| YouTube Channel

स्त्रीधन (strIdhana)

 
शब्दसागरः
English
स्त्रीधन
n.
(-नं) Woman's separate property, which is held to be of six
kinds
viz:--1. Adhyagnikam, what is given before the sacrificial
fire
2. Adhyavahanikam, what is presented during the bridal pro-
cession
3. Adhivedanikam, what is given on her husband's
marrying another wife
4. Pritidattam, what is given through
affection
5. Sulkam, her dower allowed or perquisites made
during marriage
6. Anwādheyam, a gift from her own or
husband's relatives after marriage. Other varieties are enumera-
ted, as the pitri, mātri, suta, bhrātridattam, what is given by
her parents, son, or brother
bandhudattam, what is given by
her kindred
and some enumerate acceptance generally, and in-
heritance, amongst a woman's titles to property.
E.
स्त्री, धन wealth.
Capeller Eng
English
स्त्रीधन
n.
a wife's (peculiar) property.
Yates
English
स्त्री-धन (नं) 1.
n.
Wife's property.
Spoken Sanskrit
English
स्त्रीधन - strIdhana -
n.
- wife's peculiar property
स्त्रीधन - strIdhana -
n.
- women's wealth
Wilson
English
स्त्रीधन
n.
(-नं) Woman's separate property, which is held to be of
six kinds: 1. Adhyagnikam, what is given before the sacrificial fire
2.
Adhyāvāhanikam, what is presented during the bridal procession
3.
Ādhivedanikam, what is given on her husband's marrying another wife
4.
Prītidattam, what is given through affection
5. Śulkam, her dower
allowed or perquisites made during marriage
6. Anvādheyam, a gift from her
own or husband's relatives after marriage. Other varieties are enumerated, as
the pitṛ, mātṛ, suta, bhrātṛ dattam, what is given by her parents,
son, or brother
bandhu dattam, what is given by her kindred
and some
enumerate acceptance generally, and inheritance, amongst a woman's titles to
property.
E.
स्त्री, धन wealth.
Monier Williams Cologne
English
स्त्री—धन
n.
‘w°'s wealth’, a wife's peculiar property (said to be of six kinds, अध्य्-अग्निक, अध्य्-आवाहनिक, आधि-वेदनिक, प्रीति-दत्त, शुल्क, अन्व्-आधेय),
Gaut.
Mn.
Yājñ.
&c.
(cf.
IW.
267
n.
1)
Apte Hindi
Hindi
स्त्रीधनम्
नपुं*
स्त्री-धनम् -
स्त्री की निजी सम्पत्ति जिसपर उसका स्वतंत्र अधिकार हो
L R Vaidya
English
strI-Dana {% n. %} woman’s properry independent of that of her husband.
Indian Epigraphical Glossary
English
strī-dhana (SITI
ASLV), dowry.
