्त्रस्तु वाच्यो मातुररक्षिता
सूक्ष्मेभ्योऽपि प्रसङ्गेभ्यः स्त्रियो रक्ष्या विशेषतःद्वयोर्हि कुलयोः शोकमावहेयुररक्षिताः
इमं हि सर्व्ववर्णानां पश्यन्तो धर्म्ममुत्तमम् ।यतन्ते रक्षितुं भार्य्यां भर्त्तारो दुर्ब्बला अपि
स्वां प्रसूतिं चरित्रञ्च कुलमात्मानमेव ।स्वञ्च धर्म्मं प्रयत्ने जायां रक्षन् हि रक्षति
पतिर्भार्य्यां संप्रविश्य गर्भो भूत्वेह जायते ।जायायास्तद्धि जायात्वं यदस्यां जायते पुनः
यादृशं भजते हि स्त्री सुतं सूते तथाविधम् ।तस्मात् प्रजाविशुद्ध्यर्थं स्त्रियं रक्षेत् प्रयत्नतः
कश्चित् योषितः शक्तः प्रसह्य परिरक्षितुम् ।एतैरुपाययोगैस्तु शक्यास्ताः परिरक्षितुम्
अर्थस्य संग्रहे चैनां व्यये चैव नियोजयेत् ।शौचे धर्म्मेऽन्नपक्त्याञ्च पारिणाह्यस्य वेक्षणे
अरक्षिता गृहे रुद्धाः पुरुषैराप्तकारिभिः ।आत्मानमात्मना यास्तु रक्षेयुस्ताः सुरक्षिताः
पानं दुर्ज्जनसंसर्गः पत्या विरहोऽटनम् ।स्वप्नोऽन्यगेहवासश्च नारीसंदूषणानि षट्
नैता रूपं परीक्षन्ते नासां वयसि संस्थितिः ।सुरूपं वा विरूपं वा पुमानित्येव भुञ्जते
पौंश्चल्याच्चलचित्ताच्च नैस्नेह्याच्च स्वभावतः ।रक्षिता यत्नतोऽपीह भर्त्तृष्वे ता विकुर्व्वते
एवं स्वभावं ज्ञात्वासां प्रजापतिनिसर्गजम् ।परमं यत्नमातिष्ठेत् पुरुषो रक्षणं प्रति
शय्यासनामलङ्कारं कामं क्रोधमनार्ज्जवम् ।द्रोहभावं कुचर्य्याञ्च स्त्रीभ्यो मनुरकल्पयत्
नास्ति स्त्रीणां क्रिया मन्त्रैरिति धर्म्मो व्यवस्थितःनिरिन्द्रिया ह्यमन्त्राश्च स्त्रियोऽनृतमिति स्थितिःतथा श्रुतयो बह्व्यो निगीता निगमेष्वपि ।स्वालक्षण्यपरीक्षार्थं तासां शृणुत निष्कृतीः
यन्मे माता प्रलुलुभे विचरन्त्यपतिव्रता ।तन्मे रेतः पिता वृक्तामित्यस्यैतन्निदर्शनम्
ध्यायत्यनिष्टं यत्किञ्चित् पाणिग्राहस्य चेतसातस्यैव व्यभिचारस्य निह्रवः सम्यगुच्यते
यादृग्गुणेन भर्त्रा स्त्री संयुज्येत यथाविधि ।तादृग्गुणा सा भवति समुद्रेणेव निम्नगा
अक्षमाला वशिष्ठेन संयुक्ताधमयोनिजा ।शारङ्गी मन्दपालेन जगामाभ्यर्हणीयताम्
एताश्चान्याश्च लोकेऽस्मिन्नपकृष्टप्रसूतयः ।उत्कर्षं योषितः प्राप्ताः स्वैः स्वैर्भर्त्तृगुणैः शुभैः
एषोदिता लोकयात्रा नित्यं स्त्रीपुंसयोः शुभाःप्रेत्येह मुखोदर्कान् प्रजाधर्म्मान्निबोधत
*
प्रजनार्थं महाभागाः पूजार्हा गृहदीप्तयः ।स्त्रियः श्रियश्च गेहेषु विशेषोऽस्ति कश्चन
उत्पादनमपत्यस्य जातस्य परिपालनम् ।प्रत्यहं लोकयात्रायाः प्रत्यक्षं स्त्रीनिबन्धनम्
अपत्यं धर्म्मकार्य्याणि शुश्रूषा रतिरुत्तमा ।दाराधीनस्तथा स्वर्गः पितृणामात्मनश्च
पतिं या नाभिचरति मनोवाग्देहसंयताः ।सा भर्त्तृलोकानाप्नोति सद्भिः साध्वीति चोच्यते
व्यभिचारात्तु भर्त्तुः स्त्री लोके प्राप्नोति निन्द्य-ताम् ।शृगालयोनिञ्चाप्नोति पापरोगैश्च पीड्यते
पुत्त्रं प्रत्युदितं सद्भिः पूर्व्वजैश्च महर्षिभिः ।विश्वजन्यमिमं पुण्यमुपन्यासं निबोधत
भर्त्तुः पुत्त्रं विजानन्ति श्रुतिद्वैधन्तु भर्त्तरि ।आहुरुत्पादकं केचिदपरे क्षेत्रिणं विदुः
क्षेत्रभूता स्मृता नारी बीजभूतः स्मृतः पुमान्क्षेत्रबीजसमायोगात् सम्भवः सर्व्वदेहिनाम्
