| YouTube Channel

स्कन्दः (skandaH)

 
Apte
English
स्कन्दः [skandḥ], [स्कन्द्-अच्]
Leaping.
Quicksilver.
N.
of Kārtikeya
सेनानीनामहं स्कन्दः
Bg.*
1.24
R.*
2. 36
7.1
Me.*
45.
N.
of Śiva.
The body.
A king.
The bank of a river.
A clever man.
A kind of disease common to children.
Effusion, spilling.
Perishing, destruction.
Comp.
-अंशकः quicksilver. -जननी
N.
of Parvatī. -जित्
N.
of Viṣṇu.-पुत्रः a son of Skanda (euphemistic term for a thief)
प्रथममेतत् स्कन्दपुत्राणां सिद्धिलक्षणम्
Mk.*
3.12/13. -पुराणम् one of the 18 Purāṇas. -मातृ
f.
N.
of Durgā.
षष्ठी a festival in honour of Kārtikeya on the sixth day of Chaitra.
The 6th day of the light half of the कार्तिक month.
Hindi
Hindi
कार्तिकेय
Apte Hindi
Hindi
स्कन्दः
पुं*
- स्कन्द् + अच्
उछलना
स्कन्दः
पुं*
- स्कन्द् + अच्
पारा
स्कन्दः
पुं*
- स्कन्द् + अच्
कार्तिकेय का नाम
स्कन्दः
पुं*
- स्कन्द् + अच्
शिव का नाम
स्कन्दः
पुं*
- स्कन्द् + अच्
शरीर
स्कन्दः
पुं*
- स्कन्द् + अच्
राजा
स्कन्दः
पुं*
- स्कन्द् + अच्
नदीतट
स्कन्दः
पुं*
- स्कन्द् + अच्
चतुर पुरुष
स्कन्दः
पुं*
- स्कन्द्+अच्
क्षरण
स्कन्दः
पुं*
- स्कन्द्+अच्
ध्वंस
Wordnet
Sanskrit
Synonyms:
स्कन्दोपनिषद्, स्कन्दः
noun
एका उपनिषद्
"स्कन्दोपनिषद् यजुर्वेदेन सम्बन्धिता।"
Synonyms:
स्कन्दः, षडाननः, कुमारः, कार्त्तिकेयः, षाण्मातुरः, मयूरकेतुः, सिद्धसेनः, विशाखः, अग्निभूः, आम्बिकेयः, आग्नेयः, कामजितः, गाङ्गेयः, चन्द्राननः, तारकारिः, देवव्रतः, मयूरेशः, शिखीश्वरः, कार्तिकः, हरिहयः, क्रौञ्चारिः, महिषार्दनः, रुद्रतेजः, भवात्मजः, शाङ्करिः, शिखीभूः, षण्मुखः, कान्तः, जटाधरः, सुब्रह्मण्यः
noun
भगवतः शिवस्य ज्येष्ठपुत्रः।
"सेनानीनामहम् स्कन्दः। "
Synonyms:
पारदः, रसराजः, रसनाथः, महारसः, रसः, महातेजः, रसलेहः, रसोत्तमः, सूतराट्, चपलः, जैत्रः, रसेन्द्रः, शिवबीजः, शिवः, अमृतम्, लोकेशः, दुर्धरः, प्रभुः, रुद्रजः, हरतेजः, रसधातुः, अचिन्त्यजः, खेचरः, अमरः, देहदः, मृत्युनाशकः, सूतः, स्कन्दः, स्कन्दांशकः, देवः, दिव्यरसः, श्रेष्ठः, यशोदः, सूतकः, सिद्धधातुः, पारतः, हरबीजम्, रजस्वलः, शिववीर्यम्, शिवाह्वयः
noun
धातुविशेषः, क्रमिकुष्ठनाशकः ओजयुक्तः रसमयः धातुः।
"पारदः निखिलयोगवाहकः अस्ति।"
Tamil
Tamil
ஸ்கந்த3: : முருகன், சிவன், அரசன், திறமை உள்ளவன், பாதரசம், தாவுதல்.