अभिधानरत्नमाला
Sanskrit
शुल्क
शुल्क, पथिदेय, स्त्रीधन
रतिभुक्त्योः सम्भोगः पथिदेये स्त्रीधने शुल्कं स्यात्
verse 5.1.1.828
page 0095
शब्दकल्पद्रुमः
Sanskrit
स्त्रीधनं,
क्ली,
(स्त्रिया धनम् ।) स्त्रीस्वत्त्वास्पदी-भूतधनम् तत् षड्विधम् यथा, --“अध्यग्न्यध्यावाहनिकं भर्त्तृदायं तथैव ।भ्रातृदत्तं पितृभ्याञ्च षड्विधं स्त्रीधनं स्मृतम्
”इति दायभागधृतनारदवचनम्
*
अथ स्त्रीधनम् तत्र कात्यायनः ।“प्राप्तं शिल्पैस्तु यद्वित्तं प्रीत्या चैव यदन्यतः ।भर्त्तुः स्वाम्यं भवेत्तत्र शेषन्तु स्त्रीधनं स्मृतम्
”अन्यतः पितृमातृभर्त्तृकुलव्यतिरिक्ताद्यल्लब्धंशिल्पेन वा यदर्ज्जितं तत्र भर्त्तुः स्वातन्त्र्यं तेनस्त्रिया अपि धनं स्त्रीधनं अस्वातन्त्र्यात्एतद्द्वयातिरिक्तधने स्वत्वं स्त्रिया एव दानाद्य-धिकारात् मनुविष्णू ।“पत्यौ जीवति यः कश्चिदलङ्कारो धृतो भवेत्न तं भजेरन् दायादा भजमानाः पतन्ति ते
”पत्युरदत्तेऽपि तदनुज्ञया परिहितोऽलङ्कार-स्तावता एव भार्य्यायाः स्वीयो भवतीति मेधा-तिथिः
कात्यायनः ।“ऊढया कन्यया वापि पत्युः पितृगृहेऽथवा ।भर्त्तुः सकाशात् पित्रोर्व्वा लब्धं सौदायिकंस्मृतम्
सौदायिकं धनं प्राप्य स्त्रीणां स्वातन्त्र्यमिष्यतेयस्मात्तदानृशंस्यार्थं तैर्दत्तं तत् प्रजीवनम्
सौदायिके सदा स्त्रीणां स्वातन्त्र्यं परिकीर्त्तितम्विक्रये चैव दाने यथेष्टं स्थावरेष्वपि
”सुदायेभ्यः पितृमातृभर्त्तृकुलसम्बन्धिभ्यो लब्धंसौदायिकम् आनृशंस्यमनैष्ठुर्य्यम् नारदः ।“भर्त्रा प्रीतेन यद्दत्तं स्त्रियै तस्मिन् मृतेऽपि तत्सा यथाकाममश्नीयाद्दद्याद्वा स्थावरादृते
”भर्त्तृदत्तविशेषणात् भर्त्तृदत्तस्थावरादृतेऽन्य-स्थावरं देयमेव अन्यथा यथेष्टं स्थावरेष्वपिइति कात्यायनोक्तं विरुध्यते कल्पतरुरत्ना-करयोः कात्यायनः ।अपकारक्रियायुक्ता निर्लज्जा चार्थनाशिनी ।व्यभिचाररता या स्त्रीधनं सार्हति
”याज्ञवल्क्यः ।“दुर्भिक्षे धर्म्मकार्य्ये वा व्याधौ संप्रतिरोधके ।गृहीतं स्त्रीधनं भर्त्ता नाकामो दातुमर्हति
”संप्रतिरोधके भोजनाद्यवरोधकारिण्युत्तमर्णा-दिके अन्यत्र तु कात्यायनः ।“न भर्त्ता नैव सुतो पिता भ्रातरो ।आदाने वा विसर्गे वा स्त्रोधने प्रभविष्णवः
*अथ स्तीधनाधिकारिणः देवलः ।“सामान्यं पुत्त्रकन्यानां मृतायां स्त्रीधनं विदुः
