स्खद (skhada)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Wilson
Englishधातुपाठः (Krishnacharya)
Sanskrit स्खद्
स्खद
विद्रावणे
भ्वादिः
सकर्मकः
सेट्
आत्मनेपदी
स्खदते
घटादिः, षित्
धातुप्रदीपः
Sanskritस्खदँ स्खद स्खदने
- स्खदते । चस्खदे । स्खदयति । स्खदा । 771
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
शब्दकल्पद्रुमः
Sanskritस्खद, म ष ङ विदारे । इति कविकल्पद्रुमः ॥
(भ्वा०-आत्म०-सक०-सेट् ।) म स्खदयति ।उपसर्गात् परस्य तु वा शम यम फण इत्या-दिना वा ह्रस्वः । प्रस्खदति प्रस्खादयति । अवपरिवर्ज्जादुपसर्गात् परस्य घटादित्व नास्तिइति कातन्त्नाद्याः । तत्रैव अवस्थाने अप इतिभीमः प्रस्खादयति अवस्खादयति परिस्खद-यति । अपपरिभ्यां परस्य घटादित्वं नास्तीतिजीमराद्याः । अपस्खादयांत परिस्खादयतिप्रस्खदयति । स्खद स्खदने इति प्राञ्चः । स्खदनंस्थैर्य्यमिति विलोचनरामौ । पाटनमिति गो-विन्दः । क्लेशोत्पादनमिति गोयीचन्द्रः ।हिंसेति रमानाथः । इति दुर्गादासः ॥
क्षीरतरङ्गिणी
Sanskritस्खदँ स्खद खदने
-(अर्थविवरणम्) खदनं विदारणम्
स्खदयति 477
धातुवृत्तिः
Sanskritस्खदँ स्खद (अर्थः) स्खदने
(अर्थविवरणम्) स्खदनं विद्रावणमिति
स्वामी ( स्खदते स्खदिता स्खसदयति अचिस्खदत् अस्खदि परिस्खायदति) इत्यत्र मित्त्वं न भवति 756
कृदन्तरूपमाला
Sanskrit1 {@“स्खद स्खदने”@} 2 3 घटादिष्वेव द्विः स्खदेः पाठात् पूर्वपाठ आत्मनेपदार्थः-आत्मनेपदप्रकरणात्
उत्तरपाठस्तु ‘शेषात् कर्तरि--’ 4 इति परस्मैपदार्थ इति स्यात्।
वस्तुतः पूर्वं पठितस्यैव स्खदेः उपसर्गविशेषवशात् मित्त्वामित्त्वव्यवस्थार्थं पुनः पाठः इति न्याय्यम्।
काशकृत्स्नधातुपाठे तु ‘स्खदिर् अवत्यां च’ इति घटादिषु पठ्यते।
तस्यायमर्थः-अवत्याम् = अवधात्वर्थभूते रक्षणे स्खदिर्धातुर्मित्संज्ञकः।
चकारात् पूर्वस्मिन् गणसूत्र उपात्तस्य ‘परिवेषणे’ इत्यर्थेऽपि मिदयमिति।]] घटादिः।
5 ‘स्खदिर्--’ इति धातुकाव्यव्याख्यायां 6 पाठः।
‘स्खदनम् = विद्रावणम्’ इति स्वामी।
‘विदारणम्’ इति क्षीरस्वामी।
स्खादकः-दिका, 7 स्खदकः- 8 अवस्खादकः-परिस्खादकः- 9 अपस्खादकः- 10 प्रस्खादकः- दिका, चिस्खदिषकः-षिका, चास्खदकः-दिका
इत्यादीनि रूपाणि यथासम्भवं भौवादिकध्वनतिवत् 11 ऊह्यानि।
12 अवस्खादितम्।
01 (१९२७)
02 (१-भ्वादिः-७६८। सक। सेट्। आत्म।)
03 [[[अ]
04 (१-३-७८)
05 [पृष्ठम्१३८५+ ३०]
06 (२-१९)
07 [[१। धातोरस्य घटादिषु पाठात् मित्त्वे उपधाह्रस्वो णिजन्तेषु निरुपसृष्टेषु बोध्यः।]]
08 [[२। ‘स्खदिरवपरिभ्यां च’ (ग। सू। भ्वादिः) इति निषेधप्रकरणे घटादिषु वचनात् अवपूर्वकात् परिपूर्वकाच्च स्खदतेः न मित्त्वम्।]]
09 [[३। ‘अपावपरिभ्यः स्खदेः’ (बोधिन्यासे एवं घटादिषु वचनमिति धातुवृत्तिः) इति पक्षे अत्रापि अपपूर्वकस्य स्खदेः मित्त्वनिषेधात् उपधाह्रस्वो नेति बोघ्यम्।]]
10 [[४। “स्खदेः पूर्वं (= घटादिष्वेव इतः पूर्वं) पाठात् सामान्येन प्राप्तं मित्त्वं उपसृष्टात् यदि भवति तर्हि--अवाद्युपसृष्टादेव” इति मन्वानाः क्षीरस्वाम्यादयः प्रपूर्वकादपि मित्त्वाभावेन रूपमिच्छन्ति। तत्तु काशिकादिषु ‘न’ इत्यनुवर्त्य अवाद्युपसृष्टात् स्खदेरेव मित्त्वं न--अन्यत्र मित्त्वमस्त्येव--इति व्याख्यातत्वात् अनाकरमिति बोध्यम्।]]
11 (९४०)
12 [[आ। ‘इत्याद्यवस्खादितमानसास्ता बालाः परिस्खादितधैर्यबन्धाः। दुष्टान् अपस्खादयितुं प्रयाते कृष्णे विलेपुः फणिता विमोहम्।।’ धा। का। २-१९।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
