स्त्रीधनं (strIdhanaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritस्त्रीधनं, (स्त्रिया धनम् ।) स्त्रीस्वत्त्वास्पदी-भूतधनम् । तत् षड्विधम् । यथा, --“अध्यग्न्यध्यावाहनिकं भर्त्तृदायं तथैव च ।भ्रातृदत्तं पितृभ्याञ्च षड्विधं स्त्रीधनं स्मृतम् ॥
”इति दायभागधृतनारदवचनम् ॥
* ॥
अथ स्त्रीधनम् । तत्र कात्यायनः ।“प्राप्तं शिल्पैस्तु यद्वित्तं प्रीत्या चैव यदन्यतः ।भर्त्तुः स्वाम्यं भवेत्तत्र शेषन्तु स्त्रीधनं स्मृतम् ॥
”अन्यतः पितृमातृभर्त्तृकुलव्यतिरिक्ताद्यल्लब्धंशिल्पेन वा यदर्ज्जितं तत्र भर्त्तुः स्वातन्त्र्यं तेनस्त्रिया अपि धनं न स्त्रीधनं अस्वातन्त्र्यात्एतद्द्वयातिरिक्तधने स्वत्वं स्त्रिया एव दानाद्य-धिकारात् । मनुविष्णू ।“पत्यौ जीवति यः कश्चिदलङ्कारो धृतो भवेत्न तं भजेरन् दायादा भजमानाः पतन्ति ते ॥
”पत्युरदत्तेऽपि तदनुज्ञया परिहितोऽलङ्कार-स्तावता एव भार्य्यायाः स्वीयो भवतीति मेधा-तिथिः ॥
कात्यायनः ।“ऊढया कन्यया वापि पत्युः पितृगृहेऽथवा ।भर्त्तुः सकाशात् पित्रोर्व्वा लब्धं सौदायिकंस्मृतम् ॥
सौदायिकं धनं प्राप्य स्त्रीणां स्वातन्त्र्यमिष्यतेयस्मात्तदानृशंस्यार्थं तैर्दत्तं तत् प्रजीवनम् ॥
सौदायिके सदा स्त्रीणां स्वातन्त्र्यं परिकीर्त्तितम्विक्रये चैव दाने च यथेष्टं स्थावरेष्वपि ॥
”सुदायेभ्यः पितृमातृभर्त्तृकुलसम्बन्धिभ्यो लब्धंसौदायिकम् । आनृशंस्यमनैष्ठुर्य्यम् । नारदः ।“भर्त्रा प्रीतेन यद्दत्तं स्त्रियै तस्मिन् मृतेऽपि तत्सा यथाकाममश्नीयाद्दद्याद्वा स्थावरादृते ॥
”भर्त्तृदत्तविशेषणात् भर्त्तृदत्तस्थावरादृतेऽन्य-स्थावरं देयमेव । अन्यथा यथेष्टं स्थावरेष्वपिइति कात्यायनोक्तं विरुध्यते । कल्पतरुरत्ना-करयोः कात्यायनः ।अपकारक्रियायुक्ता निर्लज्जा चार्थनाशिनी ।व्यभिचाररता या च स्त्रीधनं न च सार्हति ॥
”याज्ञवल्क्यः ।“दुर्भिक्षे धर्म्मकार्य्ये वा व्याधौ संप्रतिरोधके ।गृहीतं स्त्रीधनं भर्त्ता नाकामो दातुमर्हति ॥
”संप्रतिरोधके भोजनाद्यवरोधकारिण्युत्तमर्णा-दिके । अन्यत्र तु कात्यायनः ।“न भर्त्ता नैव च सुतो न पिता भ्रातरो न च ।आदाने वा विसर्गे वा स्त्रोधने प्रभविष्णवः ॥
” *अथ स्तीधनाधिकारिणः । देवलः ।“सामान्यं पुत्त्रकन्यानां मृतायां स्त्रीधनं विदुः ॥