अप्रजायां हरद्भर्त्ता माता भ्राता पितापिवा” ।अत्र द्वन्द्वनिर्द्देशात् पुत्त्रकन्ययोस्तुल्याधिकारः ।अन्यतराभावे अन्यतरस्य तद्धनम् पतयो-रभावे ऊढाया दुहितुः पुत्त्रवत्याः सम्भावित-पुत्त्रायाश्च तुल्याधिकारः स्वपुत्त्रद्वारेणपार्व्वणे ।“सपिण्डीकरणादूर्द्ध्वं यत् पितृभ्यः प्रदीयते ।सर्व्वेष्वं शहरा माता इति धर्म्मेषु निश्चयः
”इति शातातपोक्ततद्भोम्यपतिपिण्डदानसम्भ-वात् तथा नारदः ।“पुत्त्राभावे तु दुहिता तुल्यसन्तानदर्शनात्
”अतएव एतादृशदुहित्रभावे पौत्त्राधिकारः ।तदभावे दौहित्राधिकारः ।“दौहित्रोऽपि ह्यमुत्रैनं सन्तारयति पौत्त्रवत्
”इति मनुवचने दौहित्रे पौत्त्रधर्म्मातिदेशात् ।पुत्त्रेण परिणीतदुतितुर्व्वाधाद्वाधकपुत्त्रेण वाध्य-दुहितृपुत्त्रवाधस्य न्याय्यत्वात् एवं तदभावेप्रपौत्त्रः तद्भोग्यपिण्डदातृत्वात् तदभावे बन्ध्या-विधवयोर्म्मातृधनाधिकारः तयोरपि तत्प्रजा-त्वात् तदभावे तु भर्त्ता तच्च पितृमातृ-दत्तधनविषयं तत्र भ्रातुरधिकारात् तथा चवृद्धकात्यायनः ।“पितृभ्याञ्चैव यद्दत्तं दुहितुः स्थावरं धनम् ।अप्रजायामतीतातां भ्रातृगामि तु सर्व्वदा
”मातुः परिणयनकाललब्धन्तु पुत्त्रसत्त्वेऽपि क्रमे-णानूढोढदुतित्रोरेवाधिकारः मातुः पारि-णाय्यं स्त्रियो भजेरन्निति वशिष्ठोक्तेः स्त्रीधनंदुहितॄणामप्रत्तानामप्रतिष्ठितानाञ्चेति गोतम-वचनेन प्रथममप्रत्तानामवाग्दत्तानां तदभावेत्वप्रतिष्ठितानां वाग्दत्तानां ईषदर्थे नञ् तद-भावे चकारसमुच्चितानामूढानां स्त्रीधनं दुहि-तॄणामिति सामान्यतः प्रागुक्तत्वात् अप्रत्ता-नामित्यादेस्तु क्रमार्थत्वेनोपसंहारार्थत्वात् ।व्यक्तमाह मनुः ।“मातुश्च यौतुकं यत् स्यात् कुमारीभाग एवसः
”यौतुकपदं यु मिश्रणे इत्यस्मात् सिद्धं मिश्रता चस्त्रीपुंसयोव्विवाहाद्भवति यदेतत् हृदयन्तवतदस्तु हृदयं मम यदिदं हृदयं मम तदस्तुहृदयं तव इति मन्त्रलिङ्गात् यौतुकं तदितिवाचस्पतिमिश्ररायमुकुटधृतात् यौतुकं यौतकमपि साधु परिणयनकालः परिणयनपूर्व्वा-परीभूतकालः वृद्ध्यारम्भपत्यभिवादनान्तो-विवाहतत्त्वे विवृतः यत्तु मनुवचनम् ।“स्त्रियास्तु यद्भवेद्वित्तं पित्रा दत्तं कथञ्चन ।ब्राह्मणी तद्धरेत् कन्या तदपत्यस्य वा भवेत्
”इति तत् पित्रा दत्तमिति विशेषणाद्विवाह-समयादन्यदपि पितृदत्तं कन्यायां एवेत्येत-दर्थम् ब्राह्मणीपदन्तु कन्यामात्रपरम् यद्वाक्षत्त्रियादिस्त्रीणामनपत्यानां पितृदत्तं धनंसपत्नीदुद्विता ब्राह्मणीकन्या हरेत् पुनरप्र-जस्त्रीधनं भर्त्तुरिति वचनावकाशः इति वच-नार्थः तभावे पुत्त्राधिकारः ।“दुहितॄणामभावे तु रिक्थं पुत्त्रेषु तद्भवेत्