विशिष्टं कुत्रचिद्बोजं स्त्रीयोनिस्त्वेव कुत्रचित् ।उभयन्तु समं यत्र सा प्रसूतिः प्रशस्यते ।बीजस्य चैव योन्याश्च बीजमुत्कृष्टमुच्यते ।सर्व्वभूतप्रसूतिर्हि बीजलक्षणलक्षिता
यादृशं तूप्यते बीजं क्षेत्रे कालोपपादिते ।तादृग्रोहति तत्तस्मिन् बीजं स्वैर्व्यञ्जितंगुणैः
इयं भूमिर्हि भूतानां शाश्वती योनिरुच्यते ।न योनिगुणान् कांश्चिद्बीजं पुष्यति पुष्टिषु
भूमावप्येककेदारे कालोप्तानि कृषीबलैः ।नानारूपाणि जायन्ते बीजानीह स्वभावतः
ब्राहयः शालयो मुद्गास्तिला माषास्तथा यवाः ।यथाबीजं प्ररोहन्ति लशुनानीक्षवस्तथा
अन्यदुप्तं जातमन्यदित्येतन्नोपपद्यते ।उप्यते यद्धि यद्वीजं तत्तदेव प्ररोहति
तत् प्राज्ञेन विनीतेन ज्ञानविज्ञानवेदिना ।आयुष्कामेन वप्तव्यं जातु परयोषिति
अत्र गाथा वायुगीताः कीर्त्तयन्ति पुराविदः ।यया बीजं वप्तव्यं पुंसा परपरिग्रहे
नश्यतोषुर्यथा विद्धः खे विद्धमनुविध्यतः ।तथा नश्यति वै क्षिप्रं बीजं परपरिग्रहे
पृथोरपोमां पृथिवीं भार्य्यां पृर्व्वविदो विदुः ।स्थाणुच्छेदस्य केदारमाहुः शल्यवतो मृगम्
एतावनेन पुरुपो यज्जायात्मा प्रजेति ।विप्राः प्राहस्तथा चैतद्यो भर्त्ता सा स्मृताङ्गनान निष्क्रयविमर्गाभ्यां भर्त्तृभार्य्या विमुच्यते ।एवं धर्म्मं विजानीमः प्राक प्रजापतिनिर्म्मितम्
सकृदंशो निपतति सकृत् कन्या प्रदीयते ।सकृदाह ददानीति त्रीण्येतानि सतां सकृत्
यथा गोऽश्वोष्ट्रदासीषु महिष्यजाविकासु ।नोत्पादकः प्रजाभागी तथैवान्याङ्गनास्वपि
ये क्षेत्रिणो बीजवन्तः परक्षेत्रप्रवापिणः ।ते वै शस्यस्य जातस्य लभन्ते फलं क्वचित्
यदन्यगोषु वृषभो वत्सानां जनयेच्छतम् ।गोमिनामेव ते वत्सा मोघं स्कन्दितमार्षभम्
तथैवाक्षेत्रिणो बीजं परक्षेत्रप्रवापिणः ।कुर्व्वन्ति क्षेत्रिणामर्थं बीजी लभते फलम्
फलन्त्वनभिसन्धाय क्षेत्रिणां बीजिनां तथा ।प्रत्यक्षं क्षेत्रिणामर्थो बीजाद्योनिर्गरीयसी
क्रियाभ्युपगमात्त्वेतद्बीजार्थं यत् प्रदीयते ।तस्येह भागिनौ दृष्टौ बीजी क्षेत्रिक एव
ओघवाताहृतं बीजं यस्य क्षेत्रे प्ररोहति ।क्षेत्रिकस्यैव तद्वीजं वप्ता लभते फलम्
एष धर्म्मो गवाश्वस्य दास्युष्ट्राजाविकस्य ।विहङ्गमहिषीणाञ्च विज्ञेयः प्रसवं प्रति
एतद्वः सारफल्गुत्वं बीजयोन्योः प्रकीर्त्तितम् ।अतः परं प्रवक्ष्यामि योषितां धर्म्ममापदि
*
भ्रातुर्ज्येष्ठस्य भार्य्या या गुरुपत्न्यनुजस्य सा ।यवीयसस्तु या भार्य्या स्नुषा ज्येष्ठस्य सा स्मृताज्येष्ठो यवीयसो भार्य्यां यवीयान् वाग्रजस्त्रियम्पतितौ भवतो गत्वा नियुक्तावप्यनापदि
देवराद्वा सपिण्डाद्वा स्त्रिया सभ्यङ्नियुक्तया ।प्रजेप्सिताधिगन्तव्या सन्तानस्य परिक्षये
विधवायां नियुक्तस्तु घृताक्तो वाग्यतो निशि ।एवमुत्पादयेत् पुत्त्रं द्वितीयं कथञ्चन
द्वितीयमेके प्रजनं मन्यन्ते स्त्रीषु तद्विदः ।अनिवृत्तं नियोगार्थं पश्यन्तो धर्म्मतस्तयोः
विधवायां नियोगार्थे निर्वृत्ते तु यथाविधि ।गुरुवच्च स्नुषावच्च वर्त्तेयातां परस्परम्
नियुक्तौ यौ विधिं हित्वा वर्त्तेयातान्तु कामतःतावुभौ पतितौ स्यातां स्नुषागगुरुतल्पगौ
