| YouTube Channel

स्तॄञ् (stRRJ)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
स्तॄ
मूलधातुः:
स्तॄञ्
धात्वर्थः:
आच्छादने
धातुः:
स्तॄ
मूलधातुः:
स्तॄञ्
धात्वर्थः:
आच्छादने
गणः:
क्र्यादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
स्तृणाति, स्तृणीते
अनुबन्धादिविशेषः:
प्वादिः, ल्वादिः
धातुप्रदीपः
Sanskrit
स्तॄञ् आच्छादने
- स्तृणाति स्तृणीते तस्तार तस्तरे स्तरिता स्तरीता स्तीर्य्यात् स्तीर्षीष्ट स्तरिषीष्ट अस्तारीत् अस्तीर्ष्ट अस्तरिष्ट अस्तरीष्ट तिस्तीर्षति तिस्तरिषति तिस्तरीषति स्तारयति अतस्तरत् ण्यन्ताल्लुङ् स्तीर्त्वा विस्तीर्णम् पुष्पप्रस्तारः कीर्त्तिविस्तारः वाग्विस्तरः विष्टरः विष्टारपङ्क्तिश्छन्दः विस्तॄणोति विस्तृतमिति स्तृञः सौवादिकस्य रूपम् 12
क्षीरतरङ्गिणी
Sanskrit
स्तॄञ् छादने
- स्तृणाति, स्तृणीते आस्तरिता आस्तरीता-वॄतो वा (7238) इतीटो दीर्घः लिङ्सिचोरात्मनेपदेषु (7242) वेट्-आस्तरिषीष्ट आस्तीर्षीष्ट, आस्तरिष्ट आस्तीर्ष्ट इट् सनि वा (7241)-आतिस्तीर्षति आतिस्तरिषति आतिस्तरीषति अत् स्मृदृत्वरप्रथ (7495) इति चङ्यभ्यासस्यात्त्वम्-अतस्तरत् आस्तीर्णः स्तीर्णिः प्रे स्त्रोऽयज्ञे-(3332) घञ् प्रस्तारः, यज्ञे तु प्रस्तरो हविषाम् प्रथने वावशब्दे (3333)-पटस्य विस्तारः, शब्दे-विस्तरः छन्दोनाम्नि (3334)-विष्टारपङ्क्तिः वृक्षासनयोर्विष्टरः (8393), अवे तॄस्त्रोर्घञ् (33120)-अवस्तारः स्वादौ स्तृञ् (56)- विस्तृणोति विस्तृतः स्तरो विस्तरभेदः स्तरी-(द्र0 उ0 3158) मेघः शय्या च-स्तरीमा मास्तीर्य 12
धातुवृत्तिः
Sanskrit
स्तॄञ् (अर्थः) आच्छादने
( स्तृणाति स्तृणासि स्तृणामि स्तृणीते स्तृणीषे स्तृणे तस्तार तस्तरतुः तस्तरिथ तस्तरिव तस्तरे तस्तरिषे तस्तरिवहे ) "ऋच्छत्यॄताम्'' इति गुणःवृद्धिविषये तु पूर्वविप्रतिषेधेन वृद्धिः कृते वा गुणे वृद्धिरित्युक्तम् (स्तरिता स्तरीता स्तरिष्यति स्तरिष्यते स्तरीष्यति स्तरीष्यते ) "वॄतो वा'' इत्यलिटीटो दीर्घविकल्पः ( स्तृणातु स्तृणीहि स्तृणानि स्तृणाव स्तृणीताम् स्तृणीष्व स्तृणै अस्तृणात् अस्तृणीताम् अस्तृणः अस्तृणाम् अस्तृणीत अस्तृणीयाताम् स्तृणीत स्तीर्यात् स्तीर्षीष्ट स्तरिषीष्ट ) "लिङ्सिचोरात्मनेपदेषु'' इतीड्विकल्पः "उश्च'' इति कित्वम् इट्पक्षे "वॄतः'' इति दीर्घग्स्य "न लिङि'' इति निषेधः ( अस्तारीत् अस्तारिष्टाम् ) "सिचि परस्मैपदेषु'' इतीटो दीर्घः ( अस्तीर्ष्टं अस्तरीष्ट अस्तरिष्ट ) "लिङ्सिचोः'' इतीङ्विकल्पः इटि "वॄत'' इति वा दीर्घः अनिटि "उश्च'' इति