| YouTube Channel

स्कन्भुः (skanbhuH)

 
कृदन्तरूपमाला
Sanskrit
1 {@“स्कन्भुः”@} 2 सौत्रोऽयं धातुः।
‘स्तन्भुस्तुन्भुस्कन्भुस्कुन्भुस्कुञ्भ्यः श्नुश्च’ 3 इति ‘वेः स्कभ्नातेर्नित्यम्’ 4, ‘ग्रसिंतस्कभित--’ 5 इत्यत्र उपात्तः।
स्तम्भुधातुसहपाठात् प्रयोगे भौवादिकस्कभिधातुवत् 6 रूपाणां सत्त्वाच्च प्रतिष्टम्भार्थकत्वमस्याहुः।
स्कुञ्धातोराप्रवणार्थकत्वमस्यापि वक्तुं शक्यम्।
‘स्कन्भु रोधनार्थः’ इति पदमञ्जरी 7।
धातोरुदित्कर- णात्, तस्य ‘उदितो वा’ 8 इति क्त्वायामिड्विकल्प उपयोगात् श्नुश्नाप्रत्ययमात्रविषयकत्वमस्य--इति न।
नोपधोऽयं धातुः।
भौवादिकः स्कभिधातुस्तु इदित् आत्मनेपदी, अस्मात् भिन्नः।
अषोपदेशोऽयम्।
प्रतिबन्धार्थकत्वात् सकर्मकः, श्नुश्नाप्रत्यययोर्विधानात् 9 स्कभ्नुवन्-विस्कभ्नुवन्-ती, स्कभ्नन्-विष्कभ्नन्-ती इति शतरि रूपाणि।
‘शेषात् कर्तरि--’ 10 इति नियमितत्वात्-आत्मनेपदप्रवृत्तिनिमित्ताभावात् परस्मैपदमेव।
‘वेः स्कभ्नातेर्नित्यम्’ 11 इत्यत्र काशिकादिषु 12 विष्कम्भिता, 13 विष्कम्भितुम्, विष्कम्भितव्यम्’ इत्युदाहृतत्वात् इण्निषेधवचनाभावाच्च सेडयं धातुः।
अत एव उदित्करणमित्यप्यवधेयम्।
14 विष्कभिते अजरे’।
विष्कब्धः।
15
प्रासङ्गिक्यः
01
=>
(१९२३)
02
=>
(५-स्वादिः
\n\n ९-क्र्यादिः-सक। सेट्। पर।)
03
=>
(३-१-८२)
04
=>
(८-३-७७)
05
=>
(७-२-३४)
06
=>
(१९२४)
07
=>
(७-२-३४)
08
=>
(७-२-५६)
09
=>
[[३। ‘स्तन्भुस्तुन्भुस्स्कन्भु--’ (३-१-८२) इत्यादिना शतरि श्नुः श्ना पाक्षिकत्वेन। यदा श्नुः--तदा ‘अनिदितां--’ (६-४-२४) इत्युपधानकारलोपः, उवङ्। विपूर्वकात् षत्वप्रसक्त्यभावात् सकारस्यैव श्रवणम्
\n\n यतः ‘वेः स्कभ्नातेः’ (८-३-७७) इति श्नाविकरणान्तस्यैव षत्वविधायके सूत्रोपादानम्-ततः यदा श्ना-- तदा उपाधानकारलोपे, ‘श्नाऽभ्यस्तयोरातः’ (६-४-११२) इत्याकारलोपे षत्वे विष्क- भ्नन् इति रूपम्।]]
10
=>
(१-३-७८)
11
=>
(८-३-७७)
12
=>
[[४। ‘वेः स्कभ्नातेः--’ (८-३-७७) इत्यत्र क्रैयादिकस्यैव सूत्र उपादानात् तदन्तादे- वेमानि षत्वघटितानि रूपाणि। यदा तु सौवादिकात् स्कभ्नोतेः तृजादयो भवान्ति तदानीं विस्कम्भिता-त्री, इत्यादीनि षत्वरहितानि रूपाणि यथासम्भवमूह्यानि।]]
13
=>
[[आ। ‘विष्कम्भितुं समर्थोऽपि नाचलद् ब्रह्मगौरवात्।।’ भ। का। ९। ७६।]]
14
=>
[[५। उदित्त्वेन क्त्वायामिड्विकल्पनात् ‘यस्य विभाषा’ (७-२-१५) इति निष्ठायामिण्निषेधे प्राप्ते ‘ग्रसितस्कभित--’ (७-२-३४) इत्यत्र निपातनात् इडागमश्छन्दसि। लोके तु इट्
\n\n विष्कब्ध इत्येव। अत्र उपधानकारलोपधत्वजश्त्वेषु रूपम्।]]
15
=>
[पृष्ठम्१३८४+ २८]