| YouTube Channel

सेकृ (sekR)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
सेक्
मूलधातुः:
सेकृ
धात्वर्थः:
गतौ
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
सेकते
धातुप्रदीपः
Sanskrit
सेकृँ सेकृ
मानकरूपान्तरम् - स्रेकृँ
स्रेकृ
मानकरूपान्तरम् - श्रेकृँ
श्रेकृ
मानकरूपान्तरम् - स्रकिँ
स्रकि
मानकरूपान्तरम् - श्रकिँ
श्रकि
मानकरूपान्तरम् - श्लकिँ
श्लकि गत्यर्थाः
- सेकते सिसेके असिसेकत् स्त्रेकते श्रकते [ स्रङ्कते ।] श्रङ्कते श्रङ्क्यते श्लङ्कते श्लङ्क्यते (28) ।। 79-74 ।।
धातुवृत्तिः
Sanskrit
सेकृँ सेकृ
मानकरूपान्तरम् - स्रेकृँ
स्रेकृ
मानकरूपान्तरम् - स्रकिँ
स्रकि
मानकरूपान्तरम् - श्रकिँ
श्रकि
मानकरूपान्तरम् - श्लकिँ
श्लकि (अर्थः) गत्यर्थाः
अन्त्यौ तालव्यादी, अन्ये दन्त्यादयः ( सेकते सिसेके सेकिता सेकते सिस्रेके स्रङ्कते सस्रङ्के स्रङिकता श्रङ्कते शश्रङ्के श्रङ्किता श्लङ्कते शश्लङ्के श्लङ्किता ) इत्यादि अत्र मैत्रेयः तृतीयं श्रेकृ इति तालव्यादिमेकारोपधं पठति अत्र क्व चित्सीकृ इति दन्त्यादिरपरोपि धातुः पठ्यते, तदनार्षम् स्तॄसृजिसृपिसॄस्तृयासेकृसृजमिति षोपदेशपर्युदासे भाष्याद्विष्वपाठात् अत्र क्षीरस्वामी अत्र दन्त्यादेः स्थाने तालव्यार्दि पठित्वाऽर्थभेदात्पुनः पाठ इत्युक्त्वा षेकृ इत्यन्ये विकल्पेन षोपदेशं कार्यार्थे पेठुरिति 85
कृदन्तरूपमाला
Sanskrit
1 {@“सेकृ गतौ”@} 2 दन्त्यादिरयम् इति प्रायेण सर्वे पठन्ति।
‘अन्ये ‘षेकृ’ इति विकल्पेन षोपदेशकार्यार्थं पेठुः’ इति तरङ्गिण्याम्।
सर्वाण्यपि रूपाणि भौवादिक- केपतिवत् 3 ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(१९२०)
02
=>
(१-भ्वादिः-८१। सक। सेट्। आत्म।)
03
=>
(२६१)