| YouTube Channel

सेसिमकः-मिका (sesimakaH-mikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“स्यमु शब्दे”@} 2 3 पुरुषकारे 4 ‘स्यमयेत् इति हेतुमण्णिचि--’ इत्युक्तम्।
घटाद्यन्तर्ग- तत्वाभावात् कथं मित्त्वं इति ज्ञायते।]] ‘स्यमेः स्यमति शब्दार्थे वितर्के स्यामयेत णौ।।’ 5 इति देवः।
स्यामकः-मिका, स्यामकः-मिका, सिस्यमिषकः-षिका, 6 सेसिमकः-मिका
इत्यादीनि रूपाणि सर्वाण्यपि ध्वनतिवत् 7 ज्ञेयानि।
स्यमित्वा-स्यान्त्वा, स्यान्तः, स्यमन्तको मणिः-बाहुलकात् औणादिके झच्प्रत्यये ‘झोऽन्तः’ 8 इत्यन्तादेशे संज्ञायां कनि रूपमिति विशेषः।
औणादिके 9 किकन्प्रत्यये सिमीका-सूक्ष्मा कृमिजातिः।
स्यमीका-क्रिमिः इति स्वामी।
क्वसौ- 10 स्येमिवान्-सस्यमिवान् इति।
प्रासङ्गिक्यः
01
=>
(१९७४)
02
=>
(१-भ्वादिः-८२६। अक। सेट्। पर।)
03
=>
[[[अ]
04
=>
(देवश्लो। १४८)
05
=>
(श्लो। १४८)
06
=>
[[१। ‘स्वपिस्यमिव्येञां यङि’ (६-१-१९) इति संप्रसारणे द्विर्वचने अभ्यासस्य गुणे रूपमेवम्। एवं यङन्ते सर्वत्र बोध्यम्।]]
07
=>
(९४०)
08
=>
(७-१-३)
09
=>
(द। उ। ३-१५)
10
=>
[[२। अत्र ‘फणां सप्तानाम्’ (६-४-१२५) इति एत्वाभ्यासलोपौ वा।]]