अप्रजायां हरद्भर्त्ता माता भ्राता पितापिवा” ।अत्र द्वन्द्वनिर्द्देशात् पुत्त्रकन्ययोस्तुल्याधिकारः ।अन्यतराभावे अन्यतरस्य तद्धनम् । पतयो-रभावे ऊढाया दुहितुः पुत्त्रवत्याः सम्भावित-पुत्त्रायाश्च तुल्याधिकारः । स्वपुत्त्रद्वारेणपार्व्वणे ।“सपिण्डीकरणादूर्द्ध्वं यत् पितृभ्यः प्रदीयते ।सर्व्वेष्वं शहरा माता इति धर्म्मेषु निश्चयः ॥
”इति शातातपोक्ततद्भोम्यपतिपिण्डदानसम्भ-वात् । तथा च नारदः ।“पुत्त्राभावे तु दुहिता तुल्यसन्तानदर्शनात् ॥
”अतएव एतादृशदुहित्रभावे पौत्त्राधिकारः ।तदभावे दौहित्राधिकारः ।“दौहित्रोऽपि ह्यमुत्रैनं सन्तारयति पौत्त्रवत् ॥
”इति मनुवचने दौहित्रे पौत्त्रधर्म्मातिदेशात् ।पुत्त्रेण परिणीतदुतितुर्व्वाधाद्वाधकपुत्त्रेण वाध्य-दुहितृपुत्त्रवाधस्य न्याय्यत्वात् । एवं तदभावेप्रपौत्त्रः तद्भोग्यपिण्डदातृत्वात् । तदभावे बन्ध्या-विधवयोर्म्मातृधनाधिकारः तयोरपि तत्प्रजा-त्वात् । तदभावे तु भर्त्ता । तच्च न पितृमातृ-दत्तधनविषयं तत्र भ्रातुरधिकारात् । तथा चवृद्धकात्यायनः ।“पितृभ्याञ्चैव यद्दत्तं दुहितुः स्थावरं धनम् ।अप्रजायामतीतातां भ्रातृगामि तु सर्व्वदा ॥
”मातुः परिणयनकाललब्धन्तु पुत्त्रसत्त्वेऽपि क्रमे-णानूढोढदुतित्रोरेवाधिकारः । मातुः पारि-णाय्यं स्त्रियो भजेरन्निति वशिष्ठोक्तेः । स्त्रीधनंदुहितॄणामप्रत्तानामप्रतिष्ठितानाञ्चेति गोतम-वचनेन प्रथममप्रत्तानामवाग्दत्तानां तदभावेत्वप्रतिष्ठितानां वाग्दत्तानां ईषदर्थे नञ् तद-भावे चकारसमुच्चितानामूढानां स्त्रीधनं दुहि-तॄणामिति सामान्यतः प्रागुक्तत्वात् अप्रत्ता-नामित्यादेस्तु क्रमार्थत्वेनोपसंहारार्थत्वात् ।व्यक्तमाह मनुः ।“मातुश्च यौतुकं यत् स्यात् कुमारीभाग एवसः ॥
”यौतुकपदं यु मिश्रणे इत्यस्मात् सिद्धं मिश्रता चस्त्रीपुंसयोव्विवाहाद्भवति । यदेतत् हृदयन्तवतदस्तु हृदयं मम यदिदं हृदयं मम तदस्तुहृदयं तव इति मन्त्रलिङ्गात् । यौतुकं तदितिवाचस्पतिमिश्ररायमुकुटधृतात् यौतुकं यौतकमपि साधु । परिणयनकालः परिणयनपूर्व्वा-परीभूतकालः स च वृद्ध्यारम्भपत्यभिवादनान्तो-विवाहतत्त्वे विवृतः । यत्तु मनुवचनम् ।“स्त्रियास्तु यद्भवेद्वित्तं पित्रा दत्तं कथञ्चन ।ब्राह्मणी तद्धरेत् कन्या तदपत्यस्य वा भवेत् ॥