”इति मनुवचनात्
एवं पुत्त्राधिकारात् प्राक् दुहित्रधिकारविधा-यकवचनान्तराण्येतद्विषयकाणि पुत्त्राद्यभावेतु ब्राह्म्यादिपञ्चकविवाहकालीनं स्त्रीधनंभर्त्तुः आसुरादित्रयविवाहकालीनन्तु मातुःतदभावे पितुः यथा मनुः ।“ब्राह्म्यदैवार्षगान्धर्व्वप्राजापत्येषु यद्धनम् ।अतीतायामप्रजायां भर्त्तुरेव तदिष्यते
यत्तस्याः स्यात् धनं दत्तं विवाहेष्वासुरादिषु ।अतीतायामप्रजायां मातापित्रोस्तदिष्यते
”कन्याधनाधिकारे क्रममाह बौधायनः ।“रिक्थं मृतायाः कन्याया गृह्णीयुः सोदराःस्वयम् ।तदभावे भवेन्मातुस्तदभावे भवेत् पितुः
अत्रक्रमदर्शनात् पूर्व्ववचने मातापित्रोरित्यत्रपाठक्रमेणाधिकारो तु द्वन्द्वनिर्द्देशात् समु-च्चितेन बृहस्पतिः ।“मातृस्वसा मातुलानी पितृव्यस्ती पितृस्वसाश्वश्रूः पूर्व्वजपत्नी मातृतुल्या प्रकीर्त्तिताः
यदासामौरसो स्यात् सुतो दौहित्र एव वा ।तत्सुतो वा धनं तासां स्वस्रीयाद्याः समा-प्नुयुः
”औरसपदं कन्यापुत्त्रोभयपरम् सुत इतिसपत्नीपुत्त्रपरम् ।“सर्व्वासामेकपत्नीनामेका चेत् पुत्त्रिणी भवेत्सर्व्वास्तास्तेन पुत्त्रेण प्राह पुत्रवतीर्म्मनुः
”इति मनुस्मृतेः ।एकपत्नीनामिति एकः पतिर्यासां ताः तुसुतपदमौरसविशेषणं वैयर्थ्यात् सपत्नीपुत्त्र-सद्भावे स्वस्रीयाद्यधिकारापत्तेश्च तत्सुत इतिपौत्त्रः सपत्नीपौत्त्रपरं तु दौहित्रपुत्त्रपरं तस्यस्वभोग्यभर्त्तृपिण्डदानानधिकारात् अत्र प्रागु-क्तानुसारात् दौहित्रपर्य्यन्तानन्तरमेव सपत्नी-पुत्त्रतत्पुत्त्रयोरधिकारः तु प्रागुक्तभर्त्रादि-पितृपर्य्यन्ताभावेऽपीति वाच्यं भर्त्रादीनां धनि-भोग्यपार्व्वणपिण्डदानानधिकारात् तस्मादे-तेषां सपत्नीपौत्त्रान्तानां तत्सुतो वेतिबाशब्दसमुच्चितानाम् ।“मामान्यं पुत्त्रकन्यानां मृतायां स्त्रीधनंविदुः ।अप्रजायां हरत् भर्त्ता माता भ्राता पितापि-वा
”इति देवलोक्तानां भर्त्त्रादिपितृपर्य्यन्तानाञ्चा-भाव एव सत्स्वपि श्वशुरभ्रातृश्वशुरादिषुस्वस्रायाद्या इत्यनेन भगिनीसुतभर्त्तृभागिनेय-भर्त्तृ ज्येष्ठकनिष्ठोभयरूपभ्रातृसुत-स्वभ्रातृपुत्त्र-जामातृ-देवराणां मातृस्वस्रादिधने अधिकारः ।अनन्यगतेर्व्वचनात् अत्र ।“त्रयाणामुदकं कार्य्यं त्रिपु पिण्डः प्रवर्त्तते ।चतुर्थः सम्प्रदातैषां पञ्चमो नोपपद्यते