शब्दकल्पद्रुमः
Sanskrit
स्कन्दः,
पुं,
(स्कन्दते उत्प्लुत्य गच्छति स्कन्दतिशोषयति दैत्यान् वा स्कन्द + अच् ।) कार्त्ति-केयः इत्यमरः ४२
तस्य उत्पत्तिषडा-ननपञ्चनामचतुर्म्मर्त्त्यभिषेकगणवाहनास्त्रादियथा, --नारद उवाच ।“किमर्थमेषकः क्रौञ्चो भिन्नः स्कन्देन सुव्रत ।एतन्मे विस्तराद्व्रह्मन् कथयस्वामितद्युते
पुलस्त्र्य उवाच ।एतां ते कथयिष्यामि कथां पुण्यां पुरातनीम् ।यशोवृद्धिं कुमारस्य कार्त्तिकेयस्य नारद
यत् पीतं वीतिहोत्रेण वीर्य्यं त्यक्तं पिनाकिनः ।तेनाक्रान्तोऽभवद्व्रह्मन् मन्दतेजा हुताशनः
ततो जगाम देवानां सकाशममितद्युतिः ।दैवतैः प्रहितस्तूर्णं ब्रह्मलोकं जगाम
गच्छन् कुटिलां देवीं ददर्श पथि पावकः ।तां दृष्ट्वा प्राह चाधत्स्व तेजो यन्मम दुर्द्धरम्
महेश्वरेण सन्त्यक्तं निर्दहेत् भुवनान्यपि ।तद्धारणाच्च कुटिले पुत्त्रो धन्यो भविष्यति
इत्यग्निना सा कुटिला श्रुत्वा सुतमनुत्तमम् ।प्रक्षिप्तमात्रं जग्राह तेज ऐशं महापगा
ततस्त्वधारयद्देवी शार्व्वं तेजः स्वपूपुषत् ।हुताशनोऽपि भयात् यत्र तत्र परिभ्रमन्
पञ्चवर्षसहस्राणि ह्यध्यास्ते हव्यभुक् ततः ।मांसमस्थीनि रक्तानि मेदोमज्जस्त्वचस्तथा
रोमाणि चाक्षिकेशाद्याः सर्व्वे जाता हिर-ण्मयाः ।हिरण्यरेता लोकेऽस्मिन् विख्यातः पावकस्तदापञ्चवर्षसहस्राणि कुटिला ज्वलनोपमम् ।धारयन्ती तदा गर्भं ब्रह्मणः स्थानमागता
पितामहस्तां क्षीणाङ्गीं सन्तप्यन्तीं महापगाम्दृष्ट्वा पप्रच्छ केनायं तव गर्भः समाहितः
सा चाह शाङ्करं तेजः पावकेन समर्पितम् ।अप्यशक्तेन तेनाद्य निक्षिप्तं मयि सत्तम
पञ्चवर्षसहस्राणि धारयन्त्याः पितामह ।अन्नपानादिकमपि मेऽपच्यत कर्हिचित्
तच्छ्रुत्वा भगवानाह गच्छ त्वमुदयं गिरिम् ।तत्रास्ति योजनशतं विस्तीर्णं सुरसेवितम्
तमनुप्राप्य सुश्रोणि विस्तीर्णे गिरिसानुनि ।दशवर्षसहस्रान्ते ततो बालो भविष्यति
ब्रह्मणो वचनं श्रुत्वा कुटिला गिरिमागता ।आगत्य गर्भं तत्याज मुखेनैवाद्रिनन्दिनी
सा तु संत्यज्य तं बालं ब्रह्माणं सहसागमत् ।आपोमयी मन्त्रवशात् संयता कुटिला सती
तेजसा चापि शार्व्वेण रौक्मः शरवणोऽभवत् ।तन्निवासवतश्चाग्रे पादपा मृगपक्षिणः
ततो दशसु पूर्णेषु शरद्दशशतेष्वथ ।बालार्कदीप्तिः संजातो बालः कमललोचनः
