| YouTube Channel

सौगन्धिकं (saugandhikaM)

 
शब्दकल्पद्रुमः
Sanskrit
सौगन्धिकं,
क्ली,
(सुगन्धोऽस्त्यस्येति सुगन्ध +ठन् ततः स्वार्थे अण् ।) कत्तृणम् (अस्यपर्य्यायो यथा, --“कत्तृणं रौहिषं देवजग्धं सौगन्धिकन्तथा ।भूतिकं व्यामपौरञ्च श्यामकं धूमगन्धिकम्
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
)कह्वारम् इत्यमरः १० ३६
पद्म-रागमणिः इति मेदिनी
नीलोत्पलम् इतिराजनिर्घण्टः
(अस्य पर्य्यायो यथा, --“इन्दीवरं कुवलयं पद्मं नीलोत्पलं स्मृतम् ।सौगन्धिकं शतदलमब्जं कमलमुच्यते
”इति गारुडे २०८ अध्यायः
यथा, महाभारते १५४ ।अपश्यत्तत्र पाञ्चाली सौगन्धिकमनुत्तमम् ।अनिलोढमितो नूनं सा बहूनि परीप्सति
”)