”इति दायभागप्रकणीयमनुस्मृतेः ।पिण्डदोऽंशहर इति याज्ञवल्क्यीयात् मातृ-तुल्याः प्रकीर्त्तिता इत्यनेन स्वस्रीयादीनां पुत्त्र-त्वज्ञापनेन एकप्रयोजनकत्वात् ।“मातुलो भागिनेयस्य स्वस्रीयो मातुलस्य ।श्वशुरस्य गुरोश्चैव सख्युर्मातामहस्य
एतेषाञ्चैव भार्य्याभ्यः स्वसुर्मातुः पितुस्तथा ।पिण्डदानन्तु कर्त्तव्यमिति वेदविदां स्थितिः ।इति शातातपवनात् ।पिण्डदानविशेषेणैव षण्णामेषामधिकारक्रमःप्रतिपत्तव्यः पाठक्रमादर्थक्रमस्य बलवत्त्वात् ।अन्यथा सर्व्वशेषे देवराधिकारे महाजनविरोधःस्यात् तत्र प्रथमं देवरः तत्पिण्डतद्भर्त्तृपिण्ड-तद्भर्त्तृदेयपुरुष-त्रय-पिण्डदत्वात् सपिण्डत्वाच्च-भ्रातृस्त्रीधने अधिकारी तदभावे भ्रातृश्वशुर-देवरयोः सुतौ तत्पिण्डतद्भर्त्तृपिण्डतद्भर्त्तृदेय-पुरुषद्वयपिण्डदत्वात् सपिण्डत्वाच्च तयोरभावेत्वसपिण्डोऽपि भगिनीपुत्त्रः तत्पिण्डतत्पुत्त्रदेय-तत्पित्रादित्रयपिण्डदत्वात् तदभावे भर्त्तृभा-गिनेयः पुत्त्राद्भर्त्तुर्दुर्बलत्वेन तत्स्थानपातिनो-रपि भगिनीपुत्त्रभत्तृभागिनेययोस्तथैव बला-बलस्य न्याय्यत्वेन तद्भर्त्तृदेयपुरुषत्रयपिण्डद-त्वात् तत्पिण्डदत्वात् तद्भर्त्तृपिण्डदत्वाच्च मातु-लानीधने अधिकारी तदभावे भ्रातृपुत्त्रःतत्पिण्डतत्पुत्त्रदेयतत्पित्रादिपिण्डद्वयदत्वात्पितृस्वसुर्धने अधिकारी तदभावे श्वशुरयोःपिण्डदानात् जामाता श्वश्रूधने अधिकारीतिक्रमः स्वस्रीयाद्या इति अधिकारिमात्रपरं नपाथिकक्रमपरं एषां षण्णां प्रातिस्विकोक्ताना-मभावे सपिण्डानन्तर्य्येण श्वशुरादिवदधिकारीन सपिण्डाभावे मातृस्वसेति वचनं वाच्यंअस्मिन्नधिकारिगणने देवरतत्सुतभ्रातृश्वशुर-सुतानांअधिकारज्ञापनादासन्नतरश्वशुरभ्रातृश्वशुरादेः परित्यागादिति इति दायतत्त्वम्
वाचस्पत्यम्
Sanskrit
स्त्रीधन
न०
त० स्त्रीस्वत्वाश्रये द्रव्यमात्रे इति मिताक्षरा-दयः “अध्यग्न्यव्याषाहनिकं भर्तृदायस्तथैव ।भ्रात्रादतं पितृभ्याञ्च षड्विधं स्त्रीधनं स्मृतम्” नारद-परिगणिते स्त्रीस्वत्वाश्रये धने इति दायभागादयः ।स्त्रीधनस्वरूपादिकं मिताक्षरामतानुसारेण वीरमि०मिरूपितं यथा“अथ स्त्रीधनविभागं वक्तुन्तत्स्वरूपं तावन्निरूप्यते तत्रमनुः “अध्यग्न्यध्यावहनिकन्दत्तञ्च प्रीतिकमेणि भ्रातृमातृपितृप्राप्तं षड्विधं स्त्रीधनं स्मृतमिमि” षड्वि-धमितिन्यूनसंख्याव्यवच्छेदपरन्नाधिक्यनिरासाय अतएव योगाश्वरण “पितृमावृपतिभ्रातृदत्तमध्यग्न्युपा-गतम् आधिवेदनिकाद्यञ्च स्त्रीधनं परिकीर्त्तितम्, इत्याद्यशब्द उपात्तः विष्णुनापि षडधिकानि स्त्रीधना-भ्युक्तानि यथाह “पितृमातसुतभ्रावृदत्तमध्यग्न्य-पागतम् आधिवेदनिकं बन्धुर्दत्तं शुल्समन्व धेय-मिति स्त्रीधनम” इति मारद “अध्यग्न्यध्यावाहनि-कम्भर्त्तृदायस्तथैव भ्रातृदत्तं पितृभ्याञ्च षाड्वधस्त्रीधनं स्मृतमिति षाड्रधत्वं मानववदेव व्याख्येयम् ।