उत्तानशायी भगवान् दिव्ये शरवणे स्थितः ।मुखेऽङ्गुष्ठं समाक्षिप्य रुरोद घनराडिव
एतस्मिन्नन्तरे देव्यः कृत्तिकाः षट् सुतेजसः ।ददृशुः स्वेच्छया यान्त्यो बालं शरवणे स्थितम्
कृपायुक्ताः समाजग्मुर्यत्र स्कन्दः स्थितोऽभवत्अहं पूर्व्वमहं पूर्व्वं तस्मै स्तन्ये हि चुक्रुशुः
विवदन्तीः ता दृष्ट्वा षण्मुखः समजायत ।अवीभरन्तस्ताः सर्व्वाः शिशुं स्नेहाच्चकृत्तिकाः
भ्रियमाणः सतीभिस्तु बालो वृद्विमगान्मुने ।कार्त्तिकेय इति ख्यातो जातः बलिनांवरः
एतस्मिन्नन्तरे ब्रह्मन् पावकं प्राह पद्मभूः ।कियत्प्रमाणः पुत्त्रस्ते वर्त्तते साम्प्रतं गुहः
तद्वचनमाकर्ण्य अजानन् तं हरात्मजम् ।प्रोवाच पुत्त्रं देवेश वेद्मि कतमो गुहः
तं प्राह भगवान् युक्तं तेजः पीतं पुरा त्वया ।त्रैयम्बकं त्रिलोकेशं जातः शरवणे शिशुः
श्रुत्वा पितामहवचः पावकस्त्वरितोऽभ्यगात् ।उदयाद्रिञ्च कुटिला तं ददर्श हिते रता
पप्रच्छ कुटिला देवी क्व शीघ्रं व्रजसे कवे ।सोऽब्रवीत् पुत्त्रदृष्ट्यर्थं जातं शरवणे शिशुम्
साब्रवीत्तनयो मह्यं ममेत्याह पावकः ।विवदन्तो ददर्शाथ स्वे च्छाचारी जनार्द्दनः
ती पप्रच्छ किमर्थं वा विवादमिह चक्रतुः ।तमूचतुः पुत्त्रहेतो रुद्रशुक्रोद्भवादिति
तावुवाच हरिर्देवो गच्छतं त्रिपुरान्तकम् ।स यद्वक्ष्यति देवेशः कुरुतं तदसंशयम्
इत्युक्तौ वासुदेवेन कुटिलाग्नी हरान्तिकम् ।समभ्येत्योचतुस्तथ्यं कस्य पुत्त्रो भवेद्गुहः
रुद्रस्तद्वाक्यमाकर्ण्य हर्षनिर्भरमानसः ।दिष्ट्या दिष्ट्येति गिरिजां प्रोद्भूतपुलकोऽब्रवीत्ततोऽम्बिका प्राह हरं देव गच्छाव तं शिशुम् ।दृष्ट्वा समागमेद्यां तस्याः पुत्त्रो भविष्यति
वाढमित्येव भगवान् समुत्तस्थौ वृषध्वजः ।सहोमया कुटिलया पावकेन धीमता
सम्प्राप्तास्ते शरवणं हरोमाकुटिलाग्नयः ।ददृशुः शिशुकं तञ्च कृत्तिकोत्सङ्गशायिनम्
ततः बालकस्तेषां मत्वा चिन्तितमादरात्योगी चतुर्म्मूर्त्तिरमूत् षण्मुखः शिशुः पितुः
कुमारः शङ्करमगात् विशाखो गिरिजामगात्कुटिलामगमच्छाखो नैगमेयोऽग्निमभ्यगात
ततः प्रीतियुतो रुद्रः उवाच कुटिला तथा ।पावकश्चापि देवेशः परां मुदमवाप
ततोऽब्रुवन् कृत्तिकास्ताः षण्मुखः किं हरात्मजः ।ता अब्रवीत् हरः प्रीत्या विवेश वचनं मुने
