| YouTube Channel

सौप्तिकं (sauptikaM)

 
शब्दकल्पद्रुमः
Sanskrit
सौप्तिकं,
क्ली,
(सुप्तौ सुप्तिकाले भवम् सुप्ति +ठञ् ।) रात्रियुद्धम् तत्पर्य्यायः निशा-रणम् इति जटाधरः
रात्रिमारणम् ।इति त्रिकाण्डशेषः
(यथा, महाभारते १० ।४ ३३ ।“अहन्तु कदनं कृत्वा शत्रूणामद्य सौप्तिके ।ततो विश्रमिता चैव स्वप्ता विगतज्वरः
”)महाभारतीयपर्व्वविशेषः यथा, --“आदिः सभावनविराटमथोद्यमश्चभीष्मो गुरू रविजमद्रवसौप्तिकञ्च ।स्त्रीपर्व्व शान्तिरनुशासनमश्वमेध-व्यासाश्रमो मुषलयानदिवावरोहः
”इति महाभारतटीका
सुप्तसम्बन्धिनि, त्रि