| YouTube Channel

सेतुबन्धः (setubandhaH)

 
Apte Hindi
Hindi
सेतुबन्धः
पुं*
सेतुबन्धः -
"पुल का निर्माण, नवारा की रचना"
सेतुबन्धः
पुं*
सेतुबन्धः -
शैल शृंखला जो कारोमण्डल समुद्रतट की दक्षिणी सीमा से लंका तक फैली हुई है
सेतुबन्धः
पुं*
सेतुबन्धः -
कोई भी पुल या नवारा
Wordnet
Sanskrit
Synonyms:
सेतुः, सेतुबन्धः, जलबन्धकः, धरणम्, पिण्डनः, आलिः
noun
नद्यादीषु जलबन्धनार्थे विनिर्मिता भित्तिसदृशी रचना।
"नद्यां सेतोः बन्धनं कृत्वा विद्युत् निर्मीयते।"
शब्दकल्पद्रुमः
Sanskrit
सेतुबन्धः,
पुं,
(सेतोर्बन्धः ।) लङ्कागमनार्थश्रीराम-कृतसमुद्रबन्धनसेतुः तत्पर्य्यायः समुद्रारुः ।इति जटाधरः
तद्विवरणं यथा, --“ततोऽब्रवीद्रघुश्रेष्ठं सागरो विनयान्वितः ।नलः सेतुं करोत्वस्मिन् जले मे विश्वकर्म्मणः
सुतो धीमान् समर्थोऽस्मिन् कार्य्ये लब्धवरोहरिः ।कीर्त्तिं गायन्तु ते लोकाः सर्व्वलोकमलापहाम्
इत्युक्त्वा राघवं नत्वा ययौ सिन्धुरदृश्यताम् ।ततोरामस्तु सुग्रीवलक्ष्मणाभ्यां समन्वितः ।नलमाज्ञापयच्छीघ्रं वानरैः सेतुबन्धने
ततोऽतिहृष्टः प्लवगेन्द्रयूथपै-र्महानगेन्द्रप्रतिमैर्युतो नलः ।बबन्ध सेतुं शतयोजनायतंसुविस्तरं पर्व्वतपादपैर्दृढम्
”इति श्रीमदध्यात्मरामायणे लङ्काकाण्डे अः
“सेतुमारभ्यमाणस्तु तत्र रामे्वरं शिवम् ।सङ्कल्पनियतो गत्वा पुरीं वाराणसीं नरः
आनीय गङ्गासलिलं रामेशमभिषिष्य ।क्षिप्त्वा समुद्रे तद्वारि ब्रह्म प्राप्नोत्यसंशयः
कृतानि प्रथमेनाह्रा योजननां चतुर्द्दश ।द्वितीयेन तथा चाह्रा योजनानाञ्च विंशतिः
तृतीयेन तथा चाह्रा योजनान्ये कविंशतिः ।चतुथन तथा चाह्रा द्वाविंशति तथा कृतम्
पञ्चमेन त्रयोविंशयोजननां समन्ततः ।बबन्ध सागरे सेतुं नलो वानरसत्तमः
तेनैव जम्मुः कपयो योजनानां शतं द्रुतम् ।असंख्याताः सुवेलाद्रिं रुरुहुः प्लवगोत्तमाः
आरुह्य मारुतिं रामो लक्ष्मणाऽप्यङ्गदं तथा ।दिदृक्षू राघवो लङ्कां नानाचित्रध्वजाकुलाम्
”इति तत्रैव अध्यायः
(क्षेत्रादेरालिबन्धनम् यथा, महाभारते ।७ ८४ ।“गतोदके सेतुबन्धो यादृक् तादृगयं तव ।विलापो निष्फलो राजन् मा शुची भरतर्षभ