नाम्ना तु कार्त्तिकेयेति पुष्माकञ्च भवत्वसौ ।कुटिलायाः कुमारेति पुत्त्रोऽयं भविताव्ययः
स्कन्द इत्येव विख्यातो गौरीपुत्त्रो भवत्वसौ ।गुह इत्येव नाम्ना ममासौ तनयः स्मृतः
महासेन इति ख्यातो हुताशस्यास्तु पुत्त्रकः ।सारस्वत इति ख्यातः सुतः शरवणस्य
एवमेष महायोगी पृथिव्यां ख्यातिमेष्यति ।षडास्यत्वान्महाबाहुः षण्मुखो नाम गीयते
इत्येवमुक्ता भगवान् शूलपाणिः पितामहम् ।सस्मार दैवतैः सार्द्धं तेऽप्याजग्मुस्त्वरान्विताः
प्रणिपत्य कामारिं उमाञ्च गिरिनन्दिनीम् ।दृष्ट्वा हुताशनं प्रीत्या कुटिलां कृक्षिकास्तथा
ददृशुर्बालमत्युग्रं षण्मुखं सूर्य्यसन्निभम् ।मुष्णन्तमिव चक्षूंषि देवानां स्वेन तेजसा
कौतुकाभिवृताः सर्व्वे एवमूचः सुरोत्तमाः ।देवकार्य्यं त्वया देव कृतं देव्याग्निना तथा
तदुत्तिष्ठ व्रजामोऽद्य तीर्थमौजसमव्ययम् ।कुरुक्षेत्रे सरस्वत्यामभिषिञ्चाम षण्मुखम्
सेनायाः पतिरस्त्वेष देवगन्धर्व्वकिन्नराः ।महिसं घातयत्वे तारकञ्च सुदारुणम्
वाढमिप्यब्रवीच्छर्व्वः समुत्तस्थुः सुरास्ततः ।कुमारसहिता जग्मुः कुरुक्षेत्रं महाफलम्
तत्रैव देवताः सेन्द्रा रुद्रब्रह्मजनार्द्दनाः ।यत्नमस्याभिषेकार्थं चक्रुर्म्मुनिगणैः सह
ततोऽम्बुना सप्तसमुद्रवाहिनी-नदीजलेनापि महाफलेन ।वनौषधीभिश्च सहस्रमूर्त्तिभि-स्तदाभ्यषिञ्चन्त हराच्युताद्याः
अभिषिञ्चति सेनान्यां कुमारे दिव्यरूपिणि ।जगुर्गन्धर्व्वपतयो ननृतुश्चाप्सरोगणाः
अभिषिक्तं कुमारञ्च गिरिपुत्री निरीक्ष्य हि ।स्नेहात्तत्सङ्गमं स्कन्दं मूर्द्ध्यजिघ्रन्मुहुर्म्मुहुः
जिघ्रती कार्त्तिकेयस्य अभिषेकार्द्रमाननम् ।भात्यद्रिजा यथेन्द्रस्य देवमातादितिः पुरा
तदाभिषिक्तं तनयं दृष्ट्वा शर्व्वो मुदं ययौ ।पावकः कृर्त्तिकाश्चैव कुटिला यशस्विनी
ततोऽभिषिक्तस्य हरः सैनापत्ये गुहस्य तु ।प्रथमांश्चतुरः प्रदाच्छक्रतुल्यपराक्रमान्
घण्टाकर्णं लोहिताक्षं नन्दिषेणं शुदारुणम् ।चतुर्थं बलिनां मुख्यं ख्यातं कुमुदमालिनम्
हरदत्तान् गणान् दृष्ट्वा देवाः स्कन्दस्य नारद ।प्रददुः प्रमथानन्यान् सर्व्वे ब्रह्मपुरोगमाः
स्याणुर्ब्रह्मा गणं प्रादाद्विष्णुः प्रादात् गणत्रयम्संक्रमं विक्रमञ्चैव तृतीयञ्च पराक्रमम्
उक्षेशं पंङ्कजं शक्रो रविर्दण्डकपिङ्गलौ ।चन्द्रो मणिं वसुमणिं अश्विनौ नन्दिनन्दिनौ
