| YouTube Channel

सोमयागः (somayAgaH)

 
Apte Hindi
Hindi
सोमयागः
पुं*
सोम-यागः -
सोमयज्ञ
Wordnet
Sanskrit
Synonyms:
सोमयागः, सोमयज्ञः
noun
प्राचीनकालीनः यज्ञविशेषः।
"सोमयज्ञे सोमरसस्य प्राशनं भवति।"
शब्दकल्पद्रुमः
Sanskrit
सोमयागः,
पुं,
(सोमात्मको यागः ।) सोमलता-रसपानाङ्गकत्रैवार्षिकयज्ञविशेषः यथा, --नारद उवाच ।“सोमयागविधानञ्च ब्रूहि मां मुनिसत्तम ।कथं तं कारयामास गुरुश्च किं फलं परम्
नारायण उवाच ।ब्रह्महत्याप्रशमनं सोमयागफलं मुने ।वर्षं सोमलतापानं यतमानः करोति
वर्षमेकं फलं भुङ्क्ते वर्षमेकं जलं मुदा ।त्रैवार्षिकमिदं यागं सर्व्वपापप्रणाशनम्
यस्य त्रैवार्षिकं धान्यं निहितं भूतिवृद्धये ।अधिकं वापि विद्येत सोमं पातुमर्हति
महाराजश्च देवो वा यागं कर्त्तुमलं मुने ।न सर्व्वसाध्यो यज्ञोऽयं बह्वन्नो बहुदक्षिणः
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ६० ५४-५८