”इति तत् पित्रा दत्तमिति विशेषणाद्विवाह-समयादन्यदपि पितृदत्तं कन्यायां एवेत्येत-दर्थम् । ब्राह्मणीपदन्तु कन्यामात्रपरम् । यद्वाक्षत्त्रियादिस्त्रीणामनपत्यानां पितृदत्तं धनंसपत्नीदुद्विता ब्राह्मणीकन्या हरेत् न पुनरप्र-जस्त्रीधनं भर्त्तुरिति वचनावकाशः । इति वच-नार्थः । तभावे पुत्त्राधिकारः ।“दुहितॄणामभावे तु रिक्थं पुत्त्रेषु तद्भवेत् ॥
”इति मनुवचनात् ॥
एवं पुत्त्राधिकारात् प्राक् दुहित्रधिकारविधा-यकवचनान्तराण्येतद्विषयकाणि । पुत्त्राद्यभावेतु ब्राह्म्यादिपञ्चकविवाहकालीनं स्त्रीधनंभर्त्तुः । आसुरादित्रयविवाहकालीनन्तु मातुःतदभावे पितुः । यथा मनुः ।“ब्राह्म्यदैवार्षगान्धर्व्वप्राजापत्येषु यद्धनम् ।अतीतायामप्रजायां भर्त्तुरेव तदिष्यते ॥
यत्तस्याः स्यात् धनं दत्तं विवाहेष्वासुरादिषु ।अतीतायामप्रजायां मातापित्रोस्तदिष्यते ॥
”कन्याधनाधिकारे क्रममाह बौधायनः ।“रिक्थं मृतायाः कन्याया गृह्णीयुः सोदराःस्वयम् ।तदभावे भवेन्मातुस्तदभावे भवेत् पितुः ॥
अत्रक्रमदर्शनात् पूर्व्ववचने मातापित्रोरित्यत्रपाठक्रमेणाधिकारो न तु द्वन्द्वनिर्द्देशात् समु-च्चितेन । बृहस्पतिः ।“मातृस्वसा मातुलानी पितृव्यस्ती पितृस्वसाश्वश्रूः पूर्व्वजपत्नी च मातृतुल्या प्रकीर्त्तिताः ॥
यदासामौरसो न स्यात् सुतो दौहित्र एव वा ।तत्सुतो वा धनं तासां स्वस्रीयाद्याः समा-प्नुयुः ॥
”औरसपदं कन्यापुत्त्रोभयपरम् । सुत इतिसपत्नीपुत्त्रपरम् ।“सर्व्वासामेकपत्नीनामेका चेत् पुत्त्रिणी भवेत्सर्व्वास्तास्तेन पुत्त्रेण प्राह पुत्रवतीर्म्मनुः ॥
”इति मनुस्मृतेः ।एकपत्नीनामिति एकः पतिर्यासां ताः । न तुसुतपदमौरसविशेषणं वैयर्थ्यात् । सपत्नीपुत्त्र-सद्भावे स्वस्रीयाद्यधिकारापत्तेश्च । तत्सुत इतिपौत्त्रः सपत्नीपौत्त्रपरं न तु दौहित्रपुत्त्रपरं तस्यस्वभोग्यभर्त्तृपिण्डदानानधिकारात् । अत्र प्रागु-क्तानुसारात् दौहित्रपर्य्यन्तानन्तरमेव सपत्नी-पुत्त्रतत्पुत्त्रयोरधिकारः । न तु प्रागुक्तभर्त्रादि-पितृपर्य्यन्ताभावेऽपीति वाच्यं भर्त्रादीनां धनि-भोग्यपार्व्वणपिण्डदानानधिकारात् । तस्मादे-तेषां सपत्नीपौत्त्रान्तानां तत्सुतो वेतिबाशब्दसमुच्चितानाम् ।“मामान्यं पुत्त्रकन्यानां मृतायां स्त्रीधनंविदुः ।अप्रजायां हरत् भर्त्ता माता भ्राता पितापि-वा ॥