नान्यस्मिन् विधवा नारी नियोक्तव्या द्विजा-तिभिः ।अन्यस्मिन् हि नियुञ्जाना धर्म्मंहन्युः सनातनम्नोद्वाहिकेषु मन्त्रेषु नियोगः कीर्त्त्यते क्वचित् ।न विवाहविधावुक्तं विधवा वेदनं पुनः
अयं द्विजैर्हि विद्धद्भिः पशुधर्म्मो विगर्हितः ।मनुष्याणामपि प्रोक्तो वेणे राज्यं प्रशासतिस महीमखिलां भुञ्जन् राजर्षिप्रवरः पुरा ।वर्णानां सङ्करं चक्रे कामोपहतचेतनः
ततः प्रभृति यो मोहात् प्रमीतपतिकां स्त्रियम् ।नियोजत्यपत्यर्थं तं विगर्हिन्ति साधवः
यस्या म्रियेत कन्याया वाचा सत्ये कृते पतिः ।तामनेन विधानेन निजो विन्देत देवरः
यथाविध्यभिगम्यैनां शुक्लवस्त्रां शुचिव्रताम् ।मिथो भजेदाप्रसवात् सकृत् सकृदृतावृतौ
दत्त्वा कस्यचित् कन्यां पुनर्दद्यात् विचक्षणःदत्त्वा पुनः प्रयच्छन् हि प्राप्नोति पुरुषानृतम्विधिवत् प्रतिगृह्यापि त्यजेत् कन्यां विगर्हिताम्व्याधितां विप्रदुष्टां वा छद्मना चोपपादिताम्
यस्तु दोषवतीं कन्यामनाख्यायोपपादयेत् ।तस्य तद्वितथं कुर्य्यात् कन्यादातुर्दुरात्मनः
विधाय वृत्तिं भार्य्यायाः प्रवसेत् कार्य्यवान्नरः ।अवृत्तिकर्षिता हि स्त्री प्रदुष्येत् स्थितिमत्यपि
विधाय प्रोषिते वृत्तिं जीवेन्नियममास्थिता ।प्रोषिते त्वविधायैव जीवेच्छिल्पैरगर्हितैः
प्रोषितो धर्म्मकार्य्यार्थं प्रतीक्ष्योऽष्टौ नरः समाः
विद्यार्थं षट् यशोऽर्थं वा कामार्थं त्रींस्तुवत्सरान्
संवत्सरं प्रतीक्षेत द्विषन्तीं योषितं पतिः ।ऊर्द्ध्वं संवत्सरात्त्वेनां दायं हृत्वा संवसेत्
अतिक्रामेत् प्रमत्तं या मत्तं रोगार्त्तमेव वा ।सा त्रीन् मासान् परित्याज्याविभूषणपरि-च्छदा
उन्मत्तं पतितं क्लीवमबीजं पापरोगिणम्
त्यागोऽस्ति द्विषन्त्याश्च दायापवर्त्तनम्
मद्यपासाधुवृत्ता प्रतिकूला या भवेत् ।व्याधिता साधिवेत्तव्या हिंसार्थघ्नी सर्व्वदा
बन्ध्याष्टमेऽधिवेद्याब्दे दशमे तु मृतप्रजा ।एकादशे स्त्रीजननी सद्यस्त्वप्रियवादिनी
या रोगिणीस्यात्तु हिता सम्पन्ना चैव शीलतः ।सानुज्ञाप्याधिवेत्तव्या नावमान्या कर्हिचित्अधिविन्ना तु या नारी निर्गच्छेद्रुषिता गृहात्सा सद्यः सन्निरोद्धव्या त्याज्या वा कुलसन्निधौ
प्रतिषिद्धा पिबेद्या तु मद्यमभ्युदयेष्वपि ।प्रेक्षासभाजं गच्छेद्वा सा दण्ड्या कृष्णलानिषट्
यदि स्वाश्चापराश्चै विन्देरन् योषितो द्विजाःतासां वर्णक्रमेणैव ज्यैष्ठं पूजा वेश्म
भर्त्तुः शरीरशुश्रूषां धर्म्मकार्य्यञ्च नैत्यिकम् ।स्वा चैव कुर्य्यात् सर्व्वेषां नान्यजातिः कथञ्चन
यस्तु तत् कारयेन्मोहात् स्वजात्या स्थितया-न्यया ।यथा ब्राह्मणचाण्डालः पूर्व्वदृष्टस्तथैव सः
उत्कृष्टायाभिरूपाय वराय सदृशाय ।अप्राप्तामपि तां तस्मै कन्यां दद्याद्यथाविधि
काममामरणात्तिष्ठे द्गृहे कन्यर्त्तुमत्यपि ।न चैवैनां प्रयच्छेत्तु गुणहीनाय कर्हिचित्
त्रीणि वर्षाण्युदीक्षेत कुमार्य्यृतुमती सती ।ऊर्द्ध्वन्तु कालादेतस्माद्विन्देत सदृशं पतिम्
अदीयमाना भर्त्तारमधिगच्छेद्यदि स्वयम् ।नैनः किञ्चिदवाप्नोति यं साधिगच्छति
अलङ्कारं नाददीत पित्र्यं कन्या स्वयंवरा ।मातृकं भ्रातृदत्तं वा स्तेना स्यात् यदि तंहरेत्
पित्रे दद्याच्छुल्कन्तु कन्यामृतुमतीं हरन् ।स हि स्वाम्यामतिक्रामेदृतूनां प्रतिरोधनात्
