| YouTube Channel

स्तृञ् (stRJ)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
स्तृ
मूलधातुः:
स्तृञ्
धात्वर्थः:
आच्छादने
गणः:
स्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
उभयपदी
रूपम्:
स्तृणोति, स्तृणुते
अनुबन्धादिविशेषः:
ऋकारान्तः
धातुप्रदीपः
Sanskrit
स्तृञ् आच्छादने
- स्तॄणोति स्तृणुते स्तृणुतः स्तृण्वाते निस्तर्ता तिस्तीर्षति तास्तर्य्यते स्तृतम् स्तृत्वा 7
क्षीरतरङ्गिणी
Sanskrit
स्तृञ् आच्छादने
- स्तृणोति, स्तृणुते गुणोर्तिसंयोगाद्योः (7429)-आस्तर्यते विस्तृतः क्र्य्यादौ स्तॄञ् (913)-आस्तृणाति, आस्तीर्यते, आस्तीर्णः 6
धातुवृत्तिः
Sanskrit
स्तृञ् (अर्थः) आच्छादने
(स्तृणोति स्तृणुतः स्तृण्वन्ति स्तृणोषि स्तृणोमि स्तृण्वः स्तृणुवः स्तृणुते स्तृणुषे स्तृण्वे तस्तार तस्तरतुः तस्तरुः तस्तर्थ तस्तर तस्तार तस्तरिव तस्तरे तस्तराते तस्तरिषे तस्तरिढ्वे स्तरिध्वे तस्तरे तस्तरिवहे) क्रादिनियमादिट् थलि "अचस्तास्वत्'' इति निषेध ऋकारान्तत्वान्नित्यम् "ऋतश्च संयोगादेर्गुणः'' इति लिटि गुणः वृद्धिविषये तु पूर्वविप्रतिषेधेन वृद्ध्येव कृते वा गुणे "अत उयधायाः'' इति वृद्धिः ( स्तर्ता स्तरिष्यति स्तरिष्यते ) "ऋद्धनोः स्ये'' इतीट्, ( स्तृणोतु स्तृणु स्तृणवानि स्तृणुताम् स्तृणुष्व स्तृणवै अस्तृणोत् अस्तृणुत स्तृणुयात् स्तृण्वीत ) आशिषि ( स्तर्यात् ) संयोगाद्यृकारान्तधातुत्वात् "गुणोर्तिसंयोगाद्योः'' इति शयकोर्यकारादावसार्वधातुके लिङि गुणः शस्त्वस्य सम्भवति ( स्तृषीष्ट स्तरिषीष्ट ) "लिड्सिचोरात्मनेपदेषु'' इत्यधिकृत्य "ऋतश्च संयोगादेः'' इतीड्विकल्पः तत्रेडभावे "उश्च'' इति लिङ्सिचोः कित्त्वान्न गुणः ( अस्तार्षीत् अस्तार्ष्ठाम् अस्तृत अस्तृषाताम् अस्तरिष्ट अस्तरिषाताम् ) लिङ्वत्तङीड्विकल्पः, झलादावगुणत्वं ( तिस्तीर्षति ) "इको झल्'' इति सनः कित्वात् "अज्झन''इति दीर्घः "ऋत इद्धातोः''इतीत्वे रपरत्वे "हलि च''इतीक उपधाया दोर्घः ( तास्तर्यते ) "यङिच''इति संयोगाद्यृकारान्तत्वेन गुणः (तास्तर्ति तास्तरीति) रिग्रीकोरप्युदाहार्ये "सृपिसृतिस्तृसृस्त्यासेकसृवर्जम्' इत्यषोपदेशत्वादनादेशत्वान्न षत्वम् ( स्तारयति अतिस्तरत् ) "अत्स्मृदृत्वर'' इत्यत्र दीर्घान्तपाठान्नास्याद्भावः ( स्तृत्वा स्तृतः ) दीर्घान्तः क्र्यादिः 6
कृदन्तरूपमाला
Sanskrit
1 {@“स्तृञ् आच्छादने”@} 2 ‘लक्षणया विक्षेपे’ इति धा।
का।
व्याख्या--3।
‘तॄञः श्नि च्छादने प्वादेः स्तृणीते स्तृणाति च।
श्नावृदन्तस्य तत्रैव स्तृणोति स्तृणुते स्तृञः।।’ 4 इति देवः।
‘स्तृ प्रीतिरक्षापालने’ इति वोपदेवः इति पा।
धा।
समीक्षा।
सनि-- तिस्तीर्षकः-र्षिका, 5 तिस्तीर्षिता-त्री
यङि--तास्तरकः-रिका
विस्तृतः, 6 स्तीर्विः, 7 स्तरीः, 8 स्तरीमा इत्यादिकानि रूपाणि सर्वाण्यपि कृण्वतिवत् 9 बोध्यानि।
अष्टाध्याय्यां ग्रहणानि सर्वाण्यपि दीर्घान्तस्य क्रैयादिकस्येति बोध्यम्।
प्रासङ्गिक्यः
01
=>
(१९३६)
02
=>
(५-स्वादिः-१२५२। सक। अनि। उभ।)
03
=>
(२-६८)
04
=>
(श्लो। ३५)
05
=>
[[१। सन्नन्ते ‘इको झल्’ (१-२-९) इति सनः कित्त्वे ‘अज्झनगमां सनि’ (६-४-१६) इति दीर्घे, इत्वे रपरत्वे ‘हलि च’ (८-२-७७) इति उपधायाः दीर्घे रूपमेवम्।]]
06
=>
[[२। औणादिके (द। उ। १-२४) क्विन्प्रत्यये रूपमेवम्। स्तीर्विः = अध्वर्युः, तृणजातिर्वा।]]
07
=>
[[३। औणादिके (द। उ। १-८२) ईप्रत्यये रूपमेवम्। स्तरीः = मेघः, शय्या च।]]
08
=>
[[४। औणादिके (द। उ। ६-७६) ईमनिन्प्रत्यये रूपमेवम्। स्तरीमा = आच्छादनम्।]]
09
=>
(२४५)