”इति देवलोक्तानां भर्त्त्रादिपितृपर्य्यन्तानाञ्चा-भाव एव सत्स्वपि श्वशुरभ्रातृश्वशुरादिषुस्वस्रायाद्या इत्यनेन भगिनीसुतभर्त्तृभागिनेय-भर्त्तृ ज्येष्ठकनिष्ठोभयरूपभ्रातृसुत-स्वभ्रातृपुत्त्र-जामातृ-देवराणां मातृस्वस्रादिधने अधिकारः ।अनन्यगतेर्व्वचनात् । अत्र ।“त्रयाणामुदकं कार्य्यं त्रिपु पिण्डः प्रवर्त्तते ।चतुर्थः सम्प्रदातैषां पञ्चमो नोपपद्यते ॥
”इति दायभागप्रकणीयमनुस्मृतेः ।पिण्डदोऽंशहर इति याज्ञवल्क्यीयात् । मातृ-तुल्याः प्रकीर्त्तिता इत्यनेन स्वस्रीयादीनां पुत्त्र-त्वज्ञापनेन एकप्रयोजनकत्वात् ।“मातुलो भागिनेयस्य स्वस्रीयो मातुलस्य च ।श्वशुरस्य गुरोश्चैव सख्युर्मातामहस्य च ॥
एतेषाञ्चैव भार्य्याभ्यः स्वसुर्मातुः पितुस्तथा ।पिण्डदानन्तु कर्त्तव्यमिति वेदविदां स्थितिः ।इति शातातपवनात् ।पिण्डदानविशेषेणैव षण्णामेषामधिकारक्रमःप्रतिपत्तव्यः । पाठक्रमादर्थक्रमस्य बलवत्त्वात् ।अन्यथा सर्व्वशेषे देवराधिकारे महाजनविरोधःस्यात् । तत्र प्रथमं देवरः तत्पिण्डतद्भर्त्तृपिण्ड-तद्भर्त्तृदेयपुरुष-त्रय-पिण्डदत्वात् सपिण्डत्वाच्च-भ्रातृस्त्रीधने अधिकारी । तदभावे भ्रातृश्वशुर-देवरयोः सुतौ तत्पिण्डतद्भर्त्तृपिण्डतद्भर्त्तृदेय-पुरुषद्वयपिण्डदत्वात् सपिण्डत्वाच्च । तयोरभावेत्वसपिण्डोऽपि भगिनीपुत्त्रः तत्पिण्डतत्पुत्त्रदेय-तत्पित्रादित्रयपिण्डदत्वात् । तदभावे भर्त्तृभा-गिनेयः पुत्त्राद्भर्त्तुर्दुर्बलत्वेन तत्स्थानपातिनो-रपि भगिनीपुत्त्रभत्तृभागिनेययोस्तथैव बला-बलस्य न्याय्यत्वेन तद्भर्त्तृदेयपुरुषत्रयपिण्डद-त्वात् तत्पिण्डदत्वात् तद्भर्त्तृपिण्डदत्वाच्च मातु-लानीधने अधिकारी । तदभावे भ्रातृपुत्त्रःतत्पिण्डतत्पुत्त्रदेयतत्पित्रादिपिण्डद्वयदत्वात्पितृस्वसुर्धने अधिकारी । तदभावे श्वशुरयोःपिण्डदानात् जामाता श्वश्रूधने अधिकारीतिक्रमः । स्वस्रीयाद्या इति अधिकारिमात्रपरं नपाथिकक्रमपरं एषां षण्णां प्रातिस्विकोक्ताना-मभावे सपिण्डानन्तर्य्येण श्वशुरादिवदधिकारीन च सपिण्डाभावे मातृस्वसेति वचनं वाच्यंअस्मिन्नधिकारिगणने देवरतत्सुतभ्रातृश्वशुर-सुतानांअधिकारज्ञापनादासन्नतरश्वशुरभ्रातृश्वशुरादेः परित्यागादिति । इति दायतत्त्वम् ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
