| YouTube Channel

सैरेयः (saireyaH)

 
शब्दकल्पद्रुमः
Sanskrit
सैरेयः,
पुं,
(सैरे कर्षे भवः सैर + “नद्यादिभ्योढक् ।” ९७ इति ढक् ।) झिण्टी इतिशब्दमाला भरतश्च
(अस्य पर्य्यायो यथा, --“सैरेयकः श्वेतपुष्पः सैरेयः कटसारिका ।सहाचरः सहचरः भिन्द्यपि कथ्यते
”अथास्य गुणाः ।“सैरेयः कुष्ठवातास्रकफकण्डूविषापहः ।तिक्तोष्णो मधुरोऽनम्लः सुस्निग्धः केशरञ्जनः
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
)