| YouTube Channel

सौरसंवत्सरः (saurasaMvatsaraH)

 
शब्दकल्पद्रुमः
Sanskrit
सौरसंवत्सरः,
पुं,
(सौरः संवत्सरः ।) सूर्य्यस्यद्वादशराशिभोगावच्छिन्नकालः यथा, --“सौरसंवत्सरस्यान्ते मानेन शशिजेन तु ।एकादशातिरिच्यन्ते दिनानि भृगुनन्दन
”अपि ।“सौरेनाब्दस्तु मानेन यदा भवति भार्गव ।सावनेन तथा मासि दिनषट्कं प्रपूर्य्यते
”इति मलमासतत्त्वम्