| YouTube Channel

सौमनस्यं (saumanasyaM)

 
Apte 1890
English
सौमनस्यं 1 Satisfaction of mind, pleasure, delight
R. 15. 14, 17. 40.
2 A particular offering of flowers made to a Brāhmaṇa at a Śrāddha.
शब्दकल्पद्रुमः
Sanskrit
सौमनस्यं,
क्ली,
(सुमनसो भावः ष्यञ् ।) श्राद्धेपिण्डदानानन्तरब्राह्मणहस्ते पुष्पदानमन्त्रः ।यथा शातातपः ।“पिण्डनिर्व्वापरहितं यत्तु श्राद्धं विधीयते ।स्वधावाचनलोपोऽत्र विकिरस्तु लुप्यते
अक्षय्यदक्षिणास्वस्तिसौमनस्यमथास्त्विति
”छन्दोगपरिशिष्टम् ।“अथाग्रभूमिमासिञ्चेत् सुसुप्रोक्षितमस्त्विति ।शिवा आपः सन्त्विति युग्मानेवोदकेन
सौमनस्यमस्त्विति पुष्पदानमनन्तरम् ।अक्षतञ्चारिष्टञ्चास्त्विति अक्षतानपि दाप-येत्
”अथ प्रकृतब्राह्मणाचमनान्तरम् ब्राह्मणाग्र-भूमिं सुसुप्रोक्षितमस्त्विति प्रोक्षयेत् शिवाआप इत्यादिना उदकेन हस्ते सिञ्चेत्
सीम-नस्यमस्त्वित्यनेन हस्ते पुष्पदानं कुर्य्यात् इतिश्राद्धतत्त्वम्
सुमनसो भावः सौमनस्यं तदत्रश्राद्धे दत्तं पुष्पं सौमनस्यं मनसः प्रसादजनकंभवतु इति गुणविष्णुः
(सन्तुष्टचित्तता ।यथा माघे २८ ।“रथचरणवराङ्गनाकराब्ज-व्यतिकरसम्पदुपात्तसौमनस्याः
”प्रसन्नचित्तार्हे, त्रि यथा, भागवते १२ ४४ ।“धन्यं यशस्यमायुष्यं पुण्यं स्वस्त्ययनं महत् ।स्वर्ग्यं ध्रौव्यं सौमनस्यं प्रशस्यमघमर्षणम्
”)