त्रिंशद्वर्षो वहेत् कन्यां हृद्यां द्वादशवार्षिकीम् ।त्र्यष्टवर्षोऽष्टवर्षां वा धर्म्मे सीदति सत्वरः
देवदत्तां पतिर्भार्य्यां विन्दते नेच्छयात्मनः ।तां साध्वीं विभृयान्नित्यं देवानां प्रियमाचरन्
प्रजनार्थं स्त्रियः सृष्टाः सन्तानार्थञ्च मानवाः ।तस्मात् साधारणो धर्म्मः श्रुतौ पत्न्या सहोदितः
कन्यायां दत्तशुल्कायां म्रियेत यदि शुल्कदः ।देवराय प्रदातव्या यदि कन्यानुमन्यते
आददीत शूद्रोऽपि शुल्कं दुहितरं ददत् ।शुल्कं हि गृह्णन् कुरुते छन्नं दुहितृविक्रयम्
एतत्तु परे चक्रुर्न्नापरे जातु साधवः ।यदन्यस्य प्रतिज्ञाय पुनरन्यस्य दीयते
नानुशुश्रुम जात्वेतत् पूर्व्वेष्वपि हि जन्मसु ।शुल्कसंज्ञं मूल्येन छन्नं दुहितृविक्रयम्
अन्योन्यस्याव्यभिचारो भवेदामरणान्तिकः ।एष धर्म्मः समासेन ज्ञेयः स्त्रीपुंसयोः परः
तथा नित्यं यतेयातां स्त्रीपुंसौ तु कृतक्रियौ ।यथा नाभिचरेतां तौ वियुक्तावितरेतरम्
एष स्त्रीपुंसयोरुक्तो धर्म्मो वो रतिसंहितः ।आपद्यपत्यप्राप्तिश्च दायभागं निबोधत
”इति मानवे अध्यायः
वाचस्पत्यम्
Sanskrit
स्त्रीपुंधर्म्म
पु०
स्त्रियाः पुंसश्च धर्मः तमधिकृत्य व्यवहारो वा ।स्त्रीपुं सयोः यथाशास्त्राचाररूपे धर्मे तद्विषयके अष्टा-दशसु विवादपदेषु मध्ये विवादपदभेदे स्त्रीपुंसयोगोऽ-प्यत्र वीर० तत् न्यरूपि यथा “तत्स्वरूपमाह नारदः“विवाहादिविधिः स्त्रीणां यत्र पुंसाञ्च कीर्त्त्यते ।स्त्रीपुं सयोगसंज्ञं तद्विवादपदमुच्यते” इति विवा-हादिशब्देन स्त्रीपुंधर्मा गृह्यन्ते अतएवमनुर्व्यवहारपदोद्देशकाले स्त्रीपुंधर्मोविभागश्चेत्युद्दिश्यप्रतिज्ञापूर्वंकं तेषां निरूपणं चकार “पुरुषस्य स्त्रि-याश्चैव धर्म्ये वर्त्मनि तिष्ठतोः संयोगे विप्रयोगे चधर्मान् वक्ष्यामि शाश्वतान् इत्यादिना संयोगे अन्यो-न्यसन्निधाने विप्रयोगे देशतः कालतो वा व्यव-धाने शाश्वतान्नित्यान् अवश्यानुष्ठेयानिति यावत् ।के ते धर्मा इत्याकाङ्क्षायामाह एव “अस्वतन्त्राःस्त्रियः कार्याः पुरुषैः स्वैर्दिवानिशम् विषयेषु चसज्जन्त्यः संस्थाप्या ह्यात्मनो वशे” इत्यादि पुरुषैःभर्तृपुरुषैः विषथे दण्डहेतुभूतचाञ्चल्यादिविषये ।नारदोऽपि “स्वातन्त्र्याद्विप्रणश्यन्ति कूले जाता अपिस्त्रियः अस्वातन्त्र्यमतस्तासां प्रजापतिरकल्पयत्”इति अतोऽन्यैरपि स्वस्त्रीणामस्वातन्त्र्यं यथाभवति तथा कल्पयितव्यमित्याशयः पुरुषेण स्वस्त्रीव्यभिचारादवश्यं रक्षणीया तथा हारीतः“एकव्रत्सकन्नभावात् परेन्द्रियोपहतत्वाच्च दुष्ठाः कुल-सङ्करकारिण्यो भवन्ति जीवति जारजः कुण्डोमृतेभर्त्तरि गोलकस्तस्माद्रेतोपाघाताज्जायां रक्षेज्जाया-नाशे कुलनाशः कुलनाशे तन्तु नाशस्तन्तुनाशे देवपिवृ-यज्ञनाशो देवपितृयज्ञनाशे आत्मनाशः आत्मनाशेसर्वस्वनाशः” इति एकव्रतम्कन्नभावात् स्त्रीणांएकभर्त्तेति नियमनाशात् परेन्द्रियोपहतत्वात्परस्मिन् पुंसि इन्द्रियम्य मनसोरागादिना उपह-तत्वात् कुलसङ्करकारिण्यस्तज्नातिस्वभावानुगत पजोत्पादनेन कुलसाङ्कर्य्यकारिण्यः अतएव शङ्खलिखितौ“यस्मिन् भावोऽर्पितः स्त्रीणामर्त्तवे तादृशं तस्तुश्रनयन्तीति” तन्तुः पुत्रादिसन्ततिः मनुरपि “सूक्ष्मभ्योऽपि