| YouTube Channel

सौन्दर्य्यं (saundaryyaM)

 
शब्दकल्पद्रुमः
Sanskrit
सौन्दर्य्यं,
क्ली,
(सुन्दरस्य भावः सुन्दर + ष्यञ् ।)सुन्दरत्वम् सुन्दरस्य भावः तस्य लक्षणं यथा, “अङ्गप्रत्यङ्गकानां यः सन्निवेशो यथोचितम् ।सुश्लिष्टः सन्धिबन्धः स्यात् तत् सौन्दर्य्यमुदा-हृतम्
इत्युज्ज्वलनीलमणिः
(यथा, कुमारे ४९ ।सर्व्वोपमाद्रव्यसमुच्चयेनयथाप्रदेशं विनिवेशितेन ।सा निर्म्मिता विश्वसृजा प्रयत्ना-देकस्थसौन्दर्य्यदिदृक्षयेव
”)