| YouTube Channel

सौहार्द्दं (sauhArddaM)

 
शब्दकल्पद्रुमः
Sanskrit
सौहार्द्दं,
क्ली,
(सुहृदः सुहृदयस्य वा भावः कर्म्मवा सुहृत् सुहृदय वा + “हायनान्तयुवा-दिभ्योऽण् ।” १३० इत्यण् हृदयस्यहृदादेशः “हृद्भगसिन्ध्वन्ते पूर्व्वपदस्य ।”७ १९ इति उभयपदवृद्धिः ।) सुहृदोभावः तत्पर्य्यायः सख्यम् सौहृदम् ३साप्तपदीनम् मैत्री अजर्य्यम् सङ्गतम् ७इति हेमचन्द्रः
(यथा, महाभारते ।७७ ११ ।“सौहार्द्दे चानुरागे वेत्थ मे भक्तिमुत्तमाम् ।न मामर्हसि धर्म्मज्ञ त्यक्तुं भक्तामनागसम्
”)