| YouTube Channel

सौवर्च्चलं (sauvarccalaM)

 
शब्दकल्पद्रुमः
Sanskrit
सौवर्च्चलं,
क्ली,
(सुवर्च्चले देशे भवम् सुवर्च्चल +अण् ।) सुवर्च्चलदेशभवलवणम् सच्लवणइति भाषा तत्पर्य्यायः अक्षम् रुचकम् ।इत्यमरः ४२
कृष्णलवणम् ।इति रत्नमाला
तिलकम् हृद्यगन्धकम् ६रुच्यम् कौद्रविकम् इति राजनिर्घण्टः
अस्य गुणाः रुचिकारित्वम् उष्णवीर्य्यत्वम् ।निर्म्मलत्वम् कटुत्वम् गुल्मशूलविबन्धना-शित्वम् किञ्चित्पित्तकरत्वम् लघुत्वञ्च इतिराजवल्लभः
अपि ।“सौवर्च्चलं लघु क्षारं कटूष्णं गुल्मशूलनुत् ।ऊर्द्ध्ववातामशूलार्त्तिविबन्धारोचकान् जयेत्
”इति राजनिर्घण्टः
अन्यच्च ।“सौवर्च्चलं स्याद्रुचकमक्ष्यं पाक्यञ्च तन्मतम् ।रुचकं रोचनं भेदि दीपनं पाचनं परम्
सस्नेहवातनुन्नातिपित्तलं विशदं लघु ।उद्गारशुद्धिदं सूक्ष्मं विबन्धानाहशूलहृत्
”इति भावप्रकाशः
सर्ज्जिकाक्षारः इत्यमरः १०९
सुवर्च्चलासम्बन्धिनि, त्रि