प्रसङ्गेभ्यः स्त्रियो रक्ष्या विशेषतः द्वयोर्हिसकाशादिति कल्पतर्वादौ पाठः अध्याग्न्यादिशब्दास्तुयोगरूदास्तादृशस्त्रोधनादावेव प्रयोगात् गृहोपस्कर-णादोनां यन्मूल्यं कन्यार्पणापाधित्वेन यरादिभ्यः कन्या-भरणरूपेण सृह्यते तच्छुल्कमिति मदनरत्ने व्याक्या-तम् मिताक्षरायां तु यद्गृहीत्वा कन्या दीयतेतच्छुल्कमित्युक्तम् उभयत्रापि पित्रादीनां कन्यायाइदमित्युद्ध्वेशो विवक्षितः अन्यथा तत्स्वत्वाभावेनस्त्रीधनत्वव्यपदेशत्वानुपपत्तेः जीमूतवाहनेन तु कर्मि-णामिति पठित्वा गृहादिकर्मिभः शिल्पिभिस्तत्कर्म-करेणे भर्त्रादिप्रेरणार्थं स्त्रियै यदुत्काचदानं तच्छु-ल्कं तदव सुल्यं प्रकृत्यर्थत्वादिति व्याख्यातम् ।पुनश्चोक्तम् “यदानेतुं भर्तृरृहे शुल्कन्तत्परिकीर्त्तिं-तमिति” व्यासोक्तं वा भर्तृगृहगमनार्थमुत्काचादियद्दत्तं तच्छुल्कमित्यर्थ इति तदुभयमपि स्त्रास्वामिकं भवत्येव तस्या एव दत्तत्वादिति तत्र स्त्री-धनत्वव्यपदेशोऽन्यस्त्रीधनवत् सुगम एव आधि-वेदनिकं स्त्र्यन्तरविवाहकाले पूर्वभार्य्यायै यद्दीयते ।यदाह याज्ञवल्क्यः “अधिविन्नस्त्रयै दद्यादाघि-वेदनिकं समम् दत्तं स्त्रीधनं वासां दत्ते त्वर्द्धंप्रकल्पयेत्” इति पित्रादिभिर्ज्जीवनाद्यर्थं स्त्रीभ्योधनदाने विशेषमाह कात्यायनः “पितृमातृपतिभ्रातृज्ञातिभिः स्त्राधनं स्त्रियै यथाशक्त्याद्विसा-हस्राद्दातव्यं स्थावरादृते” स्थावरेतरद्धनं यथाशक्तिआकार्षापणसहस्रद्वयपर्य्यन्तं देयमित्यर्थः व्यासोऽपि“द्विसहस्रः परो दायः स्त्रियै देयो धनस्य तु” आद्वि-सहस्रादिति कात्यायनेन, पर इति व्यामेनोक्ते-रितोऽधिकमिति धनिनापि स्त्रीभ्यो देयमितिदर्शितम् अयञ्च नियमः प्रतिवनसरमसकृटर्पणे ज्ञेयस्ते-नानेकवत्सरेषु जीवनार्थं दीयमानमिगोऽधिकमपिभवति चेन्न दोषः जीवनार्थत्वाद्दानस्य तावज्जीवञ्चद्विसाहस्रमात्रेण तन्निर्वाहासम्भषात् स्त्रीधनेऽपिमर्वनुमतिमन्तरेण स्त्रीणान्न स्वातन्त्र्यमित्याह मनुः“न निर्हारं स्त्रियः कुर्युः कुदुम्बाद्बहुमध्यकात् ।स्रमदपि वित्ताद्धि स्वस्य भर्त्तुरनाज्ञया” इतिनिर्हारो व्ययः कचित्तु स्त्रीधने तामां स्वातन्त्र्य-मस्ति यदाह सौदायिकस्वरूपसक्त्वा कात्यनः“सादायिकं धनं प्राप्य स्त्रीणां स्वातन्त्र्यमिष्येते ।यस्मात्तदानृशस्यार्थं तैदत्तमुपजीवनम् सौदायिकेसदा स्त्रीणां स्वातन्त्र्यं परिकीर्त्तितम् विक्रयेदाने यथेष्टं स्थावरेष्वपि” भर्त्तृदत्ते तु स्थाव-रेतरत्रैव स्वातन्त्र्यमित्याह नारदः “भर्त्रा प्रातनयद्दत्तं स्त्रियै तास्मन् मृतऽपि तत् सा यथा काम-मश्नीयाद्दद्याद्वा स्थावरादृते” स्थावरे भत्तृदत्ते स्त्रियानिवासाद्युपभोगमात्रं दानविक्रयादिकमित्यर्थः ।अपुत्रा शयनं भतुरित्यादि कात्यायनवचोऽपि भर्तृ-दत्तस्थावरविषयमेव नारदेकवाक्यतयेति केचित् ।अस्माभिस्तु पत्नी दुहितर इति व्याख्यानावसरेऽम्यविषयः प्रपञ्चितः पुरुषाणामपि कस्मिन्नपि स्त्रीधनेन स्वातन्त्र्यं स्वाम्याभावादित्याह कात्यायनः “नभर्त्ता नैव सुती पिता भ्रातरो आदानेवा विसर्गे वा स्त्रीधने प्रभविष्णवः यदि त्वेकतरो-ऽप्येषां स्त्रीधनं भक्षयेद् बलात् सवृद्धिकं दाप्यःस्याद्दण्डञ्चैव समाप्नुयात् तदेव यद्यनुज्ञाप्य भक्षयेत्प्रोतिपूर्वकम् मूलमेव तदा दाप्यो यदा धनवान्भवेत् अथ चेत् द्विभार्य्यः स्यान्न तां भजते पुनः ।