| YouTube Channel

सोमवारव्रत (somavAravrata)

 
Spoken Sanskrit
English
सोमवारव्रत - somavAravrata -
n.
- fast observed in the evening of a Monday in honour of ziva and durgA
Monier Williams Cologne
English
सोम—वार—व्रत
n.
a fast observed in the evening of a Monday in honour of Śiva and Durgā (°त-कल्प
m.
°त-विधि
m.
°ताचरण-क्रम
m.
°तोद्यापन
n.
N.
of works),
Cat.
Aufrecht Catalogus Catalogorum
English
सोमवारव्रत Burnell 145^b. Taylor 1, 123. 270. 411.
413. 417.
--from the Skandapurāṇa. W. p. 342.
शब्दकल्पद्रुमः
Sanskrit
सोमवारव्रतं,
क्ली,
(सोमवारकर्त्तव्यं व्रतम् ।)प्रतिसोमवारोपवासपूर्व्वकसायंकालकर्त्तव्यशिव-दुर्गापूजारूपव्रतविशेषः तद्विवरणं यथा, --“सोमवारे विशेषेण प्रदोषादिगुणैर्युते ।केवलं वापि ये कुर्य्युः सोमवारे शिवार्च्चनम् ।न तेषां विद्यते किञ्चिदिहामुत्र दुर्लभम्
उपोषितः शुचिर्भूत्वा सोमवारे जितेन्द्रियः ।वैदिकैर्लौकिकैर्व्वापि विधिवत्पूजयेच्छिवम्
ब्रह्मचारी गृहस्थो वा कन्या वापि सभर्त्तृका ।विभर्त्तृका वा संपूज्य लभते वरमीप्सितम्
*
तत्राहं कथयिष्यामि कथां श्रोत्रमनोरमाम् ।श्रुत्वा श्रुतधियः शम्भोर्भक्तिं कुर्व्वन्तु निश्चलाम्आर्य्यावर्त्ते नृपः कश्चिदासीद्धर्म्मभृतां वरः ।चित्रवर्म्मेति विख्यातो धर्म्मराजो दुरात्मनाम्
सोऽनुकूलः स्वपत्नीषु पुत्त्रमेकं लब्धवान् ।चिरेण प्रार्थितां लेभे कन्यामेकां मनोहराम्
एकदा जातकलक्षणज्ञा-नाहूय सर्व्वान् द्विजमुख्यवर्गान्कुतूहलेनापि निविष्टचेताःपप्रच्छ तस्या जनने विचारम्
*
अथ तं प्रावदत् कोऽपि बहुज्ञो द्विजसत्तमः ।एका सीमन्तिनी मान्या कन्या तव महीपते
अथान्योऽपि द्विजः प्राह धैर्य्यवानविशङ्कितः ।एषा चतुर्द्दशे वर्षे वैधव्यं प्रतिपत्स्यति
इत्याकर्ण्य वचस्तस्य वज्रनिर्घातनिष्ठुरम् ।मुहूर्त्तमभवद्राजा चिन्ताव्याकुलमानसः
सापि सिमन्तिनी बाला क्रमेण गतशैशवा ।वैधव्यमात्मनो भावि सा शुश्राव सखीमुखात्
परं निर्व्वेदमापन्ना तदाकर्ण्य शुचिस्मिता ।याज्ञवल्क्यमुनेः पत्नों मैत्रेयीं पर्य्यपृच्छत
मातस्त्वच्चरणाम्भोजं प्रपन्नाहं भयाकुला ।सौभाग्यवर्द्धनं कर्म्म मम संशितुमर्हसि
*
इति प्रपन्नां नृपतेः कन्यामाह मुनेः सती ।शरणं व्रज तन्वङ्गि पार्व्वतीं शिवसंयुताम्
सोमवारे शिवं गौरीं पूजयस्व समाहिता ।उपोषिता वा सुस्नाता विरजाम्बरधारिणी
यतवाङ्निश्चलमतिः पूजां कृत्वा यथोचिताम् ।ब्राह्मणान् भोजयित्वा शिवं सम्यक् प्रसादयपापक्षयोऽभिषेकेण साम्राज्यं पीठपूजनात् ।सौभाग्यमखिलं सौख्यं गन्धमाल्याक्षतार्च्चनात्धूपदानेन सौगन्ध्यं कान्तिर्द्वीपप्रदानतः ।नैवेद्येन महाभोगी लक्ष्मीस्ताम्बूलदानतः
धर्म्मार्थकाममोक्षाणां नमस्कारः प्रसाधनम् ।अष्टैश्वर्य्यादिसिद्धीनां जप एव हि साधनम्
होमेन सर्व्वकामानां समृद्धिरपि जायते ।सर्व्वेषामेव देवानां तुष्टिर्ब्राह्मणभोजनात्
इत्थमाराधय शिवं सोमवारे शिवामपि ।प्राप्ता विपद्भिर्बहुभिर्दुःखैर्व्वा विहन्यसे
घोरात् घोरं प्रपन्नापि महाक्लेशं भयानकम् ।शिवपूजाप्रभावेण तरिष्यति महद्भयम्
*
इत्थं सीमन्तिनी सम्यक् तन्निशम्य सतीमुखात्ययौ सापि वरारोहा राजपुत्त्री तथापि
इत्यादि स्कन्दपुराणे ब्रह्मोत्तरखण्डे सोमवार-वतमाहात्म्यम् अध्यायः