| YouTube Channel

सैन्धवं (saindhavaM)

 
शब्दकल्पद्रुमः
Sanskrit
सैन्धवं,
क्ली,
पुं,
(सिन्दौ समुद्रतीरे सिन्धुदेशे वाभवम् सिन्धु + “अणञौ ।” ३३ इतिअण् ।) लवणविशेषः तु सिन्धुनद्युपलक्षित-देशोद्भवः तत्पर्य्यायः शीतशिवम् माणि-मन्थम् सिन्धुजम् इत्यमरः ४२
वशिरम् सिन्धुदेशजम् माणिबन्धम् ।इति जटाधरः
शितशिवम् इति शब्द-रत्रावली
नादेयम् शिवम् १० सिद्धम् ११शिवात्मजम् १२ पथ्यम् १३ अस्य गुणाः ।“सैन्धवं लवणं वृष्यं चक्षुष्यं दीपनं रुचि ।पूतं स्वादु त्रिदोषघ्नं व्रणदोषविबन्धजित्
सैन्धवं द्विविधं ज्ञेयं सितं रक्तमिति क्रमात्
रसवीर्य्यविपाकेषु गुणाढ्यं कथितं सितम्
”इति राजनिर्घण्टः
अपि ।“सैन्धवं लवणं स्वादु दीपनं पाचनं तघु ।स्निग्धं रुच्यं हिमं वृष्यं सूक्ष्मनेत्रं त्रिदोषहृत्
”इति भावप्रकाशः
किञ्च ।“सैन्धवं दोषजिद्वृष्यं चक्षुष्यमविदाहि ।अग्निसन्दीपनं स्निग्धं रोचनं मधुरं लघु
”इति राजवल्लभः
तत्तु हविष्यान्नम् यथा, स्मृतिः ।“लवणे सेन्धवसामुद्रे गव्ये दधिसर्पिषी ।”इति हविष्यान्नगणने तिथ्यादितत्त्वम्