| YouTube Channel

सौधः (saudhaH)

 
शब्दकल्पद्रुमः
Sanskrit
सौधः,
पुं,
क्ली,
(सुधालेपोऽस्यास्तीति ज्योत्स्नादि-त्वादण् (राजसदनम् इत्यमरः १०
(यथा, रघुः ९३ ।“तस्य प्रसह्य हृदयं किल शोकशङ्कुःप्लक्षप्ररोह इव सौधतलं विभेद
”)रौप्यम् इति राजनिर्घण्टः
सुधासम्बन्धिनि, त्रि
(यथा, रामायणे ८० १९ ।“प्रसादमालासंयुक्ताः सौधप्राकारसंवृताः
”तथाच सुश्रुते ४४ ।“विरेचनानां तीक्ष्णानां पयः सौधं परं मतम्
”)
सौधः,
पुं,
दुग्धपाषाणः इति राजनिर्घण्टः