| YouTube Channel

सेव्यं (sevyaM)

 
शब्दकल्पद्रुमः
Sanskrit
सेव्यं,
क्ली,
(सेव्यते इति सेव + ण्यत् ।) वीरण-मूलम् इत्यमरः १६४
(अस्यपर्य्यायो यथा, --“वीरणस्य तु मूलं स्यादुशीरं नलदञ्च तत् ।अमृणालञ्च सेव्यञ्च समगन्धिकमित्यपि
”इति भावप्रकाशे पूर्व्वखण्डे भागे
लामज्जकम् उशीरवत्पीतच्छवितृणविशेषः ।तत्पर्य्यायो यथा, --“लामज्जकं सुनालं स्यादमृणालं लयं लघुः ।इष्टकापथकं सेव्यं नलदञावदातकम्
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
“स्यादुशोरं मृणालञ्च सेव्यं लामज्जकन्तथा ।”इति गारुडे २०८ अध्यायः
)