ज्योतिर्हुताशनः प्रादात् ज्वालाजिह्वं तथा-परम् ।कुन्दनिष्कुन्दकुमुदान् धाता चानुचरान् ददौ
चक्रानुचक्रौ त्वष्टा वेधातिस्थिरदुस्थिरौ ।पाणित्यजं कालकञ्च प्रादात् पूषा महाबलौ
स्वर्णमालं धनार्कञ्च हिमवान् प्रमथोत्तमौ ।प्रादाद्दे वोच्छ्रितो बिन्ध्यस्तुतिशृङ्गञ्च पार्षदम्
सुवर्च्चसञ्च वरुणः प्रददौ चातिवर्च्चसम् ।सग्रहं विग्रहञ्चैव नागाभिजयसंजयौ
उन्मादं शङ्कुकर्णञ्च पुष्पदन्तं तथाम्बिका ।दुर्गञ्चातिबलञ्चैव श्रेष्ठौ चानुचरावुभौ
परिघं चटकं भीमं दाहाभिदहनौ तथा ।प्रददावंशुमाल्यञ्च प्रमथान् षण्मुखाय हि
यमः प्रमाथमुन्माथं कालसेनमजामुखम् ।तालशक्रं नाडिजञ्च षडेवानुचरान् ददौ
सुप्रभं शुभकर्म्माणं विधृतो दानवेश्वरौ ।सुप्रसुत्यं सन्नमित्र सुप्रजञ्च द्विजोत्तम
अनन्तः शङ्कुपीठञ्च निकुम्भकुमुदावजः ।एकाक्षं कुलटीचक्रः किचीटः कलसोदरः
”किचीटस्थाने किरीटः इति पाठः ।“सूचीवक्त्रः कोकनदः प्रदासः सिद्धकोऽव्ययः ।गणाः पञ्चदशैते वै यक्षैर्दत्त्वा गुहस्य ।कालिन्द्याः कलकन्दश्च नर्म्मदाया रणोत्कटः ।गोदावर्य्याः सिद्धपात्रस्तमसायास्तु पङ्कजः
सहस्रबाहुः सीताया वञ्जुलायाः स्मितोदरः ।मन्दाकिन्याः सुबाहुश्च विपद्यायाः प्रियङ्करः
ऐरावत्याश्चतुर्दंष्ट्रः षोडशाक्षोऽपरस्तथा ।मार्जारं कौशिकी प्रादात् क्रथक्रौञ्चौ चगोतमी
बाहुदा शतशीर्षञ्च बाहा गोनन्दनन्दिनौ ।भीमं भीमरथी प्रादात् दुर्गारिं सरयूर्ददौ
अष्टबाहुं ददौ काशी सुबाहुमपि गण्डकी ।महानन्दी चित्रदेवं चित्रा चित्ररथं ददौ
कुहुः कुवलयं प्रादात् मधुवर्णं मधूदका ।जम्बूकं धूतपापा वेण्वा पेटाननं ददौ
स्तुता प्रथमपर्णञ्च रेवा सागरवेगिनम् ।प्रभावा पाशजं प्रादात् काञ्चना कनकप्रभम्
धृतपत्रञ्च विमला चारुवक्त्रं मनोहरा
अपापा महारामं वेण्वा विद्रुमसुप्रभम्
सुप्रसादं सुवेण्वा जिष्णु मोघवती ददौ ।यज्ञबाहु विशाला सरस्वत्या ददुर्गणान्
कुटिलातनयस्यादात् दशशक्रबलाद्गणान् ।करालं शितकेशञ्चं कृष्णकेशं जटाधरम्
मेघनादं चतुर्दंष्ट्रं विद्युजिह्वं दशाननम् ।सोमाप्यायनमेवोग्रं देवयाजिनमेव
हंसास्यं कुण्डजठरं बहुग्रीवं हयाननम् ।कूर्म्मग्रीवञ्च पञ्चैतान् ददुः पुत्त्राय कृत्तिकाः