कित्त्वम् ( तिस्तीर्षति तिस्तरिषति तिस्तरीषति ) "इट् सनि वा'' इति वेट् इटि पूर्ववद्दीर्घः ( स्तारयति अतस्तरत् ) "अत्समृदॄत्वर'' इत्यभ्यास्यात्वम् ( मणिप्रस्तारः ) "प्रेस्त्रोऽयज्ञे" इति घञ् यज्ञविषये त्वपि (प्रस्तरः विस्तरः) "प्रथने वावशब्दे'' इति घञ् शब्दविषये तु विस्तरः ( विष्टारः पङ्क्तिच्छन्दः ) "छन्दोनाम्नि च'' इति योगाभ्यां घञ्षत्वे ( अवस्तारः ) "अवे तॄस्त्रोर्घञ्'' इति करणाधिकरणयोर्घञ् (स्तीर्णः स्तीर्णिः ) "ऋल्वादिभ्यः क्तिन्निष्ठावत्'' इति नत्वम् 12
कृदन्तरूपमाला
Sanskrit
1 {@“स्तॄञ् आच्छादने”@} 2 प्वादिः, ल्वादिश्च।
‘स्तॄञः श्नि च्छादने प्वादेः स्तृणीते स्तृणाति च।
श्नावृदन्तस्य…।।’ 3 इति देवः।
‘स्तृञ् आप्रवणे’ इति काशकृत्स्नः।
पा।
धा।
समीक्षायां ‘स्तृञ्’ इति ह्रस्वोपधेन मैत्रेय-क्षीरस्वामि-सायणादयः पठन्ति इत्युक्तम्।
तन्न समीचीनम्।
स्तारकः-रिका, स्तारकः-रिका, तिस्तरीषकः-तिस्तरिषकः-षिका, तिस्तीर्षकः-र्षिका, तेस्तिरकः-रिका
स्तरीता-स्तरिता-त्री, स्तारयिता-त्री, तिस्तरीषिता-तिस्तरिषिता- तिस्तीर्षिता-त्री, तेस्तिरिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि क्रैयादिककॄ 4 धातुवत् ऊह्यानि।
5 6 मणिप्रस्तारः, 7 प्रस्तरः, 8 पटस्य विस्तारः, शब्दविषये तु विस्तरः।
9 विष्टारः, 10 विष्टरः 11 , 12 अवस्तारः, आस्तीर्णः, 13 स्तीर्णिः, स्तरी-मेघः शय्या च, स्तरीमास्तीर्य, इमानि रूपाण्यधिकान्यत्रेति विशेषः।
प्रासङ्गिक्यः
01
=>
(१९३८)
02
=>
(९-क्र्यादिः-१४८४। सक। सेट्। उभ।)
03
=>
(श्लो। ३५)
04
=>
(२५८)
05
=>
[पृष्ठम्१३८९+ २८]
06
=>
[[१। ‘प्रे स्त्रोऽयज्ञे’ (३-३-३२) इति प्रशब्द उपपदे यज्ञभिन्नविषये घञ्। यज्ञविषये हविषाम् प्रस्तरः इति अप्प्रत्यय एव।]]
07
=>
[हविषाम्]
08
=>
[[२। ‘प्रथने वावशब्दे’ (३-३-३३) इति वि इत्युपसर्गे उपपदे प्रथने गम्यमाने घञ्प्रत्ययः। शब्दविषये विस्तरः।]]
09
=>
[[३। ‘छन्दोनाम्नि च’ (३-३-३४) इति छन्दोविषये नाम्नि घञ्प्रत्यये, ‘छन्दोनाम्नि च’ (८-३-९४) इति षत्वे रूपमेवम्।]]
10
=>
[[४। विस्तीर्यते इति विष्टरः। विपूर्वात् स्तॄधातोः ‘ॠदोरप्’ (३-३-५७) इत्यप्- प्रत्यये ‘वृक्षासनयोर्विष्टरः’ (८-३-९३) इति षत्वे रूपमेवम्। विष्टरः = आसनम्, अश्वत्थवृक्षश्च।]]
11
=>
[[आ। ‘अपूपुजन् विष्टरपाद्यमाल्यैः आतिथ्यनिष्णा वनवासिमुख्याः।’ भ। का। २-२६।]]
12
=>
[[५। ‘अवेतॄस्त्रोर्घञ्’ (३-३-१२०) इति करणाधिकरणयोर्घञ्।]]
13
=>
[[६। ‘ॠल्वादिभ्यः क्तिन्--’ (३-३-९४) इति क्तिनस्तकारस्य नकारः। णत्वम् च।]]