| YouTube Channel

सौदायिकं (saudAyikaM)

 
शब्दकल्पद्रुमः
Sanskrit
सौदायिकं, त्रि, (सुदायेभ्यः पितृमातृभर्त्तृकुल-सम्बन्धिभ्य आगतमिति सुदाय + ठञ् ।) पितृ-मातृभर्त्तृकुललब्धस्त्रीधनम् यथा, कात्यायनः ।“ऊढया कन्यया वापि पत्युः पितृगृहेऽथवा ।भर्त्तुः सकाशात् पित्रोर्व्वा लब्धं सौदायिकंस्मृतम्
सौदायिकं धनं प्राप्य स्त्रीणां स्वातन्त्र्यमिष्यतेयस्मात् तदानृशंस्याथं तैर्दत्तं तत्प्रजीवनम्
सौदायिके सदा स्त्रीणां स्वातन्त्र्यं परिकीर्त्तितम्विक्रये चैव दाने यथेष्टं स्थावरेष्वपि
”सुदायेभ्यः पितृमातृभर्त्तृकुलसम्बन्धिभ्यो लब्धंसौदायिकम् आनृशंस्यमनैष्ठुर्य्यम् इतिदायतत्त्वम्