| YouTube Channel

सोस्रूयकः-यिका (sosrUyakaH-yikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“स्रु गतौ”@} 2 ‘--स्रुतौ द्रुमे।
शु स्रु गतावित्येके’ इति धा।
का।
व्या।
3।
स्रावकः-विका, स्रावकः-विका, 4 सुस्रूषकः-षिका, सोस्रूयकः-यिका
स्रोता-त्री, स्रावयिता-त्री, सुस्रूषिता-त्री, सोस्रूयिता-त्री
5 इत्यादिकानि रूपाणि सर्वाणि द्रवतिवत् 6 ज्ञेयानि।
7 स्रावयन्, स्रावयिष्यन्, 8 स्रूः, स्रवः, 9 आस्रावः 10, संस्रावः, 11 प्रस्रावः, 12 प्रस्रावी, 13 स्रुत्, स्रुतिः, परिस्रुत्, 14 सुस्रावयिषुः-सिस्रावयिषुः, 15 स्रुक्-स्रुवः, 16 स्रोतः, इमानि रूपाणि अस्य धातोः विशेषेण भवन्तीति ज्ञेयम्।
प्रासङ्गिक्यः
01
=>
(१९८०)
02
=>
(१-भ्वादिः-९४०। सक। अनि। पर।)
03
=>
(२-३४)
04
=>
[[१०। सनि ‘इको झल्’ (१-२-९) इति सनः कित्त्वान्न गुणः। ‘अज्झनगमां सनि’ (६-४-१६) इति दीर्घः।]]
05
=>
[पृष्ठम्१४०२+ २८]
06
=>
(८८३)
07
=>
[[१। ‘बुधयुधनशजनेङ्प्रुद्रुस्रुभ्यो णेः’ (१-३-८६) इति ण्यन्तादपि परस्मैपदमेव भवति। ‘णिचश्च’ (१-३-७४) इत्यस्यापवादोऽयम्।]]
08
=>
[[२। स्रवतीति स्रूः। ‘क्विपि स्रुद्रपरिव्रजां दीर्घश्च इति केचित्’ इति प्रक्रिया- कौमुदी।]]
09
=>
[[३। ‘श्याद्व्यधास्रुसंस्रु--’ (३-१-१४१) इत्यादिना आङ्समुपसृष्टाद् अस्माण्णः कर्तरि। संस्रावः इत्यत्रापि एवमेव। अत्र ‘आश्रुसंश्रु’ इति पठित्वा श्रुधातोरेव णप्रत्यय इति केचित्।]]
10
=>
[[आ। ‘अवश्यायकणास्रावाश्चारुमुक्ताफलत्विषः। कुर्वन्ति चित्तसंस्रावं चलत्पर्णाग्रसंमृताः।।’ भ। का। ६-८१।]]
11
=>
[[४। ‘प्र द्रुस्तुस्रुवः’ (३-३-२७) इति प्रशब्द उपपदे घञ्प्रत्ययः।]]
12
=>
[[५। प्र उपपदे ‘प्रे लपस्रु--’ (३-२-१४५) इति घिनुण्प्रत्यये रूपमेवम्।]]
13
=>
[[६। संपदादित्वात् स्त्रियां भावे क्विप्। ततः तुकि रूपमेवम् इति प्रक्रियासर्वस्वम्।]]
14
=>
[[७। ण्यन्तात् सनि ‘स्रवतिशृणोति--’ (७-४-८१) इत्यभ्यासोकारस्य इकारादेशो विकल्पेन भवति। तेन रूपद्वयमिति ज्ञेयम्।]]
15
=>
[[८। स्रवति अस्मादिति ‘स्रुवः कः’ ‘चिक् च’ (प। उ। २-६३, ६४) इति क-चिकौ प्रत्ययौ भवतः। ‘एतौ भीमादित्वात् (३-४-४) अपादाने।’ इति धातुवृत्तिः।]]
16
=>
[[९। औणादिके (द। उ। ९-६२) असुन्प्रत्यये तुडागमे रूपमेवम्। शोभनं स्रवतीति स्रोतः।]]