| YouTube Channel

सोमरोगः (somarogaH)

 
Apte Hindi
Hindi
सोमरोगः
पुं*
सोम-रोगः -
स्त्रियों का एक विशेष रोग
शब्दकल्पद्रुमः
Sanskrit
सोमरोगः,
पुं,
स्त्रीरोगविशेषः यथा, --अथ सोमरोगाधिकारः ।तत्र सोमरोगस्य निदानपूर्व्विकां सम्प्राप्तिमाह ।“स्त्रीणामतिप्रसङ्गेन शोकाच्चापि श्रमादपि ।अतिसारकयोगाद्वा गरयोगात्तथैव
आपः सर्व्वशरीरस्थाः क्ुभ्यन्ति प्रस्रवन्ति ।तस्यास्ताः प्रच्युताः स्थानान्मूत्रमार्गं व्रजन्तिहि
”अथ तस्य लक्षणमाह ।“प्रसन्ना विमला शीता निर्गन्धा नीरुजः सिताः ।स्रवन्ति चातिमात्रं ताः सा शक्नोति दुर्ब्बला
वेगं धारयितुं तासां विन्दति मुखं क्वचित् ।शिरःशिथिलता तस्या मुखं तालु शुष्यति
मूर्च्छा जृम्भा प्रलापश्च त्वग्रूक्षा चातिमात्रतः
भक्ष्यैर्भोज्यैश्च पेयैश्च तृप्तिं लभते सदा
सन्धारणाच्छरीरस्य ता आपः सोमसंज्ञिताः ।ततः सोमक्षयात् स्त्रीणां सोमरोगे इति स्मृताः”अथ सोमरोगस्य चिकित्सा ।“कदलीनां फलं पक्वं धात्रीफलरसं मधु ।शर्क्करासहितं खादेत् सोमधारणमुत्तमम्
माषचूर्णं समधुकं विदारीं मधुशर्क्कराम् ।पयसा पाययेत् प्रातः सोमधारणमुत्तमम्
एव सरुजः सोमः स्रवेन्मूत्रेण चेन्मुहुः ।तत्रै लापत्रचूर्णेन पाययेत्तरुणीं सुराम्
जलेनामलकीबीजकल्कं समधुशर्क्करम् ।पिबेद्दिनत्रयेणैव श्वेतप्रदरनाशनम्
तक्रोदनाहाररता संपिबेन्नागकेशरम् ।त्र्यहं तक्रेण संपिष्टं श्वे तप्रदरनाशनम्
*
तत्रैव मूत्रातीसारस्य लक्षणं चिकित्साञ्चाह ।“सोमरोगे चिरं जाते यदा मूत्रमतिस्रवेत् ।मूत्रातिसारं तं प्राहुर्बलविध्वंसनं परम्
तालकन्दञ्च खर्ज्जूरं मधुकञ्च विदारिकाम् ।सितामधुयुतां खादेत् मूत्रातीसारनाशनम्
१चक्रमर्द्द कमूलन्तु संपिष्टं तण्डुलाम्बुना ।प्रभातसमये पीतं जलप्रदरनाशनम्
इति सोमरोगे मूत्रातिसाराधिकारः इतिभावप्रकाशः
(तथाचास्य चिकित्सोपयोगि-वटिकौषधं यथा, --“कर्षं जारितलौहञ्च तदर्द्धं रसगन्धकम् ।एलापत्रं निशायुग्मं जम्बुवीरणगोक्षुरम्
विडङ्गं जीरकं पाठा धात्रीदाडिमटङ्कणम् ।चन्दनं गुग्गुलुं लोध्रशालार्ज्जुनरसाञ्जनम्
छागीदुग्धेन वटिकां कारयेद्दशरक्तिकाम् ।निर्म्मितो नित्यनाथेन सोमनाथरसस्त्वयम्
सोमरोगं बहुविधं प्रदरं हन्ति दुर्ज्जयम् ।योनिशूलं मेढ्रशूलं सर्व्वजं चिरकालजम् ।बहुमूत्रं विशेषेण दुर्ज्जयं हन्त्यसंशयः
”इति सोमनाथरसः
इति वैद्यकरसेन्द्रसारसंग्रहे सोमरोगाधिकारे
)