प्रीत्या विसृष्ठमपि चेत् प्रतिदाप्यः तद्वलात् ।ग्रासाच्छादनवासानामुच्छेदो यत्र योषितः तत्र स्वमा-ददीत स्त्री विभागं रिक्थिनान्तथा” स्त्रिया धनंगृहीत्वा यद्यपरभार्य्यया सह वसत्येनाञ्चावमन्यतेतदा गृहीतं तद्धनं राज्ञा बलाद्दाप्यः भक्ताच्छा-दननिवासान् यदि भर्त्ता ददाति तदा तेऽपिस्त्रिया बलाद्ग्राह्यःस्तत्पर्य्यप्तं घनं वा ग्राह्यमितिश्लोकद्वयन्यार्थः इदमपि तस्या दोषराहित्ये बोध्यंदुष्टा पुनः किमपि स्त्रीधनं लभते इत्याहस एव “अपकारक्रियायुक्ता निर्लज्जा चार्थना-शिका व्यभिचाररता या स्त्रीधनं तु सा-र्हति” नार्हतोत्यनेन तया लब्धमप्याच्छिद्य ग्राह्य-मिति सूचितम् अपकारक्रियायुक्ता सदा भर्तृप्रतिकूला-चरणपरा “निर्मर्य्यादार्थनाशिका” इत्यपि पाठः देवलः“वृद्धिराभरणं शुल्कं लाभश्च स्त्रीधनं भवेत् मुङ्क्तेतत् स्वयमेवेदं पतिर्नार्हत्यनापदि वृथा मोक्षे चभोगे स्त्रियै दद्यात् सवृद्धिकम्” इति वृद्धि-र्वर्द्धनार्थं पित्रादिना दर्त्तामति द्मृतचन्द्रिकायाम् ।मदनरत्ने तु वृत्तिरिति पठितम् वृत्तिर्ज्जीवतार्थंपित्रादिभिर्दत्तमिति व्याख्यातञ्च लाभो गौर्य्यादि-प्रीव्यर्थं यवभ्यते कुतश्चित् वृथा आपदमन्तरेण ।कुलयो शोकमावहेयुररक्षिताः इमं हि सर्ववर्णानांपश्यतो धर्ममुत्तमम् यतन्ते रक्षितुं भार्य्यां भर्त्तारोदुर्बला अपि स्वां प्रसूतिं चरित्रञ्च कुलमात्मानमेवच स्यधमं हि प्रयत्नेन जायां रक्षन् हि रक्षितः”इति द्वयोः कुलयोः भर्त्तृपितृकुलयोः अनेन कुल-द्वयवृद्धैरपि रक्ष्या इति शोककथनसुखेन दर्शितम् ।अतएव वृहस्पतिः “सूक्ष्मेभ्योऽपि प्रसङ्गेभ्यो निवार्यास्त्री स्वबन्धुभिः श्वश्वादिभिः पालनीया गुरुस्त्रीभिर्दिवा-निशम्” मनुरपि “कालेऽदाता पिता वाच्यो वाच्यश्चानुपयन् पतिः मृते भर्त्तरि पुत्रस्तु वाच्यो मातुर-रक्षिता” इति काले कन्यादानयोग्ये काले वाच्यो-निन्द्यः अनुपयन् अननुगच्छन् एव “पिता रक्षतिकौमारे भर्त्ता रक्षति यौवने पुत्रस्तु स्थाविरे भावेन स्त्री स्वातन्त्र्यमर्हति” याज्ञवलक्योऽपि “रक्षेत्-कन्यां पिता, विन्ना पतिः, पुत्रस्तु वार्द्धके अभावेज्ञातयस्तेषान्न स्वातन्त्र्यं क्वचित् स्त्रियाः” इति विन्नाविवाहिता पतिपुत्रविहीनायास्तु रक्षणं पतिपक्षान्त-र्गतेन प्रत्यासन्नेन कार्य्यम् तथा नारदः “मृतेभर्त्तर्य्यपुत्रायाः पतिपक्षः प्रभुः स्त्रियः विनियोगात्मरक्षासु भरणेषु ईश्चरः परिक्षीणे पतिकुलेनिर्मनुष्ये निराश्रये तत्सपिण्डेषु चासत्सु पितृपक्षःप्रभुः स्त्रियः” पितृपक्षस्याप्यभावे एवाह “पक्षद्वया-वसाने तु राजा भर्त्ता स्मृतः स्त्रियः तस्या भरणंकुर्य्यान्निगृह्णीयात्पथश्च्युताम्” इति विनियोगःकर्मणि नियोजनम् भर्त्ता षोषकः स्त्रीस्वभावं दर्श-यति दक्षः “जलौकावत् स्त्रियः सर्वा भूषणाच्छादना-शनैः सुहितापि कृता नित्यं पुरुषं ह्यपकर्षति ।