स्थूलजङ्घं कुण्डवक्त्रं लोहजङ्घं महाननम् ।पिण्डारकञ्च पञ्चैतान् ददुः स्कन्दाय चर्षयः
नागजिह्वं चन्द्रभासं पाणिकूर्म्मं शशिष्करम् ।वासवक्त्रं सजम्बूकं ददौ तीर्थः पृथूदकः
चक्रतीर्थं सुचक्राख्यं मकराक्षं गयाशिरः ।गणं पञ्चशिखं नाम ददौ कनखलः स्वयम्
बन्धुदत्तं वालिशिरो वालुसारञ्च पुष्करम् ।सर्व्वौजसं माहिषकं मानसं पिङ्गलं तथा
रुद्रमौशनसः प्रादात् ततोऽन्या मातरो ददुः ।वसुदामां शोणतीर्थः प्रभासो नन्दिनीमपि
इन्द्रतीर्थं विशोकाञ्च उदपानं घनस्वनाम् ।सप्तसारस्वतः प्रादात् मातरश्चतुरोऽद्भुताः
जितप्रियां माधवीञ्च तीर्थनेमिं मिताननाम् ।एकलूतां नागतीर्थः कुरुक्षेत्रं पलाशदाम्
ब्रह्मात्मनिः खण्डशिलां भद्रकालीं त्रिपिष्टपः ।पैण्डी भैण्डी योषभैण्डी प्रादादुरदरपावनः
सोपानीयां महान्प्रादाच्छालिकां मानसोह्रदःशतपुण्ड्रां शतानन्दां तथोलूखलमेखलाम्
पद्मावतीं माधवीञ्च ददौ बदरिकाश्रमः ।सुखसामेकचूलाञ्च देवीं धर्म्मधरां तथा
उकाथनीं वेदमित्रां केदारो मातरो ददौ ।सुनक्षत्राञ्च करणां सुप्रभावां सुमङ्गलीम्
वेदमित्रां चित्रसेनां ददौ रुद्रो महाबलः ।कोटराक्षी संयताक्षामसतीं बहुपुत्त्रिकाम् ।पलितां कमलाक्षीञ्च प्रयासां मानसो ददौ
सुपलीं मधुकुम्भाञ्च ख्यातिं दहदहां पराम् ।प्रादाद्वै कार्त्तिकेयाय सर्व्वपापविमोचनः
सान्तानिकां विकलिकां क्रमुकां खरवासिनीजलेश्वरी कुक्कुटिका सुदामा लोहमेखला
वपुष्मत्युन्मुकाक्षी केकनामा महाशनी ।रौद्रा भूभुविका तुण्डा श्वेततीर्थो ददौ त्विमाः
एतानि भूतानि गणाश्च मातरोदृष्ट्वा महात्मा विनतातनूजः ।ददौ मयूरं स्वसुतं महाजवंतथारुणश्चाद्भुतरत्नमुत्तमम्
शक्तिं हुताशोऽद्रिसुता तु वस्त्रंदण्डं गुरुः सा कुटिला कमण्डलुम् ।मालां हरिः शूलधरः पताकांकण्ठे हारं मघनानुरस्तः
गणैर्वृतो मातृभिरन्वितश्चमयूरसंस्थो वरशक्तिपाणिः ।सैन्याधिपत्ये वृतो भवेनरराज सूर्य्येव महावपुष्मान्
”इति वामनपुराणे कार्त्तिकेयोत्पत्तौ ५४ अध्यायः
देव्या द्वारपालविशेषः तस्य बलिर्यथा --“महानवम्यां शरदि रात्रौ स्कन्दविशाखयोः ।यवचूर्णमयं कृत्वा रिपुं मृण्मयमेव वा
शिरश्छित्त्वा बलिं दद्यात् कृत्वा तस्य तु मन्त्रतःअनेनैव तु मन्त्रेण खङ्गमामन्त्र्य यत्रतः
रक्तं किलकिली घोरघोरा धारविहिंसकः ।ब्रह्मशिख्याम्बिकाशिख्यममुकं चारिसत्तमम्
