स्तेयं (steyaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte 1890
Englishशब्दकल्पद्रुमः
Sanskritस्तेयं, (स्तेनस्य भावः कर्म्म वा । स्तेन +“स्तेनाद्यन्नलोपश्च ।” ५ । १ । १२५ । इतियत् । नलोपश्च) चौर्य्यम् । तत्तु चौरस्य भावःतस्य कर्म्म च इत्यमरभरतौ । २ । १० । २५ ॥
तस्य लक्षणं यथा, प्रायश्चित्त्वविवेके ।“प्रत्यक्षं वा परोक्षं वा रात्रौ वा यदि वा दिवायत् परद्रव्यहरणं स्तेयं तत् परिकीर्त्तितम् ॥
”तत्करणे नरकं प्रतिप्रसवञ्च यथा, --व्यासोवाच ।“न हिंस्यात् सर्व्वभूतानि नानृतञ्च वदेत् क्वचित्नाहितं नाप्रियं वाक्यं न स्तेनः स्यात् कदाचनतृणं वा यदि वा शाकं मृदं वा जलमेव वा ।परस्यापहरन् जन्तुर्नरकं प्रतिपद्यते ॥
न राज्ञां प्रतीगृह्णीयान्न शूद्रपतितादपि ।न चान्यस्मादशक्तश्च निन्दितान् वर्जयेद्बुधः ॥
नित्यं याचनको न स्यान्न पुनस्तत् प्रयाचयेत् ॥
न विषं विषमित्याहुर्ब्रह्यस्वं विषमुच्यते ।देवस्वञ्चापि यत्नेन सदा परिहरेत्ततः ॥
पुष्पे शाकोदके काष्ठे तथा मूले फले तृणे ।अदत्तादानमस्तेयं मनुराह प्रजापतिः ॥
ग्रहीतव्यानि पुष्पाणि देवार्च्चनविधौ द्विजैः ।नैकस्मादेव नियतमननुज्ञाय केवलम् ॥
तृणं काष्ठं फलं पुष्पं प्रकाशं वै हरेद्बुधः ।धर्म्मार्थं केवलं ग्राह्यमन्यथा पतितो भवेत् ॥
तिलमुद्गयवादीनां मुष्टिर्ग्राह्या पथि स्थितैः ।क्षुधार्त्तैर्नान्यथा विप्र विधिविद्भिरितिस्थितिः ॥
”इति कौर्म्मे उपविभागे । १६ । १ -- १० ॥
स्ते यप्रायश्चित्तं यथा, --“एतैर्व्रतैरपोह्यं स्यादेनो हिंसासमुद्भवम् ।स्तेयदोषापहर्त्तॄणां व्रतानां श्रूयतां विधिः ॥
धान्यान्यधनचौर्य्याणि कृत्वा कामात् द्विजो-त्तम ।स्वजातीयगृहादेव कृच्छार्द्धेन विशुध्यति ॥
मनुष्याणान्तु हरणे स्त्रीणां क्षेत्रगृहस्य च ।कूपवापीजलानाञ्च शुद्धिश्चान्द्रायणं स्मृतम् ॥
द्रव्याणामप्लसाराणां स्तेयं कृत्वान्यवेश्मनः ।चरेत् सान्तपनं कृच्छ्रं तत्पापपरिशुद्धये ॥
भक्षभोज्यापहरणे यानशय्यासनस्य तु ।पुष्पमूलफलानाञ्च पञ्चगव्यं विशोधनम् ॥
तृणकाष्ठद्रुमाणान्तु पक्वान्नस्य गुडस्य तु ।तैलचर्म्मामिषाणान्तु त्रिरात्रं स्यादभोजनम् ॥
मणिमुक्ताप्रबालानां ताम्रस्य रजतस्य तु ।अयस्कांस्योपलानाञ्च द्वादशाहं कणान्नभुक् ॥
कार्पासकीटकोर्णानां द्विशफैकशफस्य च ।पक्षिगन्धौषधानाञ्च रज्वाश्चैव त्र्यहं पयः ॥
एतैर्व्रतैर्व्यपोहेत पापं स्तेयकृतं बुधः ॥
”इति मात्स्ये २०१ अध्यायः ॥
* ॥
स्तेयस्य दण्डविधिर्दण्डशब्दे द्रष्टव्यः । सुवर्ण-स्तेयप्रायश्चित्तं प्रायश्चित्तशब्दे द्रष्टव्यम् ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