जलौका रक्तमादत्ते केवलं सा तपस्विनी इतरा तुधनञ्चित्तं मांसं वीर्य्यं बलं सुखम् साशङ्का बाल-भावे तु यौवनेऽभिमुखी भवेत् तृणवन्मंन्यते नारीवृद्धभावे स्वकम्पातम् स्वकांम्ये वर्त्तमाना सा स्नेहान्नच निवारिता अपथ्या नु भवेत् पश्चाद् यथा व्याधि-रुपेक्षितः” इति सुहिता तृप्ता कृतापीत्यन्वयः ।अपकर्षति सततमाज्ञामात्रं करोति स्वकाम्ये स्वेच्छा-याम् अपथ्या अर्त्यन्ताहितहेतुभूता मनुरपि “नैतारूपं प्रतीक्षन्ते नासां वयसि संस्थितिः सुरूपं वाविरूपं वा पुमानित्येव भुञ्जते पौंश्चल्याच्चलचित्त्वत्वात्नैःस्नेह्याच्च स्वभावतः रक्षिता यत्रतोऽपीह भर्तृ-ष्वेता विकुर्वते शय्यासनमलङ्कारं कामं क्रोधमनार्ज-वम् द्रोहभावं कुचर्याञ्च स्त्रीभ्योमनुरकल्पयत् नास्तिस्त्रीणां क्रिया मन्त्रैरिति धर्मो व्यवस्थितः निरिन्द्रियाह्यमन्त्राश्च स्त्रियोऽनृतमिति स्थितिः तथा श्रुतयोबह्व्या निगीता निगमेष्वपि स्त्रीलक्षणपरीक्षार्थन्तासांशृणुत् निष्कृतीः यन्मे मोता प्रलुलुभे विचरन्त्यऽ-पतिव्रता तन्मे रेतः पिता वृङ्क्तामित्युक्तैतन्निदर्शनम् ।ध्यायत्यनिष्टं यत्किञ्चित्पाणिग्राहस्य चेतसा तस्यैषव्यभिचारस्य निह्नवः सम्यगुच्यत एवं स्वभार्वं ज्ञात्वा-ऽऽसाम्प्रजापतिनिसर्गजम् परमं यत्नमातिष्ठेत् पुरुषोरक्षणं प्रति” इति निरिन्द्रिया निर्वीर्य्यां धैर्य्यप्रज्ञा-दिरहिता इति यार्वत् स्त्रियोऽनृतमिति प्रायशो-ऽनृतवदनशोलत्वादुच्यन्ते श्रुतयः श्रुतिवाक्यानि ।निगमेषु वेदेषु स्त्रीलक्षणं स्वरूपं तासां श्रुतीनाम्मध्ये यानिष्कृतिरूपा व्यभिचारप्रायश्चित्तरूपास्ताः श्रुतीःशृणुत स्त्रीस्वभावज्ञानार्थमित्यर्थः महाभारतेऽपि“कुलीना रूपवत्यश्च नार्थवत्यश्च योषितः मर्यादासु नतिष्ठन्ति दोषः स्त्रीष नारद! अनर्थित्बन्पनुष्यस्यभयात्परिजनस्य मर्यादायाममर्यादाः स्त्रियस्ति-ष्ठन्ति भर्तृषु यौवने वर्त्तमानानां मृष्टाभरणवाससाम् ।नारीणां स्वैरवृत्तीनां स्पृहयन्ति कुलस्त्रियः यदिपुंसाम्मतिर्व्रह्मन्! कथञ्चिन्नोपपद्यते अन्योन्यञ्चप्रवर्त्तन्ते तिष्ठन्ति भर्तृषु अलाभात् पुरुषाणाञ्चभयात्परिजनस्य बधबन्धभयाच्चैव स्वयं गुप्ता भवन्तिताः नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः ।नान्तकः सर्वभूतानान्न पुंसां वामलोचना कामा-नामपि दातासं दादारं मानसान्नयोः रक्षितारन्नमृष्यन्ति भर्त्तारं यत्नतः स्त्रियः” इति श्रीरामायणे-ऽपि “नैवाङ्गनानान्दयितो नापि द्वेष्योऽस्ति कसन ।सर्वमेवावलम्बन्ते लता गहनजा इवेति” अथ रक्षण-प्रकारः तत्र मनुः “न कश्चिद्योयितः शक्तः प्रसह्यपरिरक्षितुम् एतैरुपाययौगैस्तु शक्यास्ताः परिरक्षि-तुम्” इति प्रसह्य आक्रम्य अवरुह्येति यावत् ।यद्यप्यवरोधेन शरीरव्यभिचाराद्रक्षणं शक्यन्तथापिमानसव्यभिचाराद्रक्षणमशक्यमित्याशयेन मनुना नकश्चिद्योषितः शकः पसह्य परिरक्षितुमित्युक्तम् नच मानसव्यभिचाराद्रक्षणमनर्थकमन्यजत्वाभावेन प्रजा-विशुद्धिविघाताभावादिति वक्तव्यम् यत आह सएव “यादृशं भजते स्त्री हि सुतं सूते तथाविधम् ।तस्मात् प्रजाविशुद्ध्यर्थं स्त्रियो रक्षेत् प्रयत्नतः” इति ।