तान्तो विसर्गसहितः बिन्दुयुतोऽपरः ।ब्रह्माग्नियोगश्चन्द्रेण बिन्दुना समन्वितः
शिरश्छित्त्वा बलिं दद्यात् कृत्वा तस्य तुमन्त्रतः ।अनेनैव तु मन्त्रेण बिन्दुना समन्वितः
फडन्ते बलिषु प्रोक्तः खङ्गे स्कन्दविशाखयोः
रक्तद्रव्यैः सेचयित्वा कृत्तिमं तं रिपुं बलिम्
कुचन्दनस्य तिलकं ललाटेऽभिनिवेशयेत् ।रक्तमाल्यधरं कृत्वा रक्तवस्त्रधरं तथा
कण्ठे बद्ध्वा रक्तसूत्रैर्नाभौ माल्यञ्च कृत्रिमम् ।दत्त्वोत्तरशिरःस्कन्धं कृत्वा खङ्गेन च्छेदयेत्
शिरस्तस्य ततो दद्यात् स्कन्दाय तेन मन्त्रतः ।चतुर्द्दशस्वराग्निभ्यां संयुक्तः परः समम्
परतः परतः पूर्व्वं चन्द्रबिन्दुसमन्वितः ।स्कन्दस्य मूलमन्त्रोऽयं तेन तस्मै बलिं सृजेत्
चतुर्द्द शस्वराग्निभ्यां पतृतीयन्तु पूर्व्ववत् ।प्रोक्तो विशाखमन्त्रोऽयं तेन तस्मै बलिं सृजेत्
कुटिलाक्षौ कृष्णपिङ्गवर्णौ रक्तांशुधारिणौ ।त्रिशूलं करबालञ्च पाणिभ्यां दक्षिणे तथा
बिभ्रतौ नृकपालञ्च कर्त्तृकञ्चापि वामतः ।त्रिनेत्रौ नरमुण्डानां मालामुरसि बिभ्रतौ
विकटौ दशनैर्भीमैर्गणेशौ द्वारपालकौ ।ध्यानेन चिन्तयेद्देव्याः पुरतः संस्थितौ सदा
”इति कालिकापुराणे ६६ अध्यायः
*
(महादेवः इति महाभारतम् १३ १७ १०३
नृपतिः इति जटाधरः
शरीरम् इतित्रिकाण्डशेषः
पारदः इति राजनिर्घण्टः
नदीतटम् पण्डितः इति केचित्
बालकस्यग्रहविशेषः (यथा, --“स्कन्दो विशाखो मेषाख्यः श्वग्रहः पितृ-संज्ञितः ।शकुनिः पूतना शीतपूतना दृष्टिपूतना
मुखमण्डलिका तद्वद्रेवती शुष्करेवती ।तेषां ग्रहीष्यतां रूपं प्रततं रोदनं ज्वरः
सामान्यं रूपमुत्त्रासजृम्भाभ्रूक्षेपदीनताः ।फेनस्रावोर्द्ध्वदृष्टोष्ठदन्तदंशप्रजागराः
रोदनं कूजनं स्तन्यविद्वे षस्वरवैकृतम् ।नखैरकस्मात् परितः स्वधात्र्यङ्गविलेखनम्
तत्रैकनयनस्रावी शिरो विक्षिपते मुहुः ।हतैकपक्षः स्तब्धाङ्गः सस्वेदो नतकन्धरः
दन्तखादी स्तनद्वेषी त्रस्यन् रोदिति विस्वरः ।वक्रवक्त्रे वमेल्लालां भृशमूर्द्धं निरीक्षते
वसासृग्गन्धिरुद्विग्नो बद्धमुष्टिशकृच्छिशुः ।चलितैकाक्षिगण्डभ्रूः संरक्तो भयलोचनः
स्कन्दार्त्तस्तेन वैकल्यं मरणं वा भवेद्ध्रुवम्
”इत्युत्तरस्थाने तृतीयेऽध्याये वाभटेनोक्तम्
)तस्य चिकित्सा बालग्रहशब्दे द्रष्टव्या