| YouTube Channel

स्तम्भनं (stambhanaM)

 
शब्दकल्पद्रुमः
Sanskrit
स्तम्भनं,
क्ली,
(स्तम्भ + ल्युट् ।) जडीकरणम् ।यथा, वगलामुखीस्तोत्रे ।“दुष्टस्तम्भनमुग्रविघ्नशमनं दारिद्रविद्रावणम्
”षट्कर्म्मान्तर्गताभिचारकर्म्मविशेषः यथा, --“उलूककाकयोः पक्षौ गृहीत्वा मन्त्रवित्तमः ।आलिख्य वै शरावे निशायाञ्च साध्याक्षर-संपुटितम्
मन्त्रं स्थापितपवनं सहस्रजप्तं चतुस्पथे निखनेत्स्तम्भनमेतदवश्यं भविता जगताञ्च नात्रसन्देहः
”स्थापितपवनं कृतप्राणप्रतिष्ठम् ।“कृत्वा प्रतिकृतिमथवाश्मशानाङ्गारकेशशववसनजाम् ।सम्यगधिष्ठितपवनांहृद्गतनाम्नीं समन्त्रललाटाम्
वसनाधिष्ठितपवनांसहस्रजप्तां तदुल्कया वसनाम् ।दग्धां कृत्वा निखनेत्श्मशानदेशे सपदि वाक्स्तम्भः
आलिण्य चेष्टकायुगले मन्त्रं सनामपुटितम् ।निशया निशीथकाले सहस्रजप्तं प्रतिष्ठित-प्राणम्
बन्धनभतितीक्ष्णतरं स्तम्भनमतितीक्ष्णाम्बु-निःक्षिप्तम् ।लिखितमन्त्रचितामयकीलकं, सहितकर्म्म सनाम समारुतम्
कृतजपं त्रिसहस्रकसंख्ययापथि खनेदथ याननिवारणम् ।विहितनिम्बतरौ रिपुनामयुतंमनुमिमं निशया कृतनामकम् ।नवसहस्रजपादिसुसाधितंपथि खनेदथ सैन्यनिरोधनम्
”इति स्तम्भनम्
इति फेत्कारिणीतन्त्रे पटलः
*
अथाग्निस्तम्भनम् ।“मालूरस्य रसं गृह्य जलौकां तत्र पेषयेत् ।हस्तौ तु लेपयेत्तेन अग्निस्तम्भनमुत्तमम्
शाल्मलीरसमादाय खरमूत्रे निधाय तम् ।अग्न्यागारे क्षिपेत्तेन अग्निस्तम्भनमुत्तमम्
वायसी उदरं गृह्य मण्डूकवसया सह ।गुडिकां कारयेत्तेन ततोऽग्नौ प्रक्षिपेद्बशी
एवमेतत्पयोगेन अग्निस्तम्भनमुत्तमम्
रक्तपाटलमूलन्तु अवष्टब्धञ्च मूलकैः ।दिव्यं स्तम्भयते क्षिप्रं पयः पिण्डं जलान्तकम्
मुण्डीतकवचाकुष्ठं मरीचं नागरं तथा ।चर्व्वित्वा इमं सद्यो जिह्वया ज्वलनं लिहेत्गोरोचनां भृङ्गराजं चूर्णीकृत्य घृतं समम् ।दिव्यस्तम्भश्च पीत्वा स्यात् मन्त्रे णानेन वै तथाओँ ह्यं अग्निस्तम्भनं कुरु
ओँ नमो भगवतेजलं स्तम्भय स्तम्भय सं समं सके कके कचर ।जलस्तम्भनमन्त्रोऽयं जलं स्तम्भयते शिव
”इति गारुडे पूव्वखण्डे १८६ ११ -- १८
प्रकारान्तरं षट्कर्म्मशब्दे द्रष्टव्यम्