यादृशं पुरुषमृतुकाले स्त्री मनसा भजते तत्समान-शीलं पुत्रं जनयतीति पूर्वार्द्धार्थः अतएवाहतुःशङ्खलिखितौ “यस्मन् भावेओऽर्पतः स्त्रीणामार्त्तवतच्छीलं जनयन्तीति” मानसव्यभिचारादपि स्त्रियंरक्षेदिति शेषः तथां मनुना तस्मादत्यादिनोत्तरार्द्धेनायमेवार्थो दर्शितः परिरक्षणोपायानाह मनु-रेव “अर्थस्य संग्रहे चनां व्यये चैव नियोजयेत् शौचेधर्मे पक्त्याञ्च पारिणाह्यम्य चक्षण” इति अर्थस्यसंग्रहे स्वेन समानीतार्थसंविधाने व्यये स्वेनोक्त-व्यये शौचे गृहादिशुद्धिकरसंमाजनापलेपनादौ धर्मेअग्निहोत्राद्यनुकूललौकिकव्यापारे पक्त्यां पाकव्या-परे पारिणाह्यं पीटादि गृहोपकरणं तस्यईक्षणे विचारणे निरन्तरगृहव्यापारनियोजनातपुरुषान्तरचिन्ताराहित्यं यथा भवति भार्यायाः तथाकुर्यादिति तात्पर्यार्थः वृहस्पतिरपि “आयव्ययेऽथसंम्कारे गृहोपसकररक्षणे शौचाग्निकार्य्ये संयोज्याःस्त्रीणां शुद्धिरियं स्मृता” इति एवविधव्यापारा-सक्तचित्ततया साध्व्य इति व्यपदिश्यन्त इत्याह मनुः“आत्मानमामना यास्तु रक्षेयुस्ताः सुरक्षिताः”इति आत्मना गृहव्यापारासक्तेनान्तःकरणेन सुर-क्षिताः साध्यः आप्तपुरुषारक्षितस्तु स्त्रियो नसम्यग्रक्षिता इत्याह एव “अरक्षता गृहे रुद्धाःपुरुषैराप्तकारिभिः” इति आप्तकारिभिः पुरुषैःगृहे रुद्धा इत्यन्वयः आप्ताश्च ते कारिणश्चाप्तकारिणः ।अरक्षिताः सम्यग्रक्षाविहीना इत्यर्थः भर्त्तुर्द्धर्म-निष्ठत्वमोपि स्वीणां रक्षणोपाय इति दर्शयितुं सएवाह “यादृग्गुणेन भर्त्ता स्त्री संयुज्य यथाविधि ।तादृग्गुणा सा भवति समुद्रेणेव निमग्ना अक्षमालावसिष्ठेन संयुक्ताऽधमयोनिजा शारङ्गी मन्दपालेनजगामाभ्यर्हणीयंताम्” इति मार्याया भरणमप्या-वश्यकमित्याह एव “देवदत्तां पतिर्भार्गां विन्दते-नेच्छयात्मनः तां साध्वीं विभृयान्नित्यं देवानां प्रिय-माचरन्” देवैर्दत्ता देवदत्ता दैववशादायातेति यावत् ।तां भार्यां स्वयंवरे पतिर्विन्दते तत्र स्वव्यापाराभावा-द्देवदत्तामित्यनेन विवाहलक्षणस्य स्त्रीपुंसयोः सम्बन्धस्यन स्वाधीनत्वं किन्तहि देवकृतत्वमिति दर्शितम् देव-दत्तत्वञ्च स्त्रीणाम् “सोमोददद्गन्धर्वाय गन्धर्वो दददग्नये ।रयिश्च पुत्रांश्चाददग्निर्मह्यमथो इमाम्” इत्यादिभ्यः श्रुति-वाक्यभ्योऽवगम्यते तेन देवैर्दत्ताया अभरणेन दातॄणांदेवालां द्राह आपाद्यत इत्यर्थवाद इत्युक्तं मदनरत्न ।न साध्वोमित्यस्य पतिब्रतामित्यर्थपरत्वेन व्यभि-चारिण्या भरणमनावश्यकमिति वक्तव्यम् तस्या अपिकदन्नादिनाऽवश्यभरणायत्वात् तथा नारदः“व्यभिचारे स्त्रियामौण्ड्यमधःशयनमेव कद-न्नञ्च कुवासश्च कर्म चावस्करोज्झनम” इति स्त्रियार-त्यर्थं व्यभिचारे जाते मुण्डनमधःशयनञ्च साधयेत ।कदन्नं कवासश्च भरणार्थं दद्यात् अमेध्यशोधनरूपंकर्म कारयेदिर्त्यर्थः दोषरहिताया भार्यायाः परि-त्यागिभं प्रत्याह नारदः “अनुकूनाभवाग्दष्टां दक्षांसाध्वीं प्रजावतीम् त्यजन् भार्यामवस्थाप्या राज्ञादण्डेन भूयसा” इति विष्णुरपि “निर्दीषां परि-त्यजन् पत्नीञ्चेति” चौरवच्छास्य इत्यनुषङ्गः निर्दोषा-न्त्यागहेतुभूतदाषरहिताम् दण्डेन स्थापयितु-मशक्ये त्वाच योमीश्वरः “आज्ञामम्पादिनीं दक्षां वीरसूप्रियवादिनीम् त्यजन् दाप्यस्तृतीयांशमद्रव्योभरणंस्त्रियः” इति तृतीयांशन्तद्धनतृतीयांशम् राज्ञाभार्याया दाप्यः अल्पधनः भरणमात्रपर्य्याप्तं धनं दाप्यइत्यथः”