स्त्रीधनशब्दश्चायं यौगिकः स्त्रीखामिकन्धनमिति तुपारिभाषिकः योगसम्भवे परिभाषाया अन्याय्यात्वात् ।अत एव योगोश्वरेण रिक्थक्रयादिसाधारणस्वत्वो-पायसंग्रहायाद्यपदं प्रयुक्तम् ननु क्वचित् स्त्री-धनत्वनिषेधौऽनुपपन्न एवं सति स्यात् हि स्त्री-स्वामिकत्वं तत्र निषेद्धुं शक्यते बाधात् यथाहकात्यायनः “तत्र सोपधि यद्दत्तं यच्च योगवशेन वा ।वित्रा भ्रात्राऽथ वा पत्या तत् स्त्रीधनसुच्यते इति ।उपधिरुत्सवादाविवेदं मया दत्तं त्वया धार्य्यमलङ्कारादि-नान्यदेति नियमस्ततपूर्वकं दत्तं सोपधि योगवशेन दाया-दानां कन्यायै दत्तमिदन्तद्धनङ्कथं विभाज्यमिति ।शिल्पप्राप्तं सख्यादिभ्यः प्रोत्या प्राप्रन्तदपि स्त्रीधनमित्यप्याह एव “प्राप्तं शिल्पैस्तु यत्किञ्चित्-प्रीत्या चैव यदन्यतः भर्त्तुः स्वाम्यन्तदा तत्र शेषन्तुस्त्रीधनं स्मृतम्” इति पारिभाषिकत्वे भ्रात्रादिदत्तत्वेनप्राप्तं स्त्रीधनं प्रतिषिध्यते तेनैतस्माद्भिन्नमेव पित्रादि-दत्तं शिल्पादिपाप्तभिन्नं वा स्त्रीषनमिति परिभाष्यतेइति चेत् उच्यते नात्र स्त्रीधनत्वनिषेधः किन्तुतत्कार्य्य विभागादि निषेधः अत एवोत्तरश्लोके तत्र-भर्त्तुः स्वाम्यमित्युक्तम् भर्त्तुस्तद्विनियोगे स्वातन्त्र्यणस्त्रिया इत्यर्थः प्रथमश्लोके तु स्त्रीस्वत्वनिषेधोऽपि सम्भ-वति उपवियागपदयोरुपादानात् तादृशदाने चस्वत्वाभावस्य प्रसिद्धत्वात् “योगाधमनविक्रोतं योगदानप्रतिग्रहम् यत्र चाप्युपधिम्पश्येत्तत्सर्वं विनिवर्त्तये-दिति” मनुवचनात् “भार्य्या पुत्त्रश्च दासश्च त्रय एवाधनाःस्मृताः यत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनमित्यपिवचनम्भार्य्याविषये शिल्पादिप्राप्तपरमेव एकमूलकल्प-नालाघवात् अध्यग्न्यादिस्वरूपन्निरूपितं कात्या-यनेन “विवाहकाले यत् स्त्रीभ्यो दीयते ह्यग्निसन्निधौ तदध्यग्निकृत सङ्गिः स्त्राधनं परिकीत्तितम् ।यत्पुनर्ल्लभते नारी नीयमाना पितुर्गृष्ठात् अध्यावा-हभिकन्नाम स्त्रीधनन्तदुदाहृतम् प्रीत्या दत्तं तु यत्कि-ञ्चिच्छश्ना वा श्वशुरेण वा पादवन्दनकञ्चैव प्रीतिटत्त-न्तदुच्यत विवाहात्परतो यत्तु लब्ध भर्त्तृकुलात्स्त्रिया अन्थाएहेयन्तु तत्प्रोक्तं यल्लब्धं स्वकुलत्तथा ।गृहोपस्कारवाह्यानां दाह्याभरणषमंणाम् मूल्यंलब्धन्तु यत्किञ्चित्तच्छुल्कं परिकोत्तितम् ऊदयाकन्यया वापि पत्युः पितृगृष्टेऽपि या भ्रातुःसकाशात् पित्रोर्वा लब्धं सौदायिकं स्मृतम्” भर्त्तुःमोक्षस्त्यगोदानमिति यावत् अननुज्ञातत्यागभोग-विषयमेतत् तदनुज्ञया त्वनापद्यपि दोषः “स्वय-मेवेत्येवकारः स्वापत्यानां व्युदासार्थः भर्तृव्युदा-सस्य पतिर्नाहतीत्यनेनाभिधानात् भर्तृव्युदासेततो वहिरङ्गानां ब्रात्रादीनां व्युदासस्यापि दण्डा-पूपिकया सिद्धत्वात् अनापदीत्यमिधानदापदि नदोषः अतएव “पुत्रार्त्तिहरणे चापि स्त्रीधनं भोक्तु-मर्हतीति” तस्यैव वाक्यशेषः पतिरित्यनुषङ्गः पुत्र-ग्रहणं कुटुम्बोपलक्षकं तस्यार्त्तिर्भक्ष्याद्यभावनिमित्तापीडा तस्या हरणे चशब्दादन्यस्मिन्नपि धनाभावनिमित्ते सङ्कटे स्त्रीधनमननुज्ञातमपि पतिस्त्यक्तुं भो-ञ्चार्हतीत्यर्थः ननु परधने त्यागभोगयोः स्वाम्यनु-ज्ञया विना कथमर्हता वाधिताऽनेन वोध्यते अनु-ज्ञायान्त्वनापद्यपि विरोधः उच्यते वचनवला-त्ताद्वशविषये व्यये स्वत्वमेव तस्य तत्रेत्यदोषः अत-एव योगीश्वरोऽपि “दुर्भिक्षे धर्मकार्य्ये व्याधौसम्प्रतिरोधके गृहीतं स्त्रीधनं भर्त्ता नाकामो दातु, मर्हति” धर्मकार्य्ये आवश्यके नित्ये नैमित्तिके चसम्प्रतिरोधके दण्डाद्यर्थं राज्ञावरोधे कृते वाचस्पतिस्तुसम्प्रतिरोधक इति व्याधिविशेषणं कार्य्यानुष्ठानबाधकेइति तदर्थ इत्याह नाकामो दातुमर्हतीत्यपिदारिद्र्यादिकृतदानासामर्थ्ये दुर्भिक्षादिगृहीतमप्यवश्यंदेयमेतावतैव वचनोपपत्तौ सामर्थ्येऽसत्यदानमिच्छयेत्यस्यकल्पयितुमनर्हत्वात् पतिग्रहणादापद्यपि पत्युरेवपत्नीधनग्रहणाधिकारः प्रतिदानञ्चेच्छया नान्यस्येतिज्ञेयम् भर्त्रा दातुं प्रतिश्रुतं भार्य्यायै तस्मिन् मृतेपुत्रादिमिस्तस्यै देयमित्यप्याह एव “भर्त्रा प्रति-श्रुतं देयमृणवत् स्त्रीधनं सुतैरिति” सुतग्रहणंपौत्त्रप्रपौत्त्रयोरुपलक्षणमृणवदित्यभिघानात् अनेनस्त्रीधने जीवन्त्यान्तस्यां सुतानां जन्मना स्वत्वेऽपिनास्ति विभाग इति गम्यते एवं स्त्रीधनमुक्तम्” दाय-भागमतं पारिभाषिकपरत्वपक्ष एव अनयोर्युक्ता-युक्तत्वं सुधीभिर्भाव्यम् उत्तराधिकारिशब्दे ११०१ पृ०च तद्विभागो दृश्यः
Capeller
German
स्त्रीधन
